पूर्वम्: ८।३।२०
अनन्तरम्: ८।३।२२
 
सूत्रम्
उञि च पदे॥ ८।३।२१
काशिका-वृत्तिः
उञि च पदे ८।३।२१

अवर्णपूर्वयोः व्योः पदान्तयोर् लोपो भवति उञि च पदे परतः। स उ एकविंशवर्तनिः। स उ एकाग्निः। पदे इति किम्? तन्त्र उतम्, तन्त्रयुतम्। वेञः सम्प्रसारणे कृते उञिति भूतपूर्वेण ञकारेण शक्यते प्रतिपत्तुम् इति। अथ उञित्येवं रूपो निपातः प्रतिपदोक्तो ऽस्ति? तदा लाक्षणिकत्वाद् वेञादेशस्य ग्रहणम् इह न अस्ति, उत्तरार्थं पदग्रहणं क्रियते।
न्यासः
उञि च पदे। , ८।३।२१

"लोपः शाकल्यस्य" ८।३।१९ इति सिद्धे नियमार्थम्()--उञि पद एव, नान्यत्रेति। "अवर्ञपूर्वयोः" इति। ओकारपूर्वस्य वकारस्यासम्भवाद्यकारस्य पूर्वेणैव सिद्धत्वादवर्णपूर्वयोरेवायं लोपो विज्ञायत इत्यवर्णपूर्वयोरित्युक्तम्()। "स उ" इति। तच्छब्त्? सुः, त्यदाद्यत्वम्(), "तदोः सः सावनन्त्ययोः" ७।२।१०६ इति सः, रुत्वाम्(), तस्य यकारः, तस्यानेन लोपः। "तन्त्रयुतम्()" इति। "तन्त्रे" इत्येतस्य सप्तम्यन्तस्य उतशब्दे निष्ठान्ते परतोऽयादेशः। ननु च "उञि" ["उञ्()"--कांउ।पाठः] इत्युच्यते, न चायमुञ्(), ञकाराभावात्? तत्किमेतन्निवृत्त्यर्थेन पदग्रहणेन? इत्यत आह--"वेञः सम्प्रसारणे" इत्यादि। सम्प्रसारणं तु "वचिस्वपि" ६।१।१५ इत्यादिना। एवं तावदुञो निपातस्य प्रतिपदोक्तस्यास्तित्वमनपेक्ष्य पदग्रहणप्रयोजनं दर्शितम्()। यदा तु तस्यास्तित्वमपेक्ष्यते, तदा प्रयोजनान्तरं दर्शयितुमाह--"उत्तरार्थम्()" इति। "ङमो ह्यस्वादचि ङमुण्? नित्यम्()" ८।३।३२ इत्येष विधिरजादौ पदे यथा स्यात्(), इह मा भूत्()--परमदण्डिनेति। यद्युत्तरार्थम्(), तत्रैव कस्मान्न कृतम्(), कः पुनरेवं सिति लाभः? स्वरितत्वं न प्रतिज्ञायत इत्येष लाभः। इहापि क्रियमाणे लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।३) नाश्रयणीया भवतीति समानम्()। चकारोऽवर्णपूर्वस्यानुकर्वणार्थः; क्षन्यथा ह्रोतोऽनन्तरत्वात्? ततः परस्य यकारस्य लोपो विज्ञायेत? नैतदस्ति; एवं हि विज्ञायमाने निरर्थकमेवेदं सूत्रं स्यात्(), पूर्वेणैव सिद्धत्वात्()। नानर्थकम्(), नियमार्थत्वात्()--उङि पद एव यथा स्यात्()--भो उ पदश्यतीति। असति ह्रस्मिन्नियमार्थे भो युतम्(), भगो युतमित्यत्रापि नित्यो लोपः स्यात्()। यदि तु निपातस्येदमुञो ग्रहणम्(), तदा नियमार्थस्य व्यावत्र्यत्वं नास्तीति पूर्वापेक्षया चकारः समुच्चयार्थो द्रष्टवप्यः। उञीति ञकारोऽसन्देहार्थः। असति हि तस्मिन्? सप्तम्या औ इति निर्देशः स्यात्()। ततश्च किमयमुकारस्य निर्देशः? उत्तेकारस्येति? सन्देहः स्यात्()। ननु च क्रियमाणेऽपि तस्मिन्? किमुञीति निपातस्य ग्रहणम्()? आहोस्विदुकारादारभ्य झभञ्()" (मा।सू।८) इति ञकारस्येति सन्देहः स्यादेव? नैवम्(); इदं तावद्भवान्? प्रष्टव्यः--किमुञिति प्रत्याहरे येऽन्तर्गता हलस्तेष्वेव नित्यो लोपः? उतान्येष्वपीति? किमत्र वक्तव्यम्()--"अन्येष्वपि" इति? तथा हि वक्ष्यति--"हलि सर्वेषाम्()" (८।३।२२) इति। एवं तर्हि यद्यत्र प्रत्याहारग्रहणभिमतं स्यात्? "एऔच्()" (मा।सू।४) इति चकारेण प्रत्याहरं गृह्णीयात्()--उचि च पद इति। हल्यपि "हलि सर्वेषाम्()" इत्यनेन भविष्यतीति। तत्राप्ययमर्थः--सन्देहः परिह्मतो भवति। अथ वा यद्यत्रोकारादीनामुञा प्रगत्याहरग्रहणभिमतं स्याद्धलीति लकारेण प्रत्याहरं गृहीत्वैकमेवेमं योगं कुर्यात्()--"उलि च पदे सर्वेषाम्()" इति। न हि योगविभागस्य किञ्चित्? प्रयोजनं पश्यामः। तस्मान्नात्रोकारादीनां प्रत्याहारग्रहणमिष्टम्()। ततश्चोञो निपातस्यैव ग्रहणमित्यसन्दिग्धमेतत्()॥
बाल-मनोरमा
उञि च पदे १६९, ८।३।२१

उञि च पदे। अपूर्वस्येति, पदस्येति, व्योरिति लोप इति चानुवर्तते। तदाह--अवर्णेति। स उ एकाग्निरिति। "उ" इति निपातः। सस् उ इति स्थिते सस्य रुः, भोभगो इत्यपूर्वत्वाद्यत्वम्। लोपश्शाकल्यस्येति विकल्पनिवृत्त्यर्थमिदम्। वकारोदाहरणं तु "असा उ एकाