पूर्वम्: ८।१।४८
अनन्तरम्: ८।१।५०
 
सूत्रम्
आहो उताहो चानन्तरम्॥ ८।१।४९
काशिका-वृत्तिः
आहो उताहो च अनन्तरम् ८।१।४९

निघातप्रतिषेधो ऽनुवर्तते, अपूर्वम् इति च। आहो उताहो इत्येताभ्याम् अपूर्वाभ्यां युक्तम् अनन्तरं तिङन्तं नानुदात्तं भवति। आहो भुङ्क्ते। उताहो भुग्क्ते। आहो पठति। उताहो पठन्ति। अनन्तरम् इति किम्? शेषे विभाषां वक्ष्यति। अपूर्वम् इत्येव, देवदत्त आहो भुङ्क्ते। देवदत्त उताहो भुङ्क्ते।
न्यासः
आहोउताहो चानन्तरम्?। , ८।१।४९

अविद्यमानमन्तरं व्यवधानं यस्य तदनन्तरम्()। अव्यवहितमित्यर्थः। तिङन्तविशेषणमेतत्()। आनन्तर्यञ्चाहो, उताहो--इत्येतयोः श्रुतत्वात्? तदपेक्षयैव वेदितव्यम्()।?त्रापि चकारोऽपूर्वमित्यस्यानुकर्षणार्थः॥