पूर्वम्: ८।२।४०
अनन्तरम्: ८।२।४२
 
सूत्रम्
षढोः कः सि॥ ८।२।४१
काशिका-वृत्तिः
षढोः कः सि ८।२।४१

षकारढकारयोः ककारादेशो भवति सकारे परतः। षकारस्य पिष् पेक्ष्यति अपेक्ष्यत्। पिपक्षति। धकारस्य लिह लेक्ष्यति। अलेक्ष्यत्। लिलिक्षति। सि इति किम्? पिनष्ति। लेढि।
लघु-सिद्धान्त-कौमुदी
षढोः कः सि ५५०, ८।२।४१

यक्ष्यति, यक्ष्यते। इज्यात्, यक्षीष्ट। अयाक्षीत्, अयष्ट॥ वह प्रापणे॥ ९॥ वहति, वहते। उवाह। ऊहतुः। ऊहुः। उवहिथ॥
न्यासः
षढोः कः सि। , ८।२।४१

"पेक्ष्यति" इति। "पिष्लृ सञ्चूर्णने" (धा।पा।१४५२), लृट्()। "अपेक्ष्यत्()" इति। लृङ्()। "पिपिक्षति" इति। सन्(), "हलन्ताच्च" १।२।१० इति कित्त्वाद्गुणाभावः। "पिनष्टि" इति। रूधादित्वात्? श्नम्()। "लेढि" इति। अदादित्वाच्छपरो लुक्()॥
बाल-मनोरमा
षढोः कः सकि २९३, ८।२।४१

तत्र धुडभावपक्षे निश्-सु इति स्थिते "व्रश्चे"ति षत्वे तस्य षकारस्य जश्त्वात्प्राक् ककारमाशङ्कितुमाह--षढोः कः सि। षश्च ढश्चेति द्वन्द्वः। "सी"ति सप्तमी। तदाह--षस्येत्यादिना। इति तु न भवतीति। षकारस्य ककारो न भवतीत्यर्थः। जश्त्वं प्रत्यसिद्धत्वादिति। "झलाञ्जशोऽन्ते" इत्यपक्षया "षढोः कः सी"त्यस्य परत्वादिति भावः। शसादिषु निशादेशाऽभावपक्षे सुटि च रमावत्। व्रश्चादिसूत्रे मतान्तरमाह-केचित्त्विति। "एकाचो वशः" इत्युत्तरसूत्रे धातोरित्यस्यानुवृत्त्या मध्येऽपि तदनुवृत्तेरौचित्यादिति भावः। अनुवृत्तं च धातोरित्येतच्छशयोरेव विशेषणम्, व्रश्चादिषु धातुत्वाऽव्यभिचारात्। जश्त्वेनेति। निश्म्यामित्यादौ निशित्यस्य धातुत्वाऽभावात्षत्वाऽभावे "झलाजशोऽन्ते" इति जश्त्वेन शकारस्य स्थानसाम्याज्जकार इत्यर्थः। निज्भ्यामित्यत्र कुत्वमाशङ्क्याह--कुत्वं तु नेति। जश्त्वस्यासिद्धत्वादिति। "कुत्वं प्रती"ति शेषः। निच्शु इति। निश्सु इति स्थिते शस्य जश्त्वेन जः, तस्य श्चुत्वेन शः, जस्य चर्त्वेन चः, शस्य छत्वविकल्पः।

मासपृतना। मांस, पृतना, सानु इत्येतेषां मांस्, पृत्, स्नु इत्यादेशा वाच्या इत्यर्थः। "पद्दन्नो" इति सूत्रे वार्तिकमेतत्। अत एवाह--शसादौ वेति। "पद्दन्नि"ति सूत्रस्य विकल्पेन प्रवृत्तेरिति भावः। मांससानुशब्दयोरस्त्रीलिङ्गत्वात्पृतनाशब्दस्यैव शसादौ पृदादेशमुदाहरति--पृत इति। पक्षे इति। पृदादेशाऽभावपक्षे इत्यर्थः। गोपा वि()आपावदिति। आबन्तत्वाऽभावान्न सुलोप इत्यर्थः। इत्यादन्ताः। अथ इदन्ताः। प्रायेणेति। प्रायशब्दो बहुलपर्यायः। "प्रायोभूम्नि" इत्यमरः। इह तु ईषदूनत्वे वर्तते। प्रकृत्यादित्वात्तृतीया। मतिशब्द ईषदूनहरिशब्दवत्प्रत्येतव्य इत्यर्थः। शसि विशेषमाह--स्त्रीत्वान्नत्वाभाव इति। "तस्माच्छसो नः पुंसी"तिनत्वस्य पुंस्त्वे विधानादिति भावः। तृतीयैकवचने घित्वान्नाभावमाशङ्क्याह--नात्वं नेति। "आङो नाऽस्त्रिया"मिति नात्वविधावस्त्रियामिति पर्युदासादिति भावः।

तत्त्व-बोधिनी
षढोः कः सि २५५, ८।२।४१

केचित्त्विति। परिशिष्टकारादयः। निच्शु इति। अत्र "शश्छोट

#ई"ति पक्षे छत्वं बोध्यम्।

मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः शसादौ वा। मांसपृतनेति। पृतना---सेना। नात्वं नेति। "अस्त्रियां"मिति पर्युदासादिते भावः।