पूर्वम्: ७।४।८०
अनन्तरम्: ७।४।८२
 
सूत्रम्
स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा॥ ७।४।८१
काशिका-वृत्तिः
स्त्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ७।४।८१

स्रवति शृणोति द्रवति प्रवति प्लवति च्यवति इत्येतेषाम् अभ्यासस्य ओः अवर्नपरे यणि वा इकारादेशो भवति सनि परतः। सिस्रावयिषति, सुस्रावयिषति। शृणोति शिश्रावयिषति, शुश्रावयिषति। द्रवति दिद्रावयिषति, दुद्रावयिषति। प्रवति पिप्रावयिषति, पुप्रावयिषति। प्लवति पिप्लावयिषति, पुप्लावयिषति। च्यवति चिच्यावयिषति, चुच्यावयिषति। वचनसामर्थ्यादेकेन वर्णेन यणो व्यवधानमाश्रीयते। पूर्वसूत्रेन तु अनन्तर एव यणि भवितव्यम् इति अप्राप्तबिभाषेयम्। अपरे इत्येव, सुस्रूषति। शुश्रूषते।
न्यासः
रुआवतिश्रृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा। , ७।४।८१

"सु रुआउ गतौ" (धा।पा।९४०) "श्रु श्रवणे" (धा।पा।९४२) "दु द्रु गतौ" (दा।पा।९४४,९४५)"प्रुङ्()प्लुङ् च्युङ्? गतौ" (धा।पा।९५७,९५८,९५६) "सिरुआआवयिषति" इत्यादि। एभ्यो ण्यन्तेभ्यः सर्वत्र सन्()। ननु च सकारादिना वर्णेनात्र यणो व्यवधानम्(), अत्रावर्णपरे यणि परत इत्त्वमुच्यमानं व्यवधाने कथं भवति? इत्याह--"वचनसामथ्र्यात्()" इति। सवत्रैव हि सकारादिनैकवर्णेन व्यवधानम्(), उच्यते चेदं वचनम्(), तस्मादत्र वचनसामथ्र्यादेकेन वर्णेन व्यवधानमाश्रीयते; अन्यथा हि वचनमिदमनर्थकं स्यात्। "पूर्वसूत्रेण" इत्यादेनाऽप्राप्तविभाषेयमिति दर्शयति। "शुश्रुषति" [शुश्रूयते--काशिका] इति। पूर्ववदिङ्गुणयोरभावः। श्तिपः निर्देशो धातुनिर्देशार्थः, न यङलग्निवृत्त्यर्थः। अत्र गुणे कृत उकारान्तताभावादित्त्वं न भवतीति। "सोरुआविषति"॥[नास्ति--कीशिका]
बाल-मनोरमा
रुआवतिशृणोतिद्रवतिप्रवृतिप्लवतिच्यवतीनां वा ४०६, ७।४।८१

