पूर्वम्: ७।४।६४
अनन्तरम्: ७।४।६६
 
सूत्रम्
दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्- संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्- तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च॥ ७।४।६५
काशिका-वृत्तिः
दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्ते ऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदत्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्याऽगनीगन्ति इति च ७।४।६५

दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिकते अलर्षि आपनीफणत् संसनिष्यदत् करिक्रत् कनिक्रदत् भरिभ्रत् दविध्वतः दविद्युतत् तरित्रतः सरिसृपतम् वरीवृजत् मर्मृज्य आगनीगन्ति इत्येतानि अष्टादश छन्दसि विषये निपात्यन्ते। दाधर्ति दर्धर्ति दर्धर्षि इति धारयतेः, धृङो वा श्लौ यङ्लुकि वा अभ्यासस्य दीर्घत्वं णिलोपश्च। दाधर्ति। एवं दर्धर्ति। श्लौ रुकभ्यासस्य निपात्यते। तथा दर्धर्षि इति। अत्र च यल्लक्षणेन अनुपपन्नं तत् सर्वं निपातनात् सिद्धम्। बोभूतु इति भवतेः यङ्लुगन्तस्य लोटि गुणाभावो निपात्यते। नैतदस्ति प्रयोजनम्, अत्र भूसुवोस्तिङि ७।३।८८ इति गुणाभावः सिद्धः? ज्ञापनार्थं तर्हि निपातनम् एतत्। ज्ञापयति, अन्यत्र यङ्लुगन्तस्य गुणप्रतिषेधो न भवति इति। बोभोति, बोभवीति। तेतिक्ते तिजेः यङ्लुगन्तस्य आत्मनेपदं निपात्यते। यङो ङित्त्वात् प्रत्ययलक्षणेन आत्मनेपदं सिद्धम् एव? ज्ञापनार्थं तु आत्मनेपदनिपातनम्, अन्यत्र यङ्लुगन्तादात्मनेपदं न भवति। अलर्षि इति इयर्तेः लटि सिपि अभ्यासस्य हलादिः शेषापवादो रेफस्य लत्वं निपात्यते। सिपा निर्देशो ऽतन्त्रम्, तिप्यपि दृश्यते अलर्ति दक्षः। आपनीफणतिति फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीक् निपात्यते। संसनिष्यदतिति स्यन्देः संपूर्वस्य यङ्लुक्, शतर्येव अभ्यासस्य निक्, धातुसकारस्य षत्वं निपात्यते। न चास्य सम्पूर्वता तन्त्रम्, अन्यत्र अपि हि दृश्यते, आसनिष्यदतिति। करिक्रतिति करोतेः यङ्लुगन्तस्य शतरि चुत्वभ्यावः, अभ्यासककारस्य रिगागमो निपात्यते। कनिक्रदतिति क्रन्देः लुङि च्लेः अङादेशः, द्विर्वचनम् अभ्यासस्य, चुत्वाभावः, निगागमश्च निपात्यते। तथा चास्य हि विवरणं कृतम्। अक्रन्दीतिति भाषायाम्। भरिभ्रतिति बिभर्तेः यङ्लुगन्तस्य शतरि भृञाम् इत् ७।४।