पूर्वम्: ७।४।७०
अनन्तरम्: ७।४।७२
 
सूत्रम्
तस्मान्नुड् द्विहलः॥ ७।४।७१
काशिका-वृत्तिः
तस्मान् नुड् द्विहलः ७।४।७१

तस्मादतो ऽभ्यासाद् दीर्घीभूतादुत्तरस्य द्विहलो ऽङ्गस्य नुडागमो भवति। आनङ्ग, आनङ्गतुः, आनङ्गुः। अनञ्ज, आनञ्जतुः, आनञ्जुः। द्विहलः इति किम्? आट, आटतुः, आटुः। ऋकारैकदेशो रेफो हल्ग्रहणेन गृह्यते, तेन इह अपि द्विहलो ऽङ्गस्य नुडागमो भवति, आनृधतुः, आनृधुः।
लघु-सिद्धान्त-कौमुदी
तस्मान्नुड् द्विहलः ४६६, ७।४।७१

द्विहलो धातोर्दीर्घीभूतात्परस्य नुट् स्यात्। आनर्च। आनर्चतुः। अर्चिता। अर्चिष्यति। अर्चतु। आर्चत्। अर्चेत्। अर्च्यात्। आर्चीत्। आर्चिष्यत्॥ व्रज गतौ॥ १०॥ व्रजति। वव्राज। व्रजिता। व्रजिष्यति। व्रजतु। अव्रजत्। व्रजेत्। व्रज्यात्॥
न्यासः
तस्मान्नुड्द्विहलः। , ७।४।७१

द्वौ हलौ यस्य तद्()द्विहल्()। "आनङ्ग, आनङ्गतुः, आनङ्गुः" इति। "अगि रगि लगि गत्यर्थाः" (धा।पा।१४६,१४४,१४५), इदित्त्वान्नुम्()। "आनञ्ज, आनञ्जतुः, आनञ्जुः" इति। "अन्जू व्यक्तिम्रक्षणकान्तिगतिषु" (धा।पा।१४५८)। "ऐऔच्()" (मा।सू।४) इत्यत्र "प्रत्याहारे वर्णेषु ये वर्णैकदेशा वर्णान्तरसमानाकृतयः, तेषु तत्कार्यं न भवति, तच्छायानुकारिणो हि ते, न पुनस्त एव; पृथक्प्रयत्ननिर्वर्त्त्यं हि वर्णमिच्छन्त्याचार्याः" इत्युक्त्वा "नुड्()विधिलादेशविनामेष्वृकारे प्रतिविधातव्यम्()" इत्युक्तम्()। तत्रावसरप्राप्त्या ऋकारे नुङ्()विधौ प्रतिविधानमाह--"ऋकारैकदेशो रेफौ हल्ग्रहणेन गृह्रते" इति। "आनुधतुः, आनृधुः" इति। "ऋधु वृद्धौ" (धा।पा।१२७१)। कथं पुनर्वर्माअत्मकानां हला ग्रहणेनावर्णात्मक ऋकारैकादेशो रेफो गृह्रते? द्विहल्ग्रहणसाममथ्र्यादिति भावः। अत्र "तस्मान्नुट्()" इत्येवं वक्त्व्यम्()। न चैवं सत्याटतुः, आटुरित्यादौ नुट्प्रसङ्गो भवति; अश्नोतेरित्यस्य नियमार्थत्वात्()--अद्विहलो यदि भवति नुट्? तदाश्नोतेरेव, नान्यस्येति। अश्नाति निवृत्त्यर्थं तदेतन्नाशङ्कनीयम्(); यद्येतावत्? प्रयोजनं स्यात्? "नाश्नः" इत्येवं ब्राऊयात्()। तस्मान्नियम एवास्य प्रयोजनम्()। तदेवमन्तरेणापि द्विहल्ग्रहणं सिद्धे यतो द्विहल्ग्रहणं करोति तस्यैतत्? प्रयोजनम्()--द्विहल्समानाकृतेरपि यथा स्यात्()। यस्याप्येको हल्? मुख्योऽवयवो द्वितीयस्त्वमुख्यस्तच्छायानुकारित्वादुपचारेण हलव्यपदेशार्हः, तस्यापि यथा स्यादित्येवमर्थम्()। एतस्य कथं ल्यते? यद्यत्र द्विहल इत्येवंश्रुतिस्तच्छायानुकारिण्यपि ऋकारावयवे रेफे वत्र्तते, नान्यथा। तस्माद्()द्विहल्ग्रहणसामथ्र्यादत्र हल्ग्रहणेन ऋकारैकदेशो रेफो गृह्रते; अन्यथा द्विहल्ग्रहणमनर्थकं स्यात्()॥
बाल-मनोरमा
तस्मान्नुड् द्विहलः १३२, ७।४।७१

