पूर्वम्: ८।१।५०
अनन्तरम्: ८।१।५२
 
सूत्रम्
गत्यर्थलोटा लृण्न चेत् कारकं सर्वान्यत्॥ ८।१।५१
काशिका-वृत्तिः
गत्यर्थलोटा लृण् न चेत् कारकं सर्वान्यत् ८।१।५१

गमिना समानार्था गत्यर्थाः। गत्यर्थानां लोट् गत्यर्थलोट्। तेन गत्यर्थलोटा युक्तं लृडन्तं तिङन्तं नानुदात्तं भवति, न चेत् कारकम् सर्वान्यद् भवति। यत्र एव कारके कर्तरि कर्मणि वा लोट्, तत्र एव यदि लृडपि भवति इत्यर्थः। कर्तृकर्मणी एव अत्र तिङन्तवाच्ये कारकग्रहणेन गृह्येते, न करणादि कारकान्तरम्। आगच्छ देवदत्त ग्रामम्, द्रक्ष्यसि एनम्। आगच्छ देवदत्त ग्रामम्, ओदनं भोक्ष्यसे। उह्यन्तां देवदत्तेन शालयः, तेन एव भोक्ष्यन्ते। उह्यन्तां देवदत्तेन शालयः, यज्ञदत्तेन भोक्ष्यन्ते। गत्यर्थग्रहणं किम्? पच देवदत्त ओदनम्, भोक्ष्यसे एनम्। लोटा इति किम्? आगच्छेः देव्दत्त ग्रामम्, द्रक्ष्यसि एनम्। लृटिति किम्? आगच्छ देवदत्त ग्रामम्, पश्यसि एनम्। न चेत् कारकम् सर्वान्यतिति किम्? आगच्छ देवदत्त ग्रामम्, पिता ते ओदनं भोक्ष्यते। उह्यन्तां देवदत्तेन शालयः, सक्तवः तेन पास्यन्ते। सर्वग्रहणम् किम्? आगच्छ देवदत्त ग्रामम्, त्वं चाहं च द्रक्ष्यावः एनम् इत्यत्र अपि निघातप्रतिषेधो यथा स्यात्। लृडन्तवाच्ये हि सर्वस्मिन् कारके अन्यस्मिन् न भवितव्यम्, इह तु यत् लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेन उच्यते इति।
न्यासः
गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत्। , ८।१।५१

