अभ्यस्तसंज्ञकस्य अङ्गस्य लघूपधस्य अजादौ पिति सार्वधातुके गुणो न भवति। नेनिजानि। वेविजानि। परिवेविषाणि। अनेनिजम्। अवेविजम्। पर्यवेविषम्। अभ्यस्तस्य इति किम्? वेदानि। अचि इति किम्? नेनेक्ति। पिद्ग्रहणम् उत्तरार्थम्। सार्वधातुके इति किम्? निनेज। लभूपधस्य इत्येव, जुहवानि। अजुहवम्। बहुलं छन्दसीति वक्तव्यम्। जुजोषतिति यथा स्यात्। पस्पशाते। चाकशीति। वावशीति। यङ्लुकि छान्दसमुपधाह्रस्वत्वं द्रष्टव्यम्। पस्पशाते इत्यत्र अभ्यासह्रस्वत्वं च। प्रकृत्यन्तराणां वा स्पशिकशिवशीनाम् एतानि रूपाणि।
लघूपधगुणो न स्यात्। नेनिजानि। नेनिक्ताम्। अनेनेक्। अनेनिक्ताम्। अनेनिजुः। अनेनिजम्। अनेनिक्त। नेनिज्यात्। नेनिजीत। निज्यात्, निक्षीष्ट॥
"नेनिजानि, वेविजानि, परिवेविषाणि" इति"।
"णिजिर्? शौचपोवणयोः" (धा।पा।
१०९३) "विजिर्? पृथग्भावे" (धा।पा।१०९४) "विषु व्याप्तौ" (धा।पा।१०९५)-एभ्यो लोट्(),
मिप्? "मेर्निः"
३।४।८९, "आडुत्तमस्य पिच्च"
३।४।९२ इत्यट्(), "जुहोत्यादिभ्यः श्लुः"
२।४।७५ इति शपः श्लुः, "शलौ"
६।१।१० इति द्विर्वचनम्(), "निजां त्रयाणां गुणः श्लौ"
७।४।७५ इत्याभ्यासस्य गुणः। "अनेनिजम्(), अवेविजम्(), पर्यवेषिषम्()" इति। लङ्(), "तस्थस्तमिपां तान्तन्तामः" तान्तन्तामः"
३।४।१०१ इति मिपोऽम्भावाः।
"वेदानि" इति। "विद ज्ञाने" (धा।पा।१०६४)। "पूर्ववल्लोडादि यथायोगम्(), अदादितावाच्छपो लुक्()।
"नेनेक्ति" इति। लट्(), तिप्, "चोः कुः"
८।२।३० इति कुत्वम्()।
अथ पिद्ग्रहणं किमर्थम्(), यावताऽपिति सार्वधातुके "सार्वधातुकमपित्()"
१।२।४ इति ङित्त्वे सति "क्ङिति च"
१।१।५ इति निषेधेन भवितव्यमिति,
न चानयोः प्रतिषेधयोः कश्चिद्()विशेषोऽस्ति? इत्यत आह--"पिद्ग्रहणम्()" इति। "तृणह इम्()"
७।३।९२ इतीमं वक्ष्यति, स पिति यथा स्यात्(), अपिति मा भूदित्येवमर्थं पिद्ग्रहणम्()। "निनेज" इति। लिट्()।
स च "लिट्? च"
३।४।११५ इत्यार्धधातुकसंज्ञकः।
"जुहवानि इति। "हु दाने" (धा।पा।१०८३)। पूर्ववल्लोडादि। "अजुहवम्()" इति। पूर्ववल्लङादि। अत्र "लघूपधस्य"
७।३।८६ इत्यनुवृत्तेः "सर्वधातुकार्यधातुकयोः"
७।३।८४ इतीगन्तस्य यो गुणो विहितस्तस्य प्रतिषेधो न भवति।
"बहुलं छन्दसीति वक्तव्यम्()" इति। छन्दसि विषये बहुलं गुणप्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--इहेदं सूत्रं विभज्य द्वौ योगौ क्रियेते, तत्र "न" इत्येको योगः; "अभ्यस्तस्याचि पिति सार्वधातुके" इति द्वितीयः, तत्र च नेत्यनुवत्र्तते, यञ्च योगः पूर्वयोगस्यासर्वविषयत्वज्ञापनार्थः। तेन च्छब्दसि बहुलं प्रतिषेधो भविष्यति। "जुजोषत्()" इति। "जुषी प्रतिसेवनयोः" (धा।पा।१२८८) लेट्(), तिप्(); "लेटोऽडाटौ"
३।४।९४ इत्यट्(), तुदादित्वाच्छः, तस्य "बहुलं छन्दसि"
२।४।७३ इति श्लुः, "श्लौ"
६।१।१० इति द्विर्वचनम्()। लघूपधगुणः।
यद्यभ्यस्तस्याचि पिति सार्वधातुके गुणप्रतिषेध इध्यते, पस्पशाते, चकाशीति, वावशीतित्यत्रोपधाह्यसवत्वमिष्यते, तन्न प्राप्नोति; तस्मादभ्यस्तानामुपधाह्यस्वत्वमेव वक्तव्यम्(), न गुणप्रतिषेधः; ह्यस्वत्वे हि नेनिजानीत्येवमादि सिध्यति; पश्पशाते इत्यादि च? इति यश्चोदयेत्(), तं प्रत्याह--"पस्पशाते" इत्यादि। हि नेनिजानीत्येवमादि सिध्यति;
पस्पशाते इत्यादि च? इति यश्चोदयेत्(), तं प्रत्याह--"पस्पशाते" इत्यादि। "स्पशिरिति ["स्पाशिरिति"--प्रांउ।पाठः] गणपरिपठितो धात्वन्तरमस्त्येव, तस्माद्यङ्(), तस्य "यङोऽचि च"
२।४।७४ इति लुक्(), द्विर्वचनम्(), "शर्पूर्वाः खयः"
७।४।६१ इति खयः शेषः; अभ्यासस्य ह्यस्वत्वे कृते "दीर्घोऽकितः"
७।४।८३ इति दीर्घः, "व्यत्ययो बहुलम्()"
३।१।८५ इति वर्णव्यत्ययेनोपधाया अभ्यासस्य च ह्यस्वः, लेट्(), व्यत्ययेनैवात्मनेपदम्(), आट्। "चाकशीति" इति। "काशृ दीप्तौ" (धा।पा।११६२), "कुहोश्चुः"
७।४।६२ इत्यभ्यासस्य चुत्वम्(), तिप्(), "यङो वा"
७।३।९४ इतीट्()। "वावशीति" इति। "वाशृ शब्दे" (धा।पा।११६३), शेषं यथायोगं पूर्ववत्()। "पस्पशाते इत्यत्राभ्यासह्यस्वत्वं च" इति। चकारादुपधाह्यस्वत्वञ्च। इतरत्र तूपधाह्यस्वत्वमेव, नाभ्यासस्य ह्यस्वत्वम्()।
"प्रकृत्यन्तराणां वा" इति। "स्पश बाधनस्पर्शनयोः" (धा।पा।८८७), "कश गनिशासनयोः" (धा।पा।१०२४), "वश कान्तौ" (धा।प।१०८०)--एतानि प्रकृत्यन्तराणि ह्यस्वोपधानि सन्तीति, अत एषामेवैतानि रूपाणि। तस्माद्यथान्यासमेवास्तु॥