लिटि णलि द्वित्वे हलादिशेषे अत आदेरित्यभ्यासाकारस्य दीर्घे आ अर्देति स्थिते--तस्मान्नुट्। द्वौ हलौ यस्य तस्येति विग्रहः। तच्छब्देन "अत आदे"रिति कृतदीर्घः परामृश्यते। तदाह---दीर्घीभूतादिति। टकार इत्। उच्चारणार्थः। टित्त्वादाद्यवयवः। तदाह-- आनर्देति। आर्दीदिति। "इट ईटी"ति सिज्लोपः। नर्देत्यादि स्पष्टम्। कर्देति। कुत्सितशब्देन कुत्सितविशेषो विवक्षित इत्याह-- कौक्ष इति। कुक्षिभवे इत्यर्थः। खर्देति। दन्दशूकः-- दंशनस्वभावः सर्पः। "दन्दशूको बिलेशयः" इत्यमरः। ननु सर्पस्य क्रियात्वाऽभावात्कथं धात्वर्थत्वमित्यत आह--दंशनेति। अति अदीति। इदित्त्वान्नुम्। तदाह--अन्ततीति। आनन्तेति। "अत आदे"रिति दीर्घः। "तस्मान्नुड् द्विहलः" इति नुट्। एवम्-अन्दति। आनन्देति। नुट्। आन्दीत्। इदीति। परमै()आर्यम् = परमे()आरीभवनम्। इन्दतीति। इदित्त्वान्नुम्। इन्दांचकारेति। "इजादेश्चे"त्याम्। बिदीति। इदित्त्वान्नुमित्याह--बिन्दतीति। नन्ववयवस्य अक्रियारूपत्वातक्थं धात्वर्थमित्यत आह-- अवयवं करोतीत्यर्थ इति। अबिन्दीत्। अबिन्दिष्टामित्यादि। पाटान्तमिति। पवर्गीयचतुर्थादिरित्यर्थः। गडीति। वदनैकदेश इति। तत्क्रियायामित्यर्थः। गण्डति। अगण्डीत्। अन्तत्यादय इति। अति अदि बन्धने, इदि परमै()आर्ये, बिदि अवयवे, गडि वदनैकदेशे इति पञ्च धातवस्तिङ्()प्रकृतयो न भवन्तीति काश्यपमतमित्यर्थः। अन्य इति। काश्यपादन्ये मुनयस्तिङमपि एभ्य् इच्छन्तीत्यर्थः। णिदीति। इदित्त्वान्नुम्। णोपदेशत्वाण्णस्य नत्वम्। तदाह--निन्दतीति। प्रणिन्दतीति। "उपसर्गादसमासेऽपी"ति णत्वम्। टु नदीति। समृद्धिः--प्रजाप()आआदिसम्पत्तिः।

तत्त्व-बोधिनी
तस्मान्नुड् द्विहलः १०६, ७।४।७१

तस्मात्। तच्छब्देन कृतदीर्घाकारः परामृश्यत इत्याह-- दीर्घीभूतादिति। खर्द [दन्दशूके] दन्दशूकस्य सर्पत्वात्तद्वाचित्वे धातुत्वं न सङ्गच्छत इत्याह-- दन्दशूकक्रियायामिति। दन्दशूककर्तृकायामित्यर्थः। आनन्तेति। इदित्त्वान्नुम्। तस्मान्नुड् द्विहलः इति नुट्। वदनैकदेश इति। तत्क्रियायामित्यर्थः।