पूर्वम्: ७।४।७१
अनन्तरम्: ७।४।७३
 
सूत्रम्
अश्नोतेश्च॥ ७।४।७२
काशिका-वृत्तिः
अश्नोतेश् च ७।४।७२

अश्नोतेश्च दीर्घीभूतादभ्यासादुत्तरस्य नुडागमो भवति। व्यानशे, व्यानशाते, व्यानशिरे। अश्नोतेः इति विकरणनिर्देशः अश्नातेर् मा भूतिति। आश, आशतुः, आशुः।
न्यासः
अश्नोतेश्च। , ७।४।७२

अद्विहलार्थोऽयमारम्भः। "व्यान शे" इति। "अशू व्याप्तौ" (धा।पा।१२६४), अनुदात्तेत्त्वादात्मनेपदम्(), त, एश्()। अश्नोतेरिति विकरणनिर्देशः "अश भोजने" (धा।पा।१५२३) इत्येतस्य क्रैयादिकस्य निवृत्तये। चकारो नुडागमानुकर्षणार्थः॥
बाल-मनोरमा
अश्नोतेश्च , ७।४।७२

अश्नोतेश्च। "अत्र लोपःट इत्यतो अभ्यासस्येत्यनुवर्तते, "तस्मान्नु"डिति च। तच्छब्देन "अत आदे"रिति कृतदीर्घोऽकारः परामृश्यते। तदाह-- दीर्घादिति। आनशे इति। आनिशिषे आनक्षे। आनशिवहे - आन()आहे। अष्टेति। व्रश्चादिना शस्य षत्वे ष्टुत्वम्। विधिलिङ्याह-- अश्नुवीतेति। आशीर्लिङि ऊदित्त्वादिड्विकल्पं मत्वाह---- अक्षीष्ट अशिषीष्टेति। लुङि सिच इट्पक्षे आह-- आशिष्टेति। अनिट्पक्षे "झलो झली"ति सिचो लोपं मत्वाह--- आष्टेति। ष्टिघ धातुः षोपदेशः। सेट्। आ गणान्तादिति। स्वादिगणसमाप्तिपर्यन्तमित्यर्थः। इत्युक्तमिति। भ्वादाविति भावः। कित्त्वपक्षे आह--- अनिदितामिति नलोप इति। नन्वनिदितामिति नलोपे सति "अत एकहल्मध्ये" इत्येत्त्वसिद्धेः "दम्भेश्चे"ति व्यर्थमित्यत आह-- तस्याभीयत्वादिति। नलोपस्येत्यर्थः। दभ्यादिति। आशीर्लिङि "अनिदिता"मिति नलोपः। छन्दसीति। गणसूत्रमिदम्। तद्व्याचष्टे - आ गणान्तादिति। रि क्षि इति। रि क्षि चिरि जिरि दाश दृ इति षट् धातवः। आद्यद्वितीयवेकारक्षरौ। तदाह-- रिणोति। क्षिणोतीति। अयं भाषायामपीति। क्षिधातुरित्यर्थः। तत्र प्रयोगं दर्शयति-- न तद्यश इति। वृदिति। स्वादयो वृत्ता इत्यर्थः। इति स्वादयः।

॥ इति बालमनोरमायाम् स्वादयः॥

अथ स्वार्थिकाः।

-----------

तत्त्व-बोधिनी
अश्नोतेश्च १३१, ७।४।७२

अश्नोतेश्च। "तस्मान्नुडि"त्यनुवर्तत इत्याह--दीर्घादिति। श्नुविकरणनिर्देशः किम्?। क्र्यादेरश भोजन इत्यस्य माभूत्। आश। आशतुः। ञिधृषा। शूलेन धृष्णोति प्रगल्भते इति शूल धृक् शूलधृषौ। "ऋत्विग्दधृ"गिति क्विनो विधानादन्यत्रापि पदान्तविषये कुत्म्। दम्भु। लोकवञ्चनाय विहितक्मानुष्ठानं दम्भः। तृप। अयं सेट्कः, अनुदात्तेषु श्यना निर्देशात्। अह व्याप्तौ। अस्मात् "ऋहलोण्र्य"दिति ण्यति "अह्र" इति "तस्यादित उदात्तमद्र्धह्यस्व"मित्यत्रास्माभिरुपपादितम्। अन्ये त्वाहुः--- "शतचक्रं यो३ह्रो वर्तनि"रित्यत्र "अह्र" इति षष्ठयन्तमेव। "घेर्ङिती"ति गुणस्तु अहिशब्दस्य च्छान्दसत्वान्नेति। रि क्षि। एते षट् धातवः। एक एवाजादिरिति मते तु पञ्च धातवः॥

इति तत्त्वबोधिन्याम् स्वादयः॥

* अथ स्वादिसन्धिः *

अथस्वादिसन्धिः। "शिव" इत्यस्यावसाने विसर्गस्तस्याच्र्य इत्यनेन समभिव्याहारे सस्याभावाद्रुत्वं कथं स्यादित्याशङ्कायामाह-स्वौजसमौडित्यादिनेति। एवं चात्र मूलभूत एव सुरस्तीति रुत्वादिकं स्यादेव, विसर्गस्त्विह न भवति, खरवसानाऽभावात्। भाविन्यवसानभङ्गेऽकृतव्यूहपरिभाषयाऽच्र्यपदसमभिव्याहारात्पूर्वमपि न भवतीति बोध्यम्।