पूर्वम्: ८।२।३९
अनन्तरम्: ८।२।४१
 
सूत्रम्
झषस्तथोर्धोऽधः॥ ८।२।४०
काशिका-वृत्तिः
झषस् तथोर् धो ऽधः ८।२।४०

झष उत्तरयोः तकारथकारयोः स्थाने धकारः आदेशो भवति, दधातिं वर्जयित्वा। लब्धा। लब्धुम्। लब्धव्यम्। अलब्ध। अलब्धाः। दुह दोग्धा। दोग्धुम्। दोग्धव्यम्। अदुग्ध। अदुग्धाः। लिह लेढा। लेढुम्। लेढव्यम्। अलीढ। अलीढाः। बुध बोद्धा। बोद्धुम्। बोद्धव्यम्। अबुद्ध। अबुद्धाः। अधः इति किम्? धत्तः। धत्थः।
लघु-सिद्धान्त-कौमुदी
झषस्ताथोर्धोऽधः ५५१, ८।२।४०

झषः परस्योस्तथोर्धः स्यान्न तु दधातेः॥
न्यासः
झषस्तथोर्धोऽधः। , ८।२।४०

"अथः" इति। अनेन धातुप्रतिषेधोऽयं न धकारप्रतिषेध इति दर्शयति। यदि हि धकारप्रतिषेधः स्यात्(), धकारात्? परयोस्तथोर्धकारो न भवतीति। ततः "मतिबुद्धिपूनार्थेभ्यश्च" ३।२।१८८, "वृद्धिर्यस्याचामादिस्तद्()वृद्धम्()" १।१।७२ इत्येवमादयो निर्देशा नोपपद्येरन्()। "अलब्ध, अलब्धाः" इति। लुङ्(), तस्य तथासौ, "झलो झलि" ८।२।२६ इति सकारलोपः। "अलीढ, अलीढाः" इति। ढत्वष्टुत्वढलोपदीर्घत्वानि कत्र्तव्यानि॥
बाल-मनोरमा
झषस्तथोर्धोऽधः १२४, ८।२।४०

झषस्तथोः। झष इति पञ्चमी। तश्च थ् चेति द्वन्द्वः। तकारादकार उच्चारणार्थः। तकारथकायोरिति लभ्यते। "धः" इति प्रथमैकवचनम्। अकार उच्चारणार्थः। धकार इति लभ्यते। "अध" इति षष्ठ()न्तम्। धाधातुभिन्नस्येति लभ्यते। तदाह--झषः परयोरिति। जश्त्वमिति। सिसेध् ध इति स्थिते "झलां जस् झशी"ति प्रथमधकारस्य दकारे सिषेद्धेति रूपमित्यर्थः। सिषिदिव--सिषिध्व। सिषिधिम--सिषिध्म। क्रादिनियमस्तु नेड्वशीति प्रक्रमाननञ्प्रापितस्यैवाऽभावस्य निवर्तको, नतु विभाषादप्रापितस्यापि, अनन्तरस्येति न्यायात्। इट्पक्षे आह-- सिषेधिथेति। सेद्धेति। लृट् तास् इडभावः। डा टिलोपः गुणः। धत्वं जश्त्वम्। सेद्धार इत्यादि। सेधितेति। इट्पक्षे रूपम्। सेत्स्यति सेधिष्यतीति। लृटि स्यः। इड्विकल्पः। असैत्सीदिति। लुङस्तिप्। इकारलोपः। च्लिः। सिच्। इडभावः। "अस्तिसिचः" इति ईट्। वदव्रजेति वृद्धिः। धकारस्य चत्र्वम्।

तत्त्व-बोधिनी
झषस्तथोर्धोऽधः ९९, ८।२।४०

"अध" इति किम्?। धत्तः। असैत्सीदिति। "अस्तिसिचः"इति ईडागमः। "वदव्जे"ति वृद्धि। ततश्चत्र्वम्।