पूर्वम्: ८।२।७४
अनन्तरम्: ८।२।७६
 
सूत्रम्
दश्च॥ ८।२।७५
काशिका-वृत्तिः
दश् च ८।२।७५

दकारान्तस्य धातोः पदस्य सिपि परतो रुः भवति, दकारो वा। अभिनः त्वम्, अभिनत् त्वम्। अच्छिनः त्वम्, अच्छिनत् त्वम्।
लघु-सिद्धान्त-कौमुदी
दश्च ५७६, ८।२।७५

धातोर्दस्य पदान्तस्य सिपि रुर्वा। अवेः, अवेत्। विद्यात्। विद्याताम्। विद्युः। विद्यात्। विद्यास्ताम्। अवेदीत्। अवेदिष्यत्॥ अस् भुवि॥ १७॥ अस्ति॥
न्यासः
दश्च। , ८।२।७५

चकारेण "दः" ८।२।७२ इत्यनुकृष्यते, तेनोत्तरत्र तस्यानुवृत्तिर्न भवति। "अभिनस्त्वम्()" इति। लङ्(), रुधारित्वात्? श्नम्()॥