रुआवतिशृणोति। अपर इत्यनुवर्तते, न तु पुयण्जीति, पवर्गजकारयोरसंभवात्,रुआवत्यादौ यणः सत्त्वेऽप्यव्यभिचारात्। तदाह -- अवर्णपरे धात्वक्षरे इति। अक्षरशब्दो वर्णपरः। असिरुआवत् असुरुआवदिति। द्विहल्व्यधानेन लघुपरकत्वाऽभावान्न सन्वत्त्वमिति भावः। अशिश्रवत् अशुश्रवत्।अदिद्रवत् अदुद्रवत्। अपिप्रवत् अपुप्रवत्। अपिप्लवत् अपुप्लवत्। अचिच्यवत्।अचुच्यवत्। अथ सासुधतोरशशादित्यत्राह-- नाग्लोपीति। अडुढौकदिति। ढौकृ गतावित्यस्य ऋदित्त्वादिति भावः। अचीचकासदिति। चकासृ दीप्तौ। ऋदित्त्वान्नोपधाह्यस्वः। "चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपर" इति पक्षे सन्वत्त्वम्, अभ्यासदीर्घश्चेति भावः। मतान्ते त्विति। "अङ्गं यत्र द्विरुच्यते" इति मते" चङ् परेणौ यल्लघु तत्परो योऽङगस्य अभ्यास" इति मते चेत्यर्थः। आग्लोपीतीति। अग्लोपिन उपधाह्यस्वनिषेधे मा भवानूननदिति उदाह्मतम्। अतितिरायदित्याद्युदाहणान्तरं सुब्धातुरनिरूपणे वक्ष्यते इत्यर्थः। ननु "चुर स्तेये" इत्यस्मात्स्वार्थे णिचि उपधागुणे "चोरि इति रूपम्,तस्माद्धेतुमण्णौ प्रथमस्य णेर्लोपे सति "चोरिट इत्येव हेतुण्ण्यन्तम्। तसमाल्लटि तिपि शपि गुणे अयादेशे "चोरयती"त्येव रूपम#इष्यते। तन्नोपपद्यते, हेतुमण्णौ परे प्रथमस्य णेर्लोपं बाधित्वा परत्वाद्वृद्धावायादेशे चोराय् इ इत्यस्माल्लटि चोराययतीत्यापत्तेरित्यत आह-- ण्यन्ताण्णिचीति। ण्यन्ताण्णिचि वृदिं()ध बाधित्वा णिलोपैत्यन्वयः। कुत इत्यत आह-- पूर्वविप्रतिषेधादिति। "ण्यल्लोपावियङ्()यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेने"ति वार्तिकेनेति भावः। अपवादत्वाद्वेति। "कमु कान्तौ" इति धातौ द्विधा प्रपञ्चितत्वादिति भावः। अथ ण्यन्ताण्णौ ततो हेतुमण्णेर्लोपे चुरित्यस्य द्वित्वे सन्वद्भावविषयत्वाह-- दीर्घो लघोरिति। तथा च अचूचुरदिति सिद्धम्। ननु उपदाह्यस्वोऽभ्यासदीर्घश्चेति द्वयमपि चङ्परे णौ विहितं, तदुभयमप्यत्र प्रत्ययलक्षणमाश्रित्य प्रथमणिचमादाय न संभवति, तस्य द्वितीयणिचा व्यवहितत्वेन चङ्()परकत्वाऽभावात्। नापि द्वितीयणिचमादायतदुभयसंभवः, द्वितीयणिच्प्रकृतेः प्रथमसंभवो न शङ्क्य इत्यर्थः। कुत इत्यत आह-- ण्याकृतिनिर्देशादिति। "चङ्परे णा"वित्यत्र णावित्यस्य चङ्परकमित्वजात्याश्रयैकाऽनेकणिज्व्यक्तिपरकत्वं विवक्षितम्। तथा च णिद्वयस्य चङ्परकत्वाऽभावेऽपि णित्वस्य चङ्परकत्वमस्तीति ह्यस्वदीर्घयोरस्ति प्रवृत्तिरिति भावः। अत्र जातिन#इर्देशोऽयुक्त इति शब्देन्दुशेखरे प्रपञ्चितम्। "टु ओ ()इआ गतिवृद्धयोः" अस्माद्धेतुमण्णौ वृद्ध्यायादेशयोः ()आआयीत्यस्माल्लडादौ ()आआययतीति रूपम्। लुङि चङि अ()इआ इ अ त् इति स्थिते विशेषमाह--

तत्त्व-बोधिनी
रुआवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ३५५, ७।४।८१

रुआवतिशृणोति। "अपरे" इत्यनुवर्तते न तु पुयण्जीति" पवर्गजकारयोरसंभवात्। यणः संभवेऽप्यव्यभिचारात्तदाह-- अवर्णपरे धात्वक्षरे इति। "अक्षर" शब्दोऽत्र वर्णपरः। अवर्णपरे किम्?। सुरुआऊषति। शृमोत्यादेरुदाहरणं तु-- अशिश्रवत्। अशुश्रवत्। अदिद्रवत्। अदुद्रवत्। रापिप्रवत्। अपुप्रवत्। अचिच्यवत्। अचुच्यवत्। अडुढौकदिति। "ढौकृ गतौ"। "चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपर" इति पक्षाश्रयेणाह--- अचीचकासदिति। मतान्तर इति। "अङ्गं यत्र द्विरुच्यते" इति मते, "चङ्परे णौ यल्लघु तत्परो योऽङ्गस्याऽभ्यास"इति मते चेत्यर्थः। सुब्धातुप्रकरण इति। अतितिरायत्। अससध्रायत्। अविविष्वद्रायत्। अदिदेवद्रायदित्याद्युदाहरिष्यत इत्यर्थः। वृदिं()ध बाधित्वेति। "ण्यल्लोपाविय"ङ्ङित्यादिवचनात्, लोपांऽशप्रत्याख्यानपक्षेऽपवादत्वाद्वेत्यर्थः। असंभव इति। तथा च अचुचोरदित्येव रूपमिति भावः। ण्याकृतिनिर्देशादिति। "चङ्परे णा"वित्यत्र चङ्परे णित्वे इत्यर्थः। तेन णिद्वये सत्यपि णित्वं चङ्परमस्तीति ह्यस्वदीर्घयोरस्ति संभव इति भावः। एतेन "अवीवदद्वीणां परिवादकेने"त्यादौ सन्वद्भावो व्याख्यातः, तत्रापीकत्थमेव पूर्वपक्षसिद्धान्तयोस्तुल्यत्व#आत्।