७६ इति इत्वाभावो जश्त्वाभावो ऽभ्यासस्य रिगागमः निपात्यते। दविध्वतः इति ध्वरतेः यङ्लुगन्तस्य शतरि जसि रूपम् एतत्। अत्र अभ्यासस्य विगागमः ऋकारलोपश्च निपात्यते। दविध्वतो रश्मयः सूर्यस्य। दविद्युततिति द्युतेः यङ्लुगन्तस्य शतरि अभ्यासस्य अम्प्रसारणाभावः अत्त्वम्, विगागमश्च निपात्यते। तरित्रतः इति तरतेः शतरि श्लौ षष्ठ्येकवचने अभ्यासस्य रिगागमः निपात्यते। सरीसृपतम् इति सृपेः शतरि श्लौ द्वितीयैकवचने अभ्यासस्य रीगागमः निपात्यते। वरीवृजतिति वृजेः शतरि श्लौ रीगागमः निपात्यते अभ्यासस्य। मर्मृज्य इति मृजेः लिटि णलि अभ्यासस्य रुगागमः धातोश्च युगागमो निपात्यते। ततो मृजेर् वृद्धिः ७।२।११४ न भवति, अलघूपधत्वात्। लघूपधगुणे प्राप्ते वृद्धिरारभ्यते। आगनीगन्ति इति आङ्पूर्वस्य गमेर्लति श्लौ अभ्यासस्य चुत्वाभावः नीगागमश्च निपात्यते। वक्ष्यन्ती वेदागनीगन्ति कर्णम्। इतिकरणम् एवं प्रकारणाम् अन्येषाम् अप्युपसङ्ग्रहार्थम्।
न्यासः
दाधर्तिदर्घर्तिदर्घर्षिबोभूतुतेतिक्तेऽलष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतः सरीसृपतंवरीवृजनमर्मृज्यागनीगन्तीति च। , ७।४।६५

चकारश्छन्दसीत्यनुकर्षणार्थः। "धारयतेः" इति। "धृञ्? धारणे" (धा।पा।९००) "धृङ्? अवस्थाने" (धा।पा।१४१२) "धृङ्? अवध्वंसने" (धा।पा।९६०)--इत्येताषां ण्यन्तानां ग्रहणम्(), "धृङो वा" इति। अनन्तरोक्तयोरण्यन्तयोः। "श्लौ यङ्लुकि वा" इति। तत्र तावत्? "दाधर्त्ति इति--यदा धारयतेः श्लौ निपात्यते, तदा णिलोपोऽभ्यासस्य दीर्घत्वं निपात्यते। यदा तु यङ्लुकि, तदाऽनेकाच्त्वाद्यङ्? न प्राप्नोति, सोऽपि निपात्यते, उपधाह्यस्वत्वञ्च। णिलोपस्त्वार्धधातुकत्वादेव यङः "णेरनिटि" ६।४।५१ इत्येवं सिद्धः। भ्यासस्य दीर्घत्वमपि "दीर्घोऽकितः" ७।४।८३ इत्येवं सिद्धम्()। "दर्धर्ति, दर्धर्षि" इति। अत्रापि यदा धारयतेः श्लौ तदाऽभ्यासस्य रुगागमो णिलोपश्च। श्लुस्तु सर्वत्र "बहुलं छन्दसि" २।४।७६ इत्यनेनैव वेदितव्यः। यदा तु यङ्लुकि, तदा "दीर्घोऽकितः" ७।४।८३ इत्यनेन दीर्घत्वे प्राप्ते तदभावश्च निपात्यते। यदा धृङः--दाधर्तीति श्लौ निपात्यते, तदा द्विर्वचने कृतेऽभ्यासस्य दीर्घत्वं निपात्यते। यदा तु तस्यैव धृङो यङ्लुकि तदाऽस्यासस्य "ऋतश्च" ७।४।९२ इति प्राप्तस्य रुगादेरभावो निपात्यते। "दर्घर्ति, दर्घर्षि" इति। अत्रापि यदा ध#ऋङ्(), श्लौ, तदाभ्यासस्य रुगागमो निपात्यते; यदा तु यङलुकि, तदा पूर्ववत्? प्राप्तस्य दीर्घस्याभावो निपात्यते, न तु रुगागमः; तस्य हि "रुग्रिकौ च लुकि" (७।४।९१) इत्येवं सिद्धत्वात्? परस्मैपदं च व्यत्ययो बहुलम्()" ३।१।८५ इति। "बोभूतु" इति। "अन्यत्र" इति। लोट्प्रथमपुरुषस्यैकवचनापेक्षमन्यत्वं वेदितव्यम्()। "बोभवीति" इति। अदादित्वाच्छपो लुक्? "बहुलं छन्दसि" २।४।७३ इति बहुलवचनत्वाद्भवति; "यङो वा" ७।३।९४ इति पक्षे ईट्()। "तेतिषते" इति। "तिजेः" इति। "तिज निशाने" (धा।पा।९७१) इत्येतस्य। ननु च यङो ङित्त्वात्? प्रत्ययलक्षणेनात्मनेपदं १।१।६१ सिद्धम्(), एतत्? किमर्थं निपात्यते? इत्याह--"यङो ङित्त्वात्()" इत्यादि। ज्ञापनार्थमात्मनेपदं सिद्धम्()। ज्ञापनार्थमात्मनेपदं निपात्यत इति दर्शयति। ज्ञापनस्य तु प्रयोजनम्()--अन्यत्र यङ्लुगन्तादात्मनेपदं न भवतीति--भावः, बोभवीतीति। "अलर्षि" इति। "ऋ सृ गतौ" (धा।पा।१०९८,१०९९)--इत्यस्य जौहोत्यादिकस्य "उरत्()" ७।४।६६ इत्यत्त्वे कृते रपरत्वे च हलादिशेषः प्राप्नोति, तदपवादौ रेफस्य लत्वं निपात्यते। किं पुनः कारणं सिपा निर्देशोऽयमतन्त्रमित्येवं व्याख्यायते? इत्याह--"तिप्यपि" इत्यादि। "फणतेः" इति। "फण गतौ" (धा।पा।८२१)--इत्येतस्य। "स्यन्देः" इति। "स्यन्दू प्ररुआवणे" (धा।पा।७६१)--इत्येतस्य। किमर्थं पुनः सम्पूर्वस्यातन्त्रत्वं व्याख्यायते? इत्याह--"अत्रापि हि" इत्यादि। "करिक्रत्()" इति। "डुकृञ्? करणे" (धा।पा।१४७२)। यणादेशे कृतेऽनृकारान्तत्वात्? "ऋतश्च" ७।४।९२ इत्यभ्यासस्य रिगागमो न प्राप्नोति, स निपात्यते। "क्रन्देः" इति। "कदि क्रदि क्लदि आह्वाने रोदने च" (धा।पा।७७२,७७३,७७४) इत्येतस्य। कथं पुनज्र्ञायते लुङीत्येतन्निपातनम्()? इत्याह--"अस्य हि" इत्यादि। यस्माल्लुङन्तेन क्रन्दतेरर्थो निर्दिश्यते, ततो ज्ञायते--लुङयेतन्निपातनमिति। अत्र चाभ्यासस्य रीगागमो निपात्यत एव। "विभर्त्तेः" इति। "डुभृञ्? धारणपोषणयोः" (धा।पा।१०८७) इत्यस्य। "ध्वरतेः" इति। "ध्वृ हूच्र्छने" (धा।पा।९३९)। "द्युतेः" इति। "द्युत दीप्तौ" (धा।पा।७४१) इत्यस्य। "सम्प्रसारणाभावः" इति। "द्युतिस्वाप्योः सम्प्रसारणम्()" ७।४।६७ इति सम्प्रसारणं प्राप्नोति, अतस्तदभावो निपात्यते। "तरतेः" इति। "तृ? प्लवनतरणयोः" (धा।पा।९६९) इत्यस्य। "सृपेः" इति। "गम्लृ सृप्लृ गतौ" (धा।पा।९८२,९८३) इत्यस्य। "वृजेः" इति। "वृजो वर्जने" (धा।पा।१८१२) इत्येतस्य। "मर्मृज्य" ति। "मृजू शुद्धौ" (धा।पा।१०६६) इत्येतस्य णलि रूपम्()। "आगनीगन्ति" इति। एतदपि सटि तिपि। इतिकरणस्य प्रकारार्थतां दर्शयितुमाह--"एवम्प्रकाराणाम्()" इत्यादि। दाधर्त्तिप्रभृतीनामिव येषां छन्दस्यलाक्षणिकं कार्यं दृश्यते त एवम्प्रकारा दाधर्त्तिसदृशा इत्यर्थः। के पुनस्ते? गलगत्र्तीत्येवमादयः। "गृ? निगरणे" (धा।पा।१४१०) इत्येतस्य यङ्लुकि श्लौ वा गलगत्र्तीति रूपम्(), अभ्यासस्य चर्त्त्वामावः, हलादिशेषापवादः, रेफस्य लत्वं च निपात्यते॥