पूर्वम्: ८।३।११२
अनन्तरम्: ८।३।११४
 
सूत्रम्
सेधतेर्गतौ॥ ८।३।११३
काशिका-वृत्तिः
सेधतेर् गतौ ८।३।१११

गतौ वर्तमानस्य सेधतेः सकारस्य मूर्धन्यादेशो न भवति। अभिसेधयति गाः। परिसेधयति गाः। गतौ इति किम्? शिष्यमकार्यात् प्रतिषेधयति।
लघु-सिद्धान्त-कौमुदी
सात्पदाद्योः १२४८, ८।३।११३

सस्य षत्वं न स्यात्। कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति। दधि सिञ्चति॥
न्यासः
सात्पदाद्योः। , ८।३।११३

"आदेशप्रत्यययोः" ८।३।५९ इति षत्वे प्राप्तेऽयं प्रतिषेध-॥
बाल-मनोरमा
सात्पदाद्योः , ८।३।११३

सात्पदाद्योः। शेषपूरणेन सूत्रं व्याचष्टे--सस्य षत्वं न स्यादिति। सातेरवयवस्य, पदादेश्च सस्य षत्वं न स्यादित्यर्थः। "न रपरसृपी"त्यतो नेति, "अपदान्तस्ये"त्यतो "मूर्धन्य" इति चानुवर्तत इति भावः। पदादेरुदाहरति--दधि सिञ्चतीति। षिचिधातोः "धात्वादेः षः सः" इति षस्य सः। तस्य "आदेशप्रत्यययो"रिति षत्वे प्राप्ते।ञनेन निषेधः। कृत्स्नमिति। सर्वावयवोपेतमित्यर्थः। "अग्निसा"दित्यत्र प्रत्ययावयवसकारत्वात् षत्वे प्राप्तेऽनेन निषेधः। अग्नीभवतीति। च्विप्रत्यये "च्वौ चे ति दीर्घः। महाविभाषयेति। "समर्थाना"मित्यतो वाग्रहणानुवृत्तेरित्यर्थः। माहाविभाषया सिद्धे इह विभाषाग्रहणं तु अपवादेन मुक्ते औत्सर्गिकच्वेः समावेशार्थम्।