पूर्वम्: ७।४।६१
अनन्तरम्: ७।४।६३
 
सूत्रम्
कुहोश्चुः॥ ७।४।६२
काशिका-वृत्तिः
कुहोश् चुः ७।४।६२

अभ्यासस्य कवर्गहकारयोः चवर्गादेशो भवति। चकार। चखान। जगाम। जघान। हकारस्य जहार। जिहीर्षति। जहौ।
लघु-सिद्धान्त-कौमुदी
कुहोश्चुः ४५६, ७।४।६२

अभ्यासकवर्गहकारयोश्चवर्गादेशः॥
न्यासः
कुहोश्चुः। , ७।४।६२

"चखान" इति। "खनु अवदारणे" (ध।पा।८७८), द्विर्वचनम्(), तस्य चुत्वम्()--छकारः, "अभ्यासे चर्च" ८।४।५३ इति छकारस्य चकारः। "जघाति" इति। "लिट()न्यतरस्याम्()" २।४।४० इत्यदेर्घस्लादेशः, अभ्यासस्य चुत्वम्()। नादवतो महाप्राणस्य स्थाने तादृश एव झकारः, तस्यापि जश्त्वम्()--जकारः। "जहार" इति। "ह्मञ्? हरणे" (धा।पा।८९९)। "जिहीर्षति" इति। "इको झल्()" १।२।९ इति सनः कित्त्वम्(), "अज्झनगमां ६।४।१६ इति दीर्घत्वम्(), "ऋत इद्धातोः" ७।१।१०० इतोत्त्वम्(), रपरत्वम्(), "हलि च" ८।२।७७ इति दीर्घत्वम्(), हीर्ष-इत्यस्य द्विर्वचनम्()॥
बाल-मनोरमा
कुहोश्चु ९१, ७।४।६२

एवं च --कृ कृ ए इति स्थिते-- कुहोश्चुः। कु ह् इत्यनयोद्र्वन्द्वात्षष्ठीद्विचवनम्। "अत्र लोपोऽभ्यासस्ये"त्यतोऽभ्यासस्येत्यनुवर्तते। तदाह--अभ्यासेति। यद्यपि स्थानिनां कवर्गीयाणां हकारस्य च षट्()त्वात्, चवर्गीयाणां पञ्चत्वान्न यथासङ्ख्यं, नापि स्थानत आन्तर्यं, कण्ठतालुस्थानभेदात्। आभ्यन्तरप्रयत्नसाम्यं तु कवर्गचवर्गयोरविशिष्टम्। हकारचवर्गयोस्तु नास्त्येव तत्, अतो बाह्रप्रयत्नत एवान्तर्यमिह व्यवस्थापकमाश्रयणीयम्। तत्र प्रथमस्य कवर्गीयस्य पर्थम एव चवर्गीयो भवति, अघोष()आआसविवाराऽल्पप्राणप्रयत्नसाम्यात्, न तु द्वितीयः, महाप्राणत्वात्। नापि तृतीय पञ्चमौ, घोषसंवारनादप्रयत्नत्वात्। नापि चतुर्थः,घोषसंवारनादमहाप्राणप्रयत्नत्वात्। तथा द्वितीयस्य कवर्गीयस्य द्वितीय एव चवर्गीयो भवति, अघोष()आआसविवाराऽप्रामप्रयत्नत्वात्, न तु प्रथमः, अल्पप्राणत्वात्। नापि तृतीयपञ्चमौ, घोषसंवारनादाल्पप्राणप्रयत्नत्वात्। नापि चतुर्थःष घोषसंवारनादप्रयत्नत्वात्। तथा तृतीयस्य कवर्गीयस्य तृतीय एव चवर्गीयो भवति। घोषसंवारनादाल्पप्राणप्रयत्नत्वात्। न तु प्रथमः, अघोष()आआसविवारप्रयत्नत्वात्। अत एव न द्वितीयोऽपि, महाप्रामप्रयत्नत्वाच्च। नापि चतुर्थः महाप्राणत्वात्। नापि पञ्चमः, घोषसंवारनादाल्प्राणसाम्येऽपि अनुनासिकतया भेदात्। तथा चतुर्थस्य कवर्गीयस्य चतुर्थ एव चवर्गीयो भवति, घोषसंवारनादमहाप्राणप्रयत्नत्वात्। न तु प्रथमः, अघोष()आआसविवाराल्पप्राणप्रयत्नत्वात्। नापि द्वितीयः, अघोषविवार()आआसप्रयत्नत्वात्। नापि तृतीयपञ्चमौ, अल्पप्राणत्वात्। पञ्चमस्य तु कवर्गीयस्य अनुनासिकत्वाञ्ञकार एव। हकारस्य तु घोषसंवारनादमहाप्राणवतस्तादृशो वर्गचतुर्थ एव झकार इति विवेकः। प्रकृते तु क कृ ए इति स्थिते अभ्यासककारस्य चकारे ऋकारस्य यणि रेफः। तदाह--एधांचक्र इति। एककर्तृका भूतानद्यतनपरोक्षा वृद्धिरूपा कियेत्यर्थ-। एधांचक्राते इति। कृञो लिट आतामि टेरेत्वम्। "द्वर्वचनेऽची"ति यणि निषिद्धे "कृ" इत्यस्य द्वित्वे उरदत्वम्। हलादिः शेषः। चत्र्वम्। यण्। न च आतामित्यस्य द्वित्वनिमित्तत्वेऽपि आकारस्याऽचो द्वित्वनिमित्तत्वाऽभावात्कथमिह "द्वर्वचनेऽची"ति यण्()निषेध इति वाच्यं, साक्षाद्वा, समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तशब्देन विवक्षितत्वादिति भावः। एधांचक्रिर इति। झस्य इरेच्। कृ इत्यस्य द्वित्वादि पूर्ववत्।