"गमिना समानार्था गत्यर्थाः" इति। अर्थप्रदर्शनमेवैतत्()। एवं तु विग्रहः कत्र्तव्यः--गतिरर्थो येषामिति। "गत्यर्थलोटा युक्तम्()" इति। योगः पुननिमित्तनिमित्तरूपः। तयोर्निमित्तमिति भावः। "न चेत्कारकम्()" इत्यादेरर्थं विस्पष्टीकर्त्तुमाह--"यत्रैव" इत्यादि। अनेन लोडन्तवाच्यं लृडन्तवाच्यार्थं यत्? कारकं तस्यैवानन्यत्वमाश्रितम्(); न शब्दातन्तरवाच्यस्येति दर्शयति, एवच्च प्रत्यासत्तेर्लभ्यते। तिङन्तस्य हि तदेव प्रत्यासन्नं कारकं यत्? तेनैवाभिधीयते न शब्दान्तरेण; तेन शब्दान्तरवाच्ये भिद्यमानेऽपि भवत्येव भिधातप्रतिषेधः। "आगच्छ देवदत्त ग्रामं द्रक्ष्यस्येनम्()" इति। आगच्छेति गत्यर्थलोट, द्रक्ष्यसीति लृडन्तम्(); तयोश्चैकमेवात्र कारकं देवदत्तः कत्र्ता। "द्रक्ष्यसि" इति। "सृजिदृशोर्झल्यमकिति" ६।१।५७ इत्यमागमः; व्रश्चादि सूत्रेण ८।२।३६ षत्वम्(), "षढोः कः सि"८।२।४१ इति कत्वम्()। स्यप्रत्ययस्वरेण मध्योदात्तमेतत्()। एवमुत्तरत्रापि यत्र निघातप्रतिषेधस्तत्र लृडन्तस्य मध्योदात्तता वेदितव्या। "आगच्छ देवदत्त ग्राममोदनं भोक्ष्यसे" इति। अत्रापि तदेवाभिन्नमुभयलकारवाच्यं कर्त्तुकारकम्()। कर्म तु यद्यपि भिद्यते, तथाप#इ तच्छब्दान्तरवाच्यमिति सत्यपि त्भेदे भवत्येव निघातप्रतिषेधः। "उह्रन्तां देवदत्तेन शालयो यज्ञदत्तेन भोक्ष्यन्ते" इति। अथात्र शालय इत्युभयलकारवाच्यमभिन्नं कर्मं कारकम्(), कर्ता तु यद्यपि भिद्यते, तथापि स शब्दान्तरवाच्य इति तद्भेदेऽपि निघातप्रतिषेधो भवत्येव। "उह्रन्ताम्()" इति। वहेः कर्मणि लोट्(), आत्मनेपदम्(), झस्यान्तादेशः, "सार्वधातुके यक्()" ३।१।६७ वच्यादिसूत्रेण ६।१।१५ सम्प्रसारणम्(), टेरेत्वम्? ३।४।७९, "आमेतः" ३।४।९० इत्याम्भावः। कथं पुनरिहाभिन्नं कारकम्(), यावता शक्तिः कारकम्(), सा च प्रतिक्रियं भिद्यत एव शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वादेकं कारकं भविष्यतीत्यदोषः। "आगच्छेर्देवदत्त ग्रामं द्रक्ष्यस्यनम्()" इति। अत्र गत्यर्थलिङा लृङन्तं युक्तम्(), न गत्तयर्थलोटा। "आगच्छ देवदत्त ग्रामं पश्यस्येनम्()" इति। अत्र गत्यर्थलोटा लङन्तं युक्तम्(), न तु लुङन्तम्()। "आगच्छ देवदत्त ग्रामं पिता त ओदनं भोक्ष्यते" इति। अत्र लोङन्तस्य देवदत्तः कर्ता, लृडन्तस्य तु पितेति भिद्यते कारकम्()। "आगच्छ देवदत्त ग्रामं त्वं चाहं च" इत्यादि। यथा पूर्वोपन्यस्तेषु मूलोदाहरणेषु यल्लोडन्तस्य कर्त्त्रादि कारकं वाच्यं तन्मात्रमेव लृङन्तस्यापि, इह तु न तथा। अत्रापि ["तत्रापि--कांउ।पाठः] लोङन्तस्य देवदत्तो युष्मदर्थ एवप कत्र्ता वाच्यः, लृङन्तस्य तु स चास्मदर्थश्च; तत्रासति सर्वग्रहण इह निघातप्रतिषेधो न स्यात्()। अत इहापि यथा स्यादित्येवमर्थं सर्वग्रहणम्()। अथ सत्यपि सर्वग्रहणे निघातप्रतिषेधः कथमेवात्र भवति, यावाता भिद्यते लोङन्तवाच्यात्? कारकाल्लृङन्तवाच्यो योऽर्थः कारकं कर्तात? इत्यत आह--"लृङन्तवाच्ये हि" इत्यादि। सर्वग्रहणे सति लोडन्तवाच्यं यत्कारकं तस्माल्लृङन्तस्य यदि सर्वमन्यद्भवति, तथाप्येवं न निघातप्रतिषेधेन भवितव्यम्(), अन्यथा तु सति भवत्येव। यदि हि यत्रापि लोङन्तस्य किञ्चित्? तदेव कारकं वाच्यम्(), लृङन्तस्य किञ्चित्? ततोऽन्यत्रापि निघातप्रतिषेधो न स्यात्(), सर्वग्रहणमनर्थकं स्यात्()। तस्मात् सर्वग्रहणाद्भवत्येवात्र निघातप्रतिषेधः। तत्रैवं स्यात्()--अस्मिन्नप्युदाहरणे लृङन्तस्य वाच्यं यत्? कारकमन्यदेव तल्लोङन्तवाच्यात्()। अतः सत्यपि सर्वग्रहणे न भवितव्यं निघातप्रतिषेधेण? इत्यत आह--"इह तु" इत्यादि। गतार्थम्()॥