पूर्वम्: ८।१।५८
अनन्तरम्: ८।१।६०
 
सूत्रम्
चवायोगे प्रथमा॥ ८।१।५९
काशिका-वृत्तिः
चवायोगे प्रथमा ८।१।५९

अगतेः इति पूर्वसूत्रे च अनुकृष्टम् इत्यत्र नानुवर्तते। च, वा इत्येताभ्यां योगे प्रथमा तिङविभक्तिर् नानुदात्ता भवति। गर्दर्भाश्च कालयति, वीणां च वादयति। गर्दभान् वा कालयति, वीणां वा वादयति। योगग्रहणं पूर्वाभ्याम् अपि योगे निघातप्रतिषेधो यथा स्यातिति। प्रथमाग्रहणम् द्वितीयादेः तिङन्तस्य मा भूतिति। चवायोगो हि द्विसमुच्चये विकल्पे च सति भवति, स च अनेकस्य धर्म इति।
न्यासः
चवायोगे प्रथमा। , ८।१।५९

"प्रथमा तिङविभक्तिः" इति। एतेन प्रथमेति स्त्रीलिङ्गनिर्देशो विभक्त्यपेक्षः सूत्रे कृत इति दर्शयति। प्रथमात्वं तस्य पुनः प्रथममुच्चारणाद्वेदितव्यम्? "गर्दंभाँश्च कालयति" इति। "कल विल क्षेपे" (धा।पा।१६०४-१६०५) चुरादिणिच्()। चित्स्वरेण लकारेऽकार उदात्त इति मध्योदात्तमेतत्()। द्वितदीयं तु निहन्यत एव। अथ योगग्रहणं किमर्थम्(), न च वयोरित्येव सप्तम्या निर्देशः क्रियेत, यथा "चादिष च" (८।१।५८)? इत्यत आह--"योगग्रहणम्()" इत्यादि। यथा "चादिषु च" ८।१।५८ इति सप्तम्या निर्देशे सति परैरेव चादिनिर्योगे प्रतिषेधो भवति, न पूर्वै; तथेहापि पराभ्यामेव चवाभ्यां योगे स्यात्(), न पूर्वाभ्याम्()। ताभ्यामपि योगे यथा स्यादित्येवमर्थं योगग्रहणम्()। यदि तु चवाभ्यामिति तृतीयया निर्देशः क्रियते, विनापि योगग्रहणेन पूर्वाभ्यामपि योगे स्यादेव प्रतिषेधः? सन्देहपरिहारार्थं तु तथा न कृतम्(), चवाभ्यामित्युच्यमाने सन्देहः स्यात्()--किमयं तृतीयया निर्देशः? उत पञ्चम्येति? पञ्चम्या निर्देशे को दोषः स्यात्()? परमताभ्यां योगे न स्यात्()। कथं पुनर्द्वितीयादितिङन्तस्य चवाभ्यां योगः, यत्तन्निवृत्त्यर्थं प्रथमाग्रहणं क्रियेत? इत्यत आह--"चवायोगो हि" इत्यादि। इह चयोगः समुच्चये भवति, वायोगस्तु विकल्पे। स च समुच्चयो वपिकल्पश्चानेकस्य धर्मः, द्वित्वादिवत्()। अतो यत्र तौ समुच्चयविकल्पौ, तत्रावश्यमनेकस्य द्वितीयादेः सन्निधानेन भवितव्यम्()। तस्मात्? तन्निवृत्त्यर्थं प्रथमाग्रहणम्()॥