पूर्वम्: ८।१।५२
अनन्तरम्: ८।१।५४
 
सूत्रम्
विभाषितं सोपसर्गमनुत्तमम्॥ ८।१।५३
काशिका-वृत्तिः
विभाषितं सोपसर्गम् अनुत्तमम् ८।१।५३

पूर्वं सर्वम् अनुवर्तते। प्राप्तविभाषा इयम्। लोडन्तं सोपसर्गम् उत्तमवर्जितं गत्यर्थलोओता युक्तं तिङन्तं विभाषितं नानुदात्तम् भवति, न चेत् कारकं सर्वान्यद् भवति। आगच्छ देवदत्त, ग्रामं प्रविश, प्रविश। आगच्छ देवदत्त, ग्रामं प्रशाधि, प्रशाधि। सोपसर्गम् इति किम्? आगच्छ देवदत्त, ग्रामं पश्य। अनुत्तमम् इति किम्? आगच्छानि देवदत्त, ग्रामं प्रविशानि।
न्यासः
विभाषितं सोपसर्गमनुत्तमम्?। , ८।१।५३

पूर्वेण नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं वचनम्? विभाषितशब्दश्चायं विभावाशब्देन समानार्थः। "नपुंसके भावे क्तः" ३।३।११४। "प्रविशानि" इति। मिपः "मेनिः" ३।४।८९, "आडुत्तमस्य पिच्च" ३।४।९२ इत्याद्()॥