पूर्वम्: ८।१।३६
अनन्तरम्: ८।१।३८
 
सूत्रम्
पूजायां नानन्तरम्॥ ८।१।३७
काशिका-वृत्तिः
पूजायां न अनन्तरम् ८।१।३७

यावद् यथा इत्येताभ्यां युक्तम् अनन्तरं तिङन्तं पूजायं विषये नानुदात्तं न भवति, किं तर्हि? अनुदात्तम् एव। यावत् पचति शोभनम्। यथा पचति शोभनम्। यावत् करोति चारु। यथा करोति चारु। पूजायाम् इति किम्? यावद् भुङ्क्ते। यथा भुङ्क्ते। अनन्तरम् इति किम्? यावद् देवदत्तः पचति शोभनम्। यथा देवदत्तः करोति चारु। पुर्र्वेण अत्र निघातः प्रतिषिध्यते।
न्यासः
पूजायां नानन्तरम्?। , ८।१।३७

"पूजायां विषये" इति। विषयग्रहणे पूजायामिति विषयसप्तमीति दर्शयति। "किं तह्र्रमुदात्तमेव" इति। द्वौ प्रतिषेधो प्रकृतमर्थं गमयत इति कृत्वा। "यावत्? पचति शोभनम्()" इति। स्तुतिरत्र पूजा, सा च क्रियायाः साधनस्य वा॥