पूर्वम्: ७।४।५६
अनन्तरम्: ७।४।५८
 
सूत्रम्
मुचोऽकर्मकस्य गुणो वा॥ ७।४।५७
काशिका-वृत्तिः
मुचो ऽकर्मकस्य गुणो वा ७।४।५७

मुचो ऽकर्मकस्य गुणो वा भवति सनि सकारादौ परतः। हलन्ताच् च १।२।१० इति कित्त्वप्रतिषेधो विकल्प्यते। मोक्षते वत्सः स्वयम् एव, मुमुक्षते वत्सः स्वयम् एव। अकर्मकस्य इति किम्? मुमुक्षति वत्सं देवदत्तः। कर्मकर्तरि मुचिरकर्मको भवति, कर्मविशेषस्य अविवक्षिताद्वा।
लघु-सिद्धान्त-कौमुदी
णिजां त्रयाणां गुणः श्लौ ६२९, ७।४।५७

णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ। नेनेक्ति। नेनिक्तः। नेनिजति। नेनिक्ते। निनेज, निनिजे। नेक्ता। नेक्ष्यति, नेक्ष्यते। नेनेक्तु। नेनिग्धि॥
न्यासः
मुचोऽकर्मकस्य गुणो वा। , ७।४।५७

"मोक्षते" इति। "मुच्लू मोक्षणे" (धा।पा।१४३०)। "चोः कुः" ८।२।३० इति कुत्वम्(); "इण्कोः" ८।३।५७ इति षत्वम्(), "कर्मवत्कर्मणा" ३।१।८७ इत्यदिना कर्मवदतिदेशादात्मनेपदम्()। "स्वयमेव" इति वचनं कर्मकर्त्तृत्वप्रदर्शनार्थम्()। वत्सं मोक्तुमिच्छति, स मोक्तुमिष्यमाणो मुक्तिक्रियां प्रत्यानुकूल्यं यदा प्रतिपद्यते तदा स्वतन्त्रत्वादस्मिन्? कर्मणि कर्त्तृत्वेन विवक्षिते मुचिरकर्मको भवति। अथ गुणग्रहणं किमर्थम्(), नोदित्येवोच्येत? नमु चैदं सत्योकारश्चकारस्य स्थाने "अलोऽन्त्यस्य" १।१।५१ प्राप्नोति, गुणग्रहणादिक एव भवति, संज्ञाविधाने नियमात्()? नैतदस्ति; अच इत्यनुवत्र्तते। तेनान्त्यस्य न भविष्यति। एवं तह्र्रेतज्ज्ञापयति--अच इति निवृत्तमिति। तेन "अत्र लोपोऽभ्यासस्य" ७।४।५८ इत्यत्रातोऽभ्यासस्य लोपो न भवति। सति त्वजधिकारे, मा भूत्? तस्यानुवृत्तिरपार्थिकेत्यच एव लोपः स्यात्()॥
बाल-मनोरमा
मुचोऽकर्मकस्यो गुणो वा ४५२, ७।४।५७

मुचोऽकर्मकस्य। सादौ सनीति। शेषपूरणमिदम्। "सः सी"त्यतः सीत्, "सनि मीमे"त्यतः सनीति चानुवृत्तेरिति भावः। "हलन्ताच्चे"ति कित्तवाद्गुणनिषेधे प्राप्ते वचनम्। अभ्यासलोप इति। "अत्र लोपः" इत्यनेने"ति शेषः। मोक्षते इति। "अत्र लोपः" इत्यभ्यासलोपः। तङि त्विति। "न वृद्भ्यः" इत्यत्र परस्मैपदग्रहणानुवृत्तेरुक्तत्वादिति भावः। निनृत्सतीति। इडभावपक्षे "हलन्ताच्चे"ति कित्त्वान्न गुणः।

तत्त्व-बोधिनी
मुचोऽकर्मकस्यो गुणो वा ३९२, ७।४।५७

मुचोऽकर्मकस्य। "हलन्ताच्चे"ति कित्त्वेन गुणाऽभावे प्राप्ते विधिरयम्। विवत्सतीति। "वृद्भ्यः स्यसनो"रिति विकल्पेन परस्मैपदम्।