पूर्वम्: ७।३।८४
अनन्तरम्: ७।३।८६
 
सूत्रम्
जाग्रोऽविचिण्णल्ङित्सु॥ ७।३।८५
काशिका-वृत्तिः
जाग्रो ऽविचिण्णल्ङित्सु ७।३।८५

जागु इत्येतस्य अङ्गस्य गुणो भवति अविचिण्णल्ङित्सु परतः। जागरयति। जागरकः। साधुजागरी। जागरंजागरम्। जागरो वर्तते। जागरितः। जागरितवान्। वृ̄द्धिविषये प्रतिषेधविषये च यथा स्यातिति जागर्तेरयं गुणः आरभ्यते। तस्मिन् कृते या अत उपधायाः ७।२।११६ वृद्धिः प्राप्नोति सा न भवति। यदि हि स्यातनर्थक एव गुणः स्यात्, चिण्णलोश्च प्रतिषेधवचनम् अनर्थकम्। अविचिण्णल्ङित्सु इति किम्? जृ̄शृ̄स्तृर्जागृभ्यः क्विन् जागृविः। चिण् अजागारि। णल् जजागार। ङित् जागृतः। जागृथः। वि इति केचिदिकारम् उच्चारणार्थं वर्णयन्ति, क्वसावपि वकारादौ गुणो न भवति। जजागृवान्। अजागरुः, अहं जजागर इत्यत्र प्रतिषेधः प्राप्नोति? न, अप्रतिषेधात्। अविचिण्णल्ङित्सु इति पर्युदासो ऽयम्, अथवा जाग्रः इति प्रप्तिरसावानन्तर्याद् विचिण्णल्ङित्सु प्रतिषिध्यते। या तु जुसि च ७।३।८३, सार्वधातुकार्धधातुकयोः ७।३।८४ इति च प्राप्तिः , सा न प्रतिषिध्यते।
न्यासः
जाग्रोऽविचिण्णल्ङित्सु। , ७।३।८५

