पूर्वम्: ८।३।११८
अनन्तरम्: ८।४।१
 
सूत्रम्
निव्यभिभ्योऽड्व्यावये वा छन्दसि॥ ८।३।११९
काशिका-वृत्तिः
निव्यभिभ्यो ऽड्व्यवाये वा छन्दसि ८।३।११७

नि वि अभि इत्येतेभ्यः उपसर्गेभ्यः उत्तरस्य सकारस्य अड्व्यवाये छन्दसि विषये मूर्दह्न्यादेशो न भवति वा। न्यषीदत् पिता नः, न्यसीदत्। व्यषीदत् पिता नः, व्यसीदत्। अभ्यषीदत्, अभ्यसीदत्। सदिष्वञ्जोरिति तदिह न अनुवर्तते। सामान्येन एव तद्वचनम्। व्यष्टौत्, व्यस्तौत्, अभ्यष्टौत्, अभ्यस्तौतित्येतदपि सिद्धं भवति। इति वामनकाशिकायां वृत्तौ अष्टमाध्यायस्य तृतीयः पादः। अष्टमाध्यायस्य चतुर्थः पादः।
न्यासः
सुनोतेः स्यसनोः। , ८।३।११९

"अभ्यसोष्यत्()" इति। लृङ्()। "अभिसुसूषति" इति। सन्(), "इको झल्()" १।२।९ इति कित्त्वे गुणाभावः। "ञज्झनगमां सनि" ६।४।१६ इती दीर्घः। "अत्र" इत्यादि। इतिकरणो हेतौ। अत्र यस्मात्? "स्तौतिण्योरेव षण्यभ्यासात्()" ८।३।६१ इत्यतो नियमादप्राप्ते "स्थादिष्वभ्यासेन" ८।३।६४ इति नियमादप्राप्तिस्तस्मादभिसुसूरित्युदाहरन्ति। स्यादेतत्()--अत्रापि नास्ति यत्? तदप्युदाहरणं नोपपद्यते? इत्यत आह--"सन्? षभूतो न भवति" इत्यादि। षभूते हि सनि स्तौतिण्योरेव ८।३।६१ नियमः, न चात्र सन्? षभूतः। तस्मादसति सन्ग्रहणेऽब्यासस्थान्निमित्तात् "आदेशप्रत्यययोः" ८।३।५९ इति षतद्वं न प्राप्नोति। अभ्यासग्रहणमुपसर्गात्? प्राप्तेरसन्भवात्()। अत उपसर्गस्थान्निमित्ताद्धातुसकारस्य षत्वं न प्राप्नोति; अभ्यासेन व्यवहितत्वात्(), नास्याससकारस्य स्थादिनियमेन व्यावर्त्तितत्वात्()। "अभिसुसूः" इति। अभिसुसूष इति स्थिति क्विप्(), "अतो लोपः" ६।४।४८, षत्वस्यासिद्धत्वाद्रुत्वविसर्णनीयौ॥
बाल-मनोरमा
सुनोतेः स्यसनोः ३५४, ८।३।११९

सुनोतेः स्यसनोः। "अपदान्तस्य मूर्धन्यःर" इत्यधिकृतम्। "न रपरे"त्यतो नेत्यनुवर्तते। तादह--षो न स्यादिति। स्ये उदाहरति-- विसोष्यतीति। अत्र "उपसर्गात्सुनोती"ति प्राप्तः षो न भवति। सनि तु "अभिसुसू"रित्युदाहरणम्। षुञः सनि द्वित्वे अभिसुसूसेति ससन्तात्क्विपि अतो लोपे अभिसुसूसित्यस्मात्सोर्हल्ङ्यादिलोपे सस्य रुत्वे "र्वोरुपधायाः" इति दीर्घे रेफस्य विसर्गः। सुसूषतीति तु नोदाहरणं, "स्तौतिण्योरेव षण्यभ्यासा"दिति नियमादेव षत्वाऽभावसिद्धेरित्यलम्। षिञ् बन्धने इति। षोपदेशः, अनिट् च। षुञ इव रूपाणि। विसिनोतीति। "सात्पदाद्यो"रिति षत्वनिषेधः। "उपसर्गात्सुनोती"ति तु न षः, सुनोतत्यादिष्वनन्तर्भावादिति भावः। सिषायेति। णलि वृद्धावायादेशः। अतुसादौ "एरनेकाचः" इति यण्। सिष्यतुरित्यादि। लटस्तङ्याह-- सिष्ये इति। सिषि ए इति स्थिते "एरनेकाच" इति यणिति भावः। सिष्याते सिष्यिरे इत्यादि। असैषीत्। षिञ् निशाने इति। षिञ्वत्। डु मिञ् प्रक्षेपणे इति। मिनोति। उपदेशे एजन्तत्वाऽभावादात्त्वे अप्राप्ते आह-- मीनातिमिनोतीत्यात्त्वमिति। "एज्विषये अशिती"ति शेषः। ममाविति। आत्त्वे कृते णल औत्वमिति भावः। अतुसादावेज्विषयत्वाऽभाव#आन्नात्त्वम्। "एरनेकाचः" इतियण्। मिम्यतुः। मिम्युः। भारद्वाजनियमात्थलि वेडिति मत्वा आह-- ममिथ ममाथेति। थलः पित्त्वेन अकित्त्वादेज्विषयत्वम्। इट्पक्षे "आतो लोपः" इति भावः। मिम्यथुः मिम्य। ममौ मिम्यिव मिम्यिम। लिटस्तङ्याह-- मिम्ये इति। एशः कित्त्वादेज्विषयत्वाऽभावाच्च नात्त्वमिति भावः। मिम्याते मिम्यिरे। मिम्यिषे मिम्याथे [मिम्यिढ्वे] मिम्यिध्वे।मिम्ये मिम्यिवहे मिम्यिमहे। मातेति। एज्विषयत्वादशित्त्वाच्च आत्त्वमिति भावः। मास्यि मास्यते। सार्वधातुकेषु षुञ्वत्। मीयादिति। आशीर्लिङि परस्मैपदे यासुटः कित्त्वादेज्विषयत्वाऽभावादात्त्वाऽभावे "अकृत्सार्वधातुके"ति दीर्घ इति भावः। अमासाताम् अमासात इत्यादि। चिञ् चयने इति। चयनं = रचना। अनिट्। सार्वधातुके षुञ्वद्रूपाणि। प्रणिचिनोतीति। " नेर्गदे"ति णत्वमिति भावः।

तत्त्व-बोधिनी
सुनोतेः स्यसनोः ३०९, ८।३।११९

सुनोतेः स्यसनोः। "न रपरे" त्यस्मान्नेत्यनुवर्तनादाह-- षो न स्यादिति॥ सनि तु अभिसुसूः। सन्नन्तादस्मात्क्विप्यतो लोपे रुत्वे कृते दीर्घः। सुसूषतीत्येतत्तु नोदाहरणं, "स्तौतिण्योरेव षणी"ति नियमेनैव षत्वाऽभावसिद्धेः। एतच्च काशिकायां स्पष्टम्। चिञ्। चयनं रचनाविशेषः।