पूर्वम्: ८।२।७३
अनन्तरम्: ८।२।७५
 
सूत्रम्
सिपि धातो रुर्वा॥ ८।२।७४
काशिका-वृत्तिः
सिपि धातो रुर्वा ८।२।७४

सिपि परतः सकारान्तस्य पदस्य धातोः रुः इत्ययम् आदेशो भवति, दकारो वा। अचकाः त्वम्, अचकात् त्वम्। अन्वशाः त्वम्, अन्वशात् त्वम्। धातुग्रहणं च उत्तरार्थं रुग्रहणं च।
लघु-सिद्धान्त-कौमुदी
सिपि धातो रुर्वा ६७३, ८।२।७४

पदान्तस्य धातोः सस्य रुः स्याद्वा, पक्षे दः। अहिनः, अहिनत्, अहिनद्॥ उन्दी क्लेदने॥ १३॥ उनत्ति। उन्तः। उन्दन्ति। उन्दाञ्चकार। औनत्, औनद्। औन्ताम्। औन्दन्। औनः, औनत्, औनद्। औनदम्॥ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु॥ १४॥ अनक्ति। अङ्क्तः। अञ्जन्ति। आनञ्ज। आनञ्जिथ, आनङ्क्थ। अञ्जिता, अङ्क्ता। अङ्ग्धि। अनजानि। आनक्॥
न्यासः
सिपि धातो रुर्वा। , ८।२।७४

"अचकास्त्वम्()" इति। रुत्वे कृते तस्य विसर्जनीयः, तस्य "विसर्जनीयस्य सः" ८।३।३४ इति सकारः। "त्वम्()" इति अनुप्रयोगः सिपोऽभिव्यक्तये। अथ धातुग्रहणं किमर्थम्(), यावता सकारान्तस्यापि रेफदकारावुच्येते, न च सिपि सकारान्ताद्धातोरन्यदस्ति? इत्यत आह--"धातुग्रहणम्()" इत्यादि। उत्तरार्थता चास्व "र्वोरुपधायाः" ८।२।७६ इत्यत्र दर्शयिष्यते। क्रियतामुत्तरार्थं धातुग्रहणम्(), रुग्रहणं तु न कत्र्तव्यम्(); अनर्थकत्वात्(); दकारे हि विकल्पिते यथाप्राप्तं रुत्वं पक्षे लभ्यत एव? इत्यत आह--"रुग्रहणं च" इति। उत्तरार्थमित्यपक्षते। "दश्च" ८।२।७५ इति वक्ष्यति, तत्र पक्षे रुत्वं यथा स्यादित्येवमर्थम्()। असति हि तस्मिन्? यदा दत्वं न भवति, तदा यथाप्राप्तं चत्वं न स्यात्()॥
बाल-मनोरमा
सिपि धातो रुर्वा ३१५, ८।२।७४

सिपि धातोः। पदस्येत्यधिकृतम्। "झलां जशोऽन्ते" इत्यतोऽन्ते इत्यनुवृत्तम्। "ससजुषो"रित्यतः स इति लुप्तषष्ठीकमनुवर्तते।तदाह-- पदान्तस्येति। पक्षे इति। "वसुरुआंस्वि" त्यतस्तदनुवृत्तेरिति भावः। सिपि धातुत्वस्य अव्यभिचाराद्धातोरित्युत्तरार्थम्। अचकासीत्। अचकासिष्यत्। शासधातुरुदित्। सेट्।