"जागरयति" इति। णिच्()। "जागरकः" इति। ण्वुल्()। "साधुजागरी" इति। ताच्छील्ये णिनिः। "जागरञ्जागरम्()" इति। "आभीक्ष्ण्ये णमुल्()" ३।४।२२, "आभीक्ष्ण्ये द्वे भवतः" (वा।८८७) इति द्विर्वचनम्()। "जागरो वत्र्तते" इति। भावे धञ्()। एतानि वृद्धिविषय उदाहरणानि। "जागरिता, जगरितवान्()" इति प्रतिषेधविषये। किं पूनः कारणं वृद्धिविषये प्रतिषेधविषये चैवोपन्यस्तान्युदाहरणानि? इत्यत आह--"वृद्धिविषये प्रतिषेधविषये च" इत्यादि। वृद्धिप्रतिषेधविषयादन्यत्र पूर्वसूत्रेण गुणः सिद्धो भवति। तस्मादवृद्धिप्रतिषेधविषयेऽयं गुण आरभ्यते, तेन तद्विषयाणामेवोदाहरणानासुपन्यासः। जागरयतीत्यादौ गुणे कृते रपरत्वे च "अत उपधायाः" ७।२।११६ इति वृद्ध्या भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निरकर्त्तुमाह--"तस्मिन्? कृते" इत्यादि। किं पुनः कारणं तस्मिन्? कृते न भवति? इत्याह--"यदि हि" इत्यादि। यद्यस्मिन्? कृतेऽपि गुणे "अत उपधायाः" ७।२।११६ इति वृद्धिः स्यात्(), जागरयतीत्यादिकं रूपं न स्यात्(), तथा चानर्थको गुणः स्यात्(); "अचो ञ्णिति" ७।२।११५ इत्यनयैव वृद्ध्या सिद्धत्वात्()। "चिण्णलोश्च" इत्यादि। चिण्णलोः प्रतिषेधस्येतत्? प्रयोजनम्()--वृद्धेः श्रवणं यथा स्यात्()। यदि तु कृतेऽपि गुणे "अत उपधायाः" ७।२।११६ इति स्यात्(), चिण्णलोः प्रतिषेधोऽनर्थकः यात्(); अस्त्वत्र गुणः, सत्यपि तस्मिन्? पुनरुपधाया इति वृद्ध्या भवितव्यम्(), ततश्च वृद्धेः श्रवत्रं भविष्यतीति। "अजागारि" इति। लुङ्(), च्लिः, "चिण्भावकर्मणोः" ३।१।६६ इति च्लेश्चिण्(), "चिणो लुक्()" ६।४।१०४ इति तकारस्य लुक्()। "जागृतः, जागृथः" इति। लट्(), तस्थसौ, तयोः "सार्वधातुकमपित्()" १।२।४ इति ङित्त्वम्(), अदादित्वाच्छयो लुक्()। "वीति केचिदिकारमुच्चारणार्थं वर्णयन्ति" इति। किं पुनरेवं सतीष्टं सिध्यति, यत एवं व्याचक्षते? आह--"क्वसावप" इत्यादि। यदि समुदायस्थ वेः प्रत्ययस्येवं ग्रहणं स्यात्(), क्वासौ गुणप्रतिषेधो न स्यात्()। यदि त्विकार उच्चारणार्थो वर्णमात्रस्यैवेदं ग्रहणम्(), तदा "यस्मिन्? विधिस्तदादावल्ग्रहणे" (व्या।प।१२७) इति तदादिविधिना क्वासावपि गुणप्रतिषेधः सिद्धो भवति। "जजागृवान्()" इति। लिटः "क्वसुश्च" ३।२।१०७ इति क्वसुरादेशः, "उगिदचाम्()" ७।१।७० इति नुम्(), "जजागृवान्()" इति। लिटः "क्वसुश्च" ३।२।१०७ इति क्वसुरादेशः, "उगिदचाम्()" ७।१।७० इति नुम्(), "सान्तमहतः संयोगस्य" ६।४।१० इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। "केचित्()" इति वचनात्()--अपर उच्चारणार्थं न वर्णयन्तीत्युक्तं भवति। त एवं मन्यन्ते--छान्दसः क्वसुः, लिट्? च छन्दसि सार्वधातुकमपि भवति; "छन्दस्युभयथा" (३।४।११७) इति वचनात्? ततः "सार्वधातुकमपित्()" १।२।४ इति ङित्त्वादेव पर्युदासो भविष्यतीति। "अजागरुः" इत्यादि। एवं मन्यते--"अविचिण्णल्ङित्सु" १।२।४ इति ङित्त्वादेव पर्युदासो भविष्यतीति। "अजागरुः" इत्यादि। एवं मन्यते--"अविचिण्णल्ङित्सु" इति प्रसज्यप्रतिषेधोऽयम्()--विचिण्णल्ङितसु न भवतीति, ततश्चाजागरुरित्यत्रापि "जुसि च" ७।३।८३ इत्यनेनापि प्राप्तस्य गुणस्या प्रतिषेधः प्राप्नोति। एवमहं जजागरेत्यत्र "णलुत्तमो वा" ७।१।९१ इति वचनाण्णित्त्वं यदा नास्ति तदा "सार्वधातुकार्धधातुकायोः" ७।३।८४ इति गुण इष्यते, सोऽस्मात्? प्रतिषेधान्न प्राप्नोति। "न" अप्रतिषेधात्()" इति परिहारः। नायं दोषः; कुतः? अप्रतिषेधात्()। अप्रसज्यप्रतिषेधा दित्यर्थः। यदि प्रसज्यप्रतषेधो न भवति, कस्तह्र्रयम्()? इत्याह--"अविचिण्णाल्ङित्स्विति पर्युदासोऽयम्()" इति। प्रसज्यप्रतिषेधे हि लक्षणान्तरेणापि प्रसक्तस्य प्रतिषेधः स्यात्(), न पर्युदासे। तथा हि पर्युदासे विचिण्णल्ङिद्भ्योऽन्यत्र गुणो विधीयते, न तु तेषु विचिण्णलादिषु प्रतिषिध्यते। पर्युदासश्चायम्()। तस्माज्जुसि णलि च गुणो भवत्येव। अभ्युपेत्यापि प्रसज्यप्रतिषेधं परहारान्तरमाह--"अथ वा" इत्यादि। "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या। प।१९) इत्यानन्तर्यात्? जाग्र इति या प्राप्तिस्तस्या अयं प्रतिषेधः, या तु "जुसि च" ७।३।८३ इत्यादिना लक्षणान्तरेण प्राप्तिः सा न प्रतिषिध्यते। "अजागरुः" इति। लङ्(), "जक्षित्यादयः षट्()" ६।१।६ इत्यभ्यस्तसंज्ञा, "सिजभ्यस्तविदिभ्यश्च" ३।४।१०९ इति झेर्जुस्()॥
बाल-मनोरमा
जाग्रोऽविचिण्णल्ङित्सु ३१०, ७।३।८५

