पूर्वम्: ८।२।१०६
अनन्तरम्: ८।२।१०८
 
सूत्रम्
एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ॥ ८।२।१०७
काशिका-वृत्तिः
एचो ऽप्रगृह्यस्य अदूराध्दूते पूर्वस्य अर्धस्य अदुत्तरस्य इदुतौ ८।२।१०७

एचो ऽप्रगृह्यस्य अदूराद् धूते प्लुतविषयस्य अर्धस्य अकारः आदेशो भवति, स च प्लुतः, उत्तरस्ये कारोकारावादेशौ भवतः। विषयपरिगणनं कर्तव्यम् प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवदयाज्यान्तेष्विति वक्तव्यम्। प्रश्नान्ते अगम३ः पूर्वा३न् ग्रामा३नग्निभूता३इ, पटा३उ। अभिपूजिते भद्रं करोषि माणवक३ अग्निभूता३इ, पटा३उ। विचार्यमाणे होतव्यं दीक्षितस्य गृहा३इ प्रत्यभिवादे आयुष्मानेधि अग्निभूता३इ, पटा३उ। याज्यान्ते उक्षन्नाय वशान्नाय सोमपृष्ठाय वेधसे। स्तोवैर्विधेमाग्नया३इ। सो ऽयम् आकरः प्लुतो यथाविषयम् उदात्तो ऽनुदात्तः स्वरितो वेदितव्यः। इदुतौ पुनरुदात्तावेव भवतः। परिगणनं किम्? विष्णुभूते विष्णुभूते३ घातयिष्यामि त्वा। आगच्छ भो माणवक विष्णुभूते। परिगणने च सति अदूराद् धूते इति न वक्तव्यम्। पदान्तग्रहणं तु कर्तव्यम्। इह मा भूत्, भद्रं करोषि गौः इति। अप्रगृह्यस्य इति किम्? शोभने खलु स्तः खट्वे३। आमन्त्रिते छन्दसि प्लुतविकरो ऽयं वक्तव्यः। अग्ना३इ पत्नी वा३इ।
न्यासः
एचोऽप्रगृह्रस्यादूरादूधूते पूर्वस्यार्घस्यादुत्तरस्येदुतौ। , ८।२।१०७

एचः समाहारवर्णाः तत्र एकारस्य ओकारस्य च पूर्वेण प्रकरणेन समुदायस्यैष प्लुतः, एचोः पुनरवयवयोरिदुतोः। अनन्तरसूत्रेणेदमारभ्यते "विषयपरिगणनं कत्र्तव्यम्()" इति। एतद्ग्रहणवाक्यम्()। अस्य "प्रश्नान्ताभिपूजित" इत्यादिना विवरणं करोति "कत्र्तव्यम्()" [वक्तव्यम्()--काशिका] इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"अनुदात्तं प्रश्नान्ताभिपूजितयोः" ८।२।१०० इत्यादयो योगा इहानुवत्र्तन्ते, तेनान्यत्र न भवति। "यथाविषयम्()" इति। यो यस्य विषयो यथाविषयम्()--"यथाऽसादृश्ये" २।१।७ इत्यव्ययीभावः, "प्रश्नान्ताभिपूजितयोः" ८।२।१०० अनुदात्तः प्लुतः। प्रश्ने तु "अनन्त्यस्यापि प्रश्नाख्यानयोः" ८।२।१०५ इति स्वरितः, शेषेपूदात्तः। "इतुतौ पुनरुदात्तावेतौ" इति। "टेरुदात्तः" ८।२।८२ इति चाधिकारात्()। "विष्णुभूते विष्णुभूते३" इति। अत्र "आम्रेडितं भत्र्सने" ८।२।९५ इति प्लुतः। "आगच्छ भो माणवक विष्णुभूते३" इति। अत्र "दूराद्घते च" ८।२।८४ इति। ननु चासत्यपि परिगणने नैव प्लुतः प्राप्नोति; "अदूराद्धते" इति वचनात्(), तत्किमर्थमिदं परिगणनस्य प्रत्युदाहरणित्याह--"परिगणने च" इत्यादि। असति परिगणने, अदूराद्धूत ["अदूराद्धूतेन भविष्यतीति" इत्येव--कांउ।पाठः] इत्युच्यते। अ()स्मस्तु सत्येतन्न वक्तव्यम्()। परिगणनादेव हि दूराद्धूते न भविष्यतीति। "कत्र्तव्यम्()" इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"याज्यान्तः" ८।२।९० इत्यतोऽन्तग्रहणमनुवत्र्तते, तेनान्तस्यैव भविष्यतीति। "भद्रं करोषि गौः" इति। "अभिपूजिते" ८।२।१०० इति प्लुतः। अन्तग्रहणानुवृत्तेरत्रायं विधिर्न भवति, न ह्रत्रैतच्छब्दोऽश्ते, किं तर्हि? व्यञ्जनम्()। "शोभने खल्? स्तः खट्वे३" इति। अत्रापि "अभिपूजिते" ८।२।१०० इत्येव प्लुतः। "आमन्त्रिते "च" ["च" नास्ति--काशिका पदमञ्जरी च] इत्यादि। प्लुतश्चासौ विकारश्चेति प्लुतविकारः। प्लुतव्यपदेशस्त्विदुतोः प्लुतसाहचर्याद्धेदितव्यः। इदुतोग्र्रहणमैचः पूर्वस्योत्तरस्य चैत आदेशा मा भूवन्नित्येवमर्थम्()। तपरकरणमिहापि मुखसुखार्थम्()॥