पूर्वम्: ८।१।५७
अनन्तरम्: ८।१।५९
 
सूत्रम्
चादिषु च॥ ८।१।५८
काशिका-वृत्तिः
चादिषु च ८।१।५८

चादिषु च परतः तिङन्तमगतेः परं नानुदात्तं भवति। चादयः न चवाहाहैवयुक्ते ८।१।२४ इत्यत्र ये निर्दिष्टाः, ते इह परिगृह्यन्ते। चशब्दे तावत् देवदत्तः पचति च खादति च। वा देवदत्तः पचति वा खादति वा। ह देवदत्तः पचति ह खादति ह। अह देवदत्तः पचत्यह खादत्यह। एव देवदत्तः पचत्येव खादत्येव। अगतेरित्येव, देवदत्तः प्रपचति च प्रखादति च प्रखादति च। प्रथमस्यात्र तिङन्तस्य चवायोगे प्रथमा इति निघातः प्रतिषिद्यते एव, परं तु निहन्यते।
न्यासः
चादिषु च। , ८।१।५८

द्विविधाश्चादयः--गणपरिपठिताश्च, यावङ्गीकृत्यैतदुक्तम्()--"चादयोऽसत्त्वे १।४।५७ इति; सूत्रपठिताश्च--"न चवाहाहैवायुक्ते" ८।१।२४ इति; तत्र प्रत्यासत्तेर्य इह प्रकरणे पठितास्तेषामेव ग्रहणं युक्तम्()? इति मत्वाऽ‌ऽह--"चादयो न चदाहाहैव" इत्यादि। खादतिशब्दः पचतिशब्देन तुल्यस्वरः। "प्रथमस्यात्र तिङन्तस्य" इत्यादिना द्वितीयमिह गतेरित्यस्य प्रत्युदाहरणमिति दर्शयति। चश्बदो गतेरित्यस्यानुकर्षणार्थः। अन्यच्चास्य प्रयोजनमुक्तमेव॥