जाग्रोऽवि। "जाग्र" इति षष्ठी। "मिदेर्गुणः" इत्यतो गुण इत्यनुवर्तते। तदाह--जागर्तेर्गुणः स्यादिति। "अविचिण्णल्ङित्स्वि"ति च्छेदः। वि चिण् णल् हित् एषां द्वन्देव नञ्समासः। तदाह-- विचिण्णल्ङिद्भ्योऽन्यस्मिन्निति। चिण्णल्पर्युदासाद्वृद्धिविषयेऽप्यस्य प्रवृत्तिः। ङित्पर्युदासाद्गुणप्रतिषेधविषयेऽप्यस्य प्रवृत्तिः। तदाह--वृद्धिविषये चेति। जजागतुरिति। अत्र कित्त्वेऽपि गुणः। जजागरुः। जजागरिथ जजागरथुः जजगार। जजागार--जजागर, जजागरिव जजागरिम। विचिण्णल्ङित्सु तु न गुणः। वि--जागृविः। चिण्--अजागारि। णल्--जजागार। ङित्--जागृतः। वृद्धिविषये यथा ण्वुलि-- जागरकः। प्रतिषेधविषये यथा--जजागरतुः। कित्त्वेऽपि गुण इत्याद्यूह्रम्।जागरिता। जागरिष्यति। जागर्तु-- जागृतात् जागृताम् जाग्रतु। जागृहि--जागृतात् जागृतम् जागृत। जागराणि जागराव जागराम। लङ्याह-- अजागरति। तिपि इकारलोपे हल्ङ्यादिना तकारलोपे रेफस्य विसर्ग इति भावः। अभ्यस्तत्वाल्लङो जेरदादेशे प्राप्ते आह-- अब्यस्तत्वाज्जुसिति। "सिजब्यस्तविदिभ्यश्चे"त्यनेनेति भावः। जक्षित्यादित्वादभ्यस्तत्वम्। अजागृ उस् इति स्थिते "सार्वधातुकमपि"दिति ङित्त्वादविचिण्णल्ङित्स्विति पर्यादासादप्राप्ते गुणे आह--

तत्त्व-बोधिनी
जाग्रोऽविचिण्णल्ङित्सु २७०, ७।३।८५

जाग्रोऽविचिण्णल्। ङिद्भ्योऽन्यस्मिन्निति। जागृविः। विशब्देन वादिप्रत्ययो गृह्रते। "इकारस्तूच्चारणार्थ" इति वदतां मते क्वसावपि न भवति। जजागृवान्। जजागृवांसौ। चिण्- अजागारि। णल्- जजागार। ङित्--जागृतः। जागृथः। वृद्धिविषये इति। ण्वुलि-- जागरकः। घञि-- जागरः। णिचि-- जागरयति। नचैतेषु गुणे कृतेऽपि "अत उपधायाः" इति वृद्धिः स्यादिति वाच्यं, गुणविधेश्चिण्णल्प्रतिषेधस्य चाऽ‌ऽनर्थक्यापत्तेः।