पूर्वम्: ८।३।१०६
अनन्तरम्: ८।३।१०८
 
सूत्रम्
सुञः॥ ८।३।१०७
काशिका-वृत्तिः
सुञः ८।३।१०५

सुञिति निपात इह गृह्यते, तस्य पूर्वपदस्थान्निमित्तातुत्तरस्य मूर्धन्यादेशो भवति छन्दसि विषये। अभी षु णः सखीनाम्। ऊर्ध्व ऊ षु ण ऊतये।
न्यासः
स्तुतस्तोमयोश्छन्दसि। , ८।३।१०७

"सात्पदाद्योः" ८।३।११३ इति प्रतिषेधे प्राप्तेऽस्यारम्भः। ननु चोत्तरसूत्रेणैव "नुभिःष्टुतम्(), गोभिःष्टोमम्()" इत्यत्र षत्वं सिध्यति, तत्किमर्थमिदमारभ्यते? स्यादेतत्()--समासे सत्येतद्भवति पूर्वपदम्(), उत्तरपदमिति, न चात्र समासः, तस्मात्? पूर्वपदादि (८।३।१०६) त्युत्तरेण न सिध्यतीति? एतच्चासम्यक्(), असमासे यत्? पूर्वपदं तदपि तत्रापि गृह्रते। वक्ष्यति--असमासे [असमासेऽपि यत्पूर्वपदम्()--काशिका। असमासे यत्? पूर्वपबदं तदपि तत्रापि गृह्रते--प्रांउंयासपाठः। ] यदपि पूर्वपदं तदपि [तदपीह--काशिका] गृह्रते" (काशिका।८।३।१०४) इति? अत आह--"पूर्वपदादित्येव" इत्यादि॥