पूर्वम्: ८।२।५३
अनन्तरम्: ८।२।५५
 
सूत्रम्
प्रस्त्योऽन्यतरस्याम्॥ ८।२।५४
काशिका-वृत्तिः
प्रस्त्यो ऽन्यतरस्याम् ८।२।५४

प्रपूर्वात् स्त्यायतेः उत्तरस्य निष्थातकारस्य अन्यतरस्यां मकारादेशो भवति। प्रस्तीमः। प्रस्तीमवान्। प्रस्तीतः। प्रस्तीतवान्। यदा मत्वं न अस्ति, तदा संयोगादेरातो धातोर् यण्वतः ८।२।४३ इत्यस्य पूर्वत्र असिद्धत्वात् संप्रसारणं प्रथमं क्रियते, तत्र कृते निमित्तव्याघातान् नत्वं न भवति।
बाल-मनोरमा
प्रस्त्योऽन्यतरस्याम् ८४१, ८।२।५४

प्रस्त्योऽन्यतरस्याम्। "प्रस्त्य" इति पञ्चमी। प्रपूर्वात्स्यैधातोरित्यर्थः। "निष्ठातस्य म" इति शेषः। प्रस्तीम इति। सङ्गीभूत इत्यर्थः।

तत्त्व-बोधिनी
प्रस्त्योऽन्यतरस्याम् ६८९, ८।२।५४

प्रस्तीमः प्रस्तीत इति। स्त्यै ष्ठै शब्दसङ्घातयोः। आत्वे कृते "संयोगादे"रित्यस्याऽसिद्धत्वात्पूर्वं संप्रसारणे पूर्वरूपे कृते "हलः" इति दीर्घः, पश्चाद्यण्वत्त्वादन्तत्वयोर्विरहान्न नत्वम्। "संस्त्यान" इत्यत्र तु भवत्येव।