पूर्वम्: ८।२।५२
अनन्तरम्: ८।२।५४
 
सूत्रम्
क्षायो मः॥ ८।२।५३
काशिका-वृत्तिः
क्षायो मः ८।२।५३

क्षैधातोः उत्तरस्य निष्थातकारस्य मकारादेशो भवति। क्षामः। क्षामवान्।
लघु-सिद्धान्त-कौमुदी
क्षायो मः ८२६, ८।२।५३

क्षामः॥
न्यासः
क्षायो मः। , ८।२।५३

"क्षै जै वै क्षये" (धा।पा।९१३-९१५)॥ "प्रस्तीमः" इति। "ष्ट()ऐ स्त्यै सङ्घातशब्दयोः" (धा।पा।९११,९१०)। "स्त्यः प्रपूर्वस्य" ६।१।२३ इति सम्प्रसारणम्(); पूर्ववद्दीर्घः। इह यदा मत्वं न भवति। तदा "संयोगादेः" ८।२।४३ इत्यनेन नत्वेन भवितव्यम्(); ततश्च प्रस्तीनः, प्रस्तीनवानितीष्टं स्यात्()--इति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्त्तुमाह--"यदा मत्वं नास्ति" इत्यादि। कृते तर्हि प्रथमं सम्प्रसारणे नत्वं कस्मान्न भवति? इत्याह--"तत्र कृते" इत्यादि॥
बाल-मनोरमा
क्षायो मः ८३९, ८।२।५३

क्षायो मः। "क्षै क्षये" इत्यस्मात् परस्य निष्ठातस्य मः स्यादित्यर्थः। क्षाम इति। "आदेचः" इत्यात्वम्। "गत्यर्थाकर्मके"ति कर्तरि क्तः। क्षीण इत्यर्थः। अन्तर्भावितण्यर्थत्वे क्षपित इत्यर्थः।

तत्त्व-बोधिनी
क्षायो मः ६८८, ८।२।५३

क्षाम इति। क्षै क्षये। "आदेचः" इत्त्यात्वम्।