पूर्वम्: ८।२।९९
अनन्तरम्: ८।२।१०१
 
सूत्रम्
अनुदात्तं प्रश्नान्ताभिपूजितयोः॥ ८।२।१००
काशिका-वृत्तिः
अनुदात्तं प्रश्नान्ताभिपूजितयोः ८।२।१००

अनुदात्तः प्लुतो भवति प्रश्नान्ते, अभिपूजिते च अगम३ः पूर्वा३न् ग्रामा३न् ग्रामा३नग्निभूता३इ, पटा३उ? अग्निभूते, पंटो इत्येतयोः प्रश्नान्ते वर्तमानयोणनुदात्तः प्लुतो भवति। अगमः इत्येवम् आदीनां तु अनन्त्यस्य अपि प्रश्नाख्यानयोः ८।२।१०५ इति स्वरितः प्लुतो भवति। अभिभूजिते शोभनः खल्वसि माणवक३।
न्यासः
अनुदात्तं प्रश्नान्ताभिपूजितयोः। , ८।२।१००

अगम३" इति। गमेर्लुङ्? पुवदिसूत्रेण ३।१।५५ लृदित्त्वादङ्(), सिप्()। "अग्निभूता३इ" इति, "पटा३उ" इति। सम्बुद्धौ परतः "ह्यस्वस्य गुणः" ७।३।१०८ इति गुणः, "एचोऽप्रगृह्रस्य" ८।२।१०७ इत्यादिनाऽकारः, इदुतौ च। उदाहरणवाक्ये पूर्वपदानामेतेनैव प्लुतः, कृत इति गृहीत्वा यश्चोदयेत्()--अथ कथमिहानन्त्यस्यापि प्लुतो भवति, यावता वाक्यस्य टेरित्यनुवत्र्तते इति? तं प्रत्याह--"अग्निभूते, पटो इत्येतयोः" इत्यादि॥