पूर्वम्: ८।३।१९
अनन्तरम्: ८।३।२१
 
सूत्रम्
ओतो गार्ग्यस्य॥ ८।३।२०
काशिका-वृत्तिः
ओतो गर्ग्यस्य ८।३।२०

ओकारादुत्तरस्य यकारस्य लोपो भवति गार्ग्यस्य आचार्यस्य मतेन अशि परतः। भो अत्र। भगो अत्र। भो इदम्। भगो इदम्। नित्यार्थो ऽयम् आरम्भः। गार्ग्यग्रहणं पूजार्थम्। यो ऽयमलघुप्रयत्नस्य विकल्पेन लोपः क्रियते सो ऽनेन निवर्त्यते। लघुप्रयत्नतरः तु भवत्येव यकारः। भो अत्र भोयत्र। भगो अत्र, भगोयत्र। अघो अत्र, अघोयत्र। केचित् तु सर्वम् एव यकारम् अत्र न इच्छन्ति।
न्यासः
ओतो गाग्र्यस्य। , ८।३।२०

ओकारादुत्तरो वकारो नास्ति, पदान्त इति यकारस्यैवायं विधिर्विज्ञास्यत इत्याह--"ओकारादुत्तरस्य यकारस्य" इति। ननु च पूर्वसूत्रेणैवौकारादुत्तरस्य यकारलोपः सिद्धः, तत्किमर्थमिदमारभ्यते? इत्याह--"मित्यार्थोऽयमारम्भः" इति। गाग्र्यग्रहणं तर्हि किमर्थम्()? इत्याह--"गाग्र्यग्रहणम्()" इत्यादि। व्योरिह प्रकरणे लघुप्रयत्नतरपक्षेविहितो लोपोऽपि, तत्कस्यार्य नित्यो लोपो बाधकः? इत्याह--"योऽयम्()" इत्यादि। अथ वा--यदि नित्यार्थोऽयमारम्भः, पक्षे लघुप्रत्यत्नतरो न स्यादित्यत आह--"योऽयम्()" इत्यादि। लोपविकल्पस्यानन्तरत्वात्? तस्यैव निवृत्तिर्युक्ता कर्तुमिति भावः। "केचित्तु" इत्यादि। कथं पुनरिष्यमाणमपि लघुप्रयत्नतरस्य बाधनं भवति, यावतानन्तरत्वाल्लोपविकल्पस्यानेन बाधा युक्ता? व्योः कार्यसमुदायस्यापेक्षितत्वाददोषः। यदि लोपविफल्पमात्रमपेक्षते, ततः स एव बाध्यते, न लघुप्रयत्नतरः; लोपेन व्यवहितत्वात्()। यदा तु व्योर्यवस्मिन्? प्रकरणे कार्यं विहितं तत्समुदायोऽपेक्ष्यते, तदा तस्यानन्तर्यात्? स एव निवर्त्त्यते। तपरकरणमसन्देहार्थम्()। यतो हि "ओः" इत्युक्ते सन्देहः स्यात्()--किमयमोकरस्य निर्देशः? आहोस्विदुकारस्येति? मैवम्(); "भोभगोअघोअपूर्वस्य" ८।३।१७ इत्यनुवत्र्तते, न भोःप्रभृतीनामुकारोऽस्ति, तत्कुतः सन्देङः? एवं तर्हि मुखसुखार्थम्()॥
बाल-मनोरमा
ओतो गाग्र्यस्य १६८, ८।३।२०

अतो गाग्र्यस्य। "ओत" इति पञ्चमी। "व्यो"रित्यतो यग्रहणमनुवत्र्तते, नतु वकारोऽपि, ओतः परस्य तस्याऽसंभवात्। "पदस्ये" त्यधिकृतं यकारेण विशेष्यते, ततस्तदन्तविधिः। तेन ओकारात्परो यो यकारस्तदन्तस्य पदस्येति चार्थो लभ्यते। अलोऽन्त्यपरिभाषया च पदान्तस्य यकारस्येति फलितम्। "भोभगो" इत्यतोऽशीत्यनुवर्तते। "लोपश्शाकल्यस्ये"त्यतो "लोप" इत्यनुवर्तते। सच पूर्वविगितलघुप्रयत्नस्य न भवति, विधानसामथ्र्यात्, तदाह--ओकारादिति। ननु लोपस्य कथं नित्यत्वं, "गाग्र्य"ग्रहणादित्यत आह--गाग्र्यग्रहणमिति। व्याख्यानादिति भावः। भो अच्युतेति। अलघुप्रयत्नपक्षे यकारस्य नित्यं लोपः। लघुप्रयत्नपक्षे-भोयज्युतेति। अत्र लघुप्रयत्नस्य विधिसामथ्र्यान्न लोपः। तोयमिति। अत्र यकारस्य पदान्तत्वाभावादोतो गाग्र्यस्येति न भवति। अनेनाऽत्र "भोभगो" इति नानुवर्तते इति सूचितम्।

तत्त्व-बोधिनी
ओतो गाग्र्यस्य १३८, ८।३।२०

विधानसामथ्र्याल्लघुप्रयत्नतरस्य न भवतीत्याशयेनाह-अलघुप्रत्नयस्येति। भोयच्युतेति। एवं भगोयच्युत। अघोयच्युत। वकारस्योदाहरणं तु-"असावादित्यः"। एतच्च काशिकायां स्पष्टम्।