पूर्वम्: ८।१।३५
अनन्तरम्: ८।१।३७
 
सूत्रम्
यावद्यथाभ्याम्॥ ८।१।३६
काशिका-वृत्तिः
यावद्यथाभ्याम् ८।१।३६

यावत् यथा इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं भवति। यावद् भुङ्क्ते। यथा भुङ्क्ते। यावदधीते। यथा अधीते। देवदत्तः पचति यावत्। देवदत्तः पचति यथा। परेण अपि योगे भवति प्रतिषेधः।
न्यासः
यावद्यथाभ्याम्?। , ८।१।३६

किमर्थं पुनरिदमारभ्यते? न "यद्()वृत्तान्नित्यम्()" ८।१।६६ इत्येव सिद्धमिति यश्चोदयेत्(), तं प्रति--"देवदत्तः पचति यावत्()", "देवदत्तः पचति यथा"--इत्येतदुदाहरणद्वयमुपन्यस्तम्()। एषोऽभिप्रायः--यद्()वृत्तादिति पञ्चमीनिर्देशात्? "तस्मादित्युत्तरस्य" १।१।६६ इति यत्रैव यावद्यथाभ्यां परं तिङन्तं तत्रैव प्रतिषेधः स्यात्()। यत्र तु ताभ्यां पूर्वं तत्र न स्यात्()। इह तु तृतीयनिर्देशात्? तत्रापि भवतीति॥