पूर्वम्: ७।४।७९
अनन्तरम्: ७।४।८१
 
सूत्रम्
ओः पुयण्ज्यपरे॥ ७।४।८०
काशिका-वृत्तिः
ओः पुयण्ज्यपरे ७।४।८०

सनि इति वर्तते, इतिति च। उवर्णान्ताभ्यासस्य पवर्गे यणि जकारे च अवर्णपरे परतः इकारादेशो भवति सनि प्रत्यये परतः। पवर्गे अपरे पिपविषते। पिपावयिषति। बिभावयिषति। यण्यपरे यियविषति। यियावयिषति। रिरावयिषति। लिलावयिषति। ज्यपरे जु इति सौत्रो ऽयं धातुः। जिजावयिषति। एतदेव पुयण्ज्यपरे इति वचनं ज्ञापकम्, अद्विर्वचननिमित्ते ऽपि णौ स्थानिवद् भवति इति। ओः इति किम्? पापच्यतेः सन् पापचिषते। पुयण्जि इति किम्? अवतुतावयिषति। जुहावयिषति। अपरे। इति किम्? बुभूषति।
लघु-सिद्धान्त-कौमुदी
ओः पुयण्ज्यपरे ७०४, ७।४।८०

सनि परे यदङ्गं तदवयवाभ्यासोकारस्य इत्स्यात् पवर्गयण्जकारेष्ववर्णपरेषु परतः॥ अबीभवत्॥ ष्ठा गतिनिवृत्तौ॥
न्यासः
ओः पुयण्यज्यपरे। , ७।४।८०

"पुयण्जि" [नास्ति--काशिका] इति। पुयण्जामेकवद्भावं कृत्वा सप्तम्या निर्देशः। "अपरे" [नास्ति--काशिका] इति। अः परो यस्मात्? पुयण्जस्तदपरमवर्णपरमित्यर्थः। "पिपविषते" इति। पूङ्? पदने" (धा।पा।९६६) सन्(), "स्मिपूङ्रञ्()च्वशां सनि" ७।२।७४ इतीट्(), गुणावादेशौ। स्थानिवद्भावात्? "पू" इत्यस्य द्विर्वचनम्(), स्थानिवद्भावस्तु "द्विर्वचनेऽचि" १।१।५८ इत्यनेन। "पिपावयिषति" इति। पूङो ण्यन्तात् सन्()। अत्रापि स्थानिवद्भावात्? "पू" इत्येतद्()द्विरुच्यते। "बिभावयिषति" इति। "भू सत्तायाम्()" (धा।पा।१) ण्यन्तात्? सन्()। "यियावयिषति" इति। यौतेण्र्यन्तात्? सन्()। "सनौवन्तं ७।२।४९ इत्यादेनेठ्()। "रिरावयिषति; लिलावयिषति" इति। रौतिलुनातिभ्यां ण्यन्ताभ्यां सन्()। "जिजावयिषति" इति। "जु" इति सौत्रो धातुः ३।२।१५०; "जुचंक्रम्य" ३।२।१५० इत्यादौ पाठात्()। तस्मात्? ण्यन्तात्? सन्()। कथं पुनः पिपादयिषतीत्यादावुकारान्तताऽभ्यासस्य, यावता णौ परतोऽन्तरङ्गत्वाद्()वृद्ध्यावादेशयोः कृतयोर्वकारान्तस्याद्विर्वचनेन भवितव्यम्(), स्थानिवद्भावादुकारान्तस्य द्विर्वेचनं भविष्यतीति चेत्()? न; न हि णौ कृतस्य स्थानिवद्भावो भवति। णेरद्विर्वचननिमित्तत्वादित्यत आह--"एतदेव" इत्यादि। न हि णिचमन्तरेण पुयण्जोवर्णपराः सर्वे सम्भवन्ति। तत्र हि यदि णौ कृतस्य स्थानिवद्भावो न स्यात्(), तदा येषां णिचमन्तरेण पुयण्जोऽवर्णपराः सर्वे सम्भवति। तत्र हि यदि माउ कृतस्य स्थानिवद्भवो न स्यात्(), तदा येषां णिचमन्तरेणावर्णपरता न सम्भवति, तेषामुवर्णान्तोऽभ्यासो न स्यात्(), उच्यते चेदं "ओः पुयज्जयपरे" इति वचनम्()। तस्मादेतज्ज्ञापकम्()--अद्विर्वचननिमित्त्ेऽपि णौ स्थानिवद्भवतीति। तेन तुतावयिषति, बिभावयिषतीत्यादि सिद्धं भवति। केषाञ्च पुनर्णिचमन्तरेणावर्णपरता न सम्भवति? यकारपकाराभ्यामन्येषां सर्वेषामेव। "पापचिषते" इति। "अतो लोपः" ६।४।४८ इत्यकारलोपः, "यस्य हलः" ६।४।४९ इति यकारस्य। "तुतावयिषति" ["अवतुतावयिषति" इति काशिकापदमञ्जर्योः पाठः] इति। "तु" इति सौधो धातुः; "तुरुस्तुशम्यमः" ७।३।९५ इत्यादौ सूत्रे पाठात्()। "जुहावयिषति" इति। "हु दाने" (धा।पा।१०८३) ण्यन्तात्? तस्मात्? सन्()। "बुभूषति" इति। पूर्ववदिङ्गुणयोरभावः॥
बाल-मनोरमा
ओः पुयण्ज्यपरे ४०५, ७।४।८०

ओः पुयण्। "उ" इत्यस्य "ओ" रिति षष्ठी। "पुयण्जी"ति छेदः। पुश्च यण् च ज् चेति समाहारद्वन्द्वात्सप्तमी। अः परो यस्मादिति बहुव्रीहिः। "सन्यतः" इत्यस्मात्सनित्यनुवर्तते। अङ्गस्येत्यधिकृतम्। "अत्र लोपः" इत्यस्मादभ्यासस्येति, भृञामिदित्यस्मादिदिति चानुवर्तते। तदाह -- सनि परे इत्यादिना। अबीभवदिति। भू इ अत् इति स्थिते द्वित्वे कार्ये णौ अच आदेशस्य निषेधाद्वृद्ध्यावादेशाभ्यां प्रागेव "भू"इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः कृतयोरुपधाह्यस्वेऽभ्यासेऽकाराऽभावेन "सन्यतः" इत्यस्याऽप्रवृत्त्या सन्वत्त्वादनेने इत्त्वे दीर्घ इति भावः। अपीपवदिति। पूङ्धातो रूपम्। मूङित्यस्माद्धातोरमीमवदिति रूपमित्यर्थः। अयीयवदिति। युधातो रूपम्। अरीरवदिति। रुधातो रूपम्। अलीलवदिति। लूञ्धातो रूपम्। अजीजवदिति। जुः सौत्रो दातुर्जुचङ्क्रम्येत्यत्र निर्दिष्टः। ननु भू भू इति द्वित्वोत्तरं वृद्ध्यावादेशयोः कृतयोरुपधाह्यस्वे तस्य स्थानिवत्त्वेन लघुपरत्वाऽभावात्सन्वत्त्वाऽप्रसक्त्या कथमिहाभ्यासोवर्णस्य इत्त्वमिति चेन्न, आरम्भसामथ्र्यादेव स्थानिवत्त्वाऽप्रवृत्तेरिल्यम्।

तत्त्व-बोधिनी
ओः पुयण्ज्यपरे ३५४, ७।४।८०

ओः पुयण्जि। "पुयण्जी"ति समाहारद्वन्द्वात्सप्तम्येकवचनम्। "अपरे" इति बहुव्रीहिः। "अत्र लोपोऽभ्यासस्ये"त्यतोऽभ्यासस्येत्यनुवर्तते। "भृञामी"दित्यत इद्ग्रहणं, "सन्यतः" इत्यतः सनीति च, अङ्गस्येति तु अधिक्रियत एव। तदेतदभिप्रेत्याह--- सनि परे यदङ्गमित्यादि। अपरे किम्?। बुभूषति। पवर्गयण्जीति किम्?। ऊर्णुनविषति। अबीभवदित्यादि। "भू सत्तायाम्"। "पूङ् पवने"। मृङ् बन्धने"। "यु मिश्रणादौ"। रु शब्दे"। "लूञ्छेदने"। "जु गतौ"। सौत्रोऽयं धातुः "जुचङ्क्रम्ये"त्यत्र निर्दिष्टः। ननु भू भू इति द्वित्वोत्तरं वृद्ध्यावादेशौ भवस्ततः कृतस्य "णौ चङी"ति ह्यस्वस्य स्थानिवद्भावेन लघुपरत्वाऽभावात्सन्वद्भावाऽप्रवृत्त्याऽबीभवदित्यादावभ्यासोवर्णस्येत्वं दुर्लभमिति चेत्। अत्राहुः-- आरम्भसामथ्र्यादेव न स्थानिवत्त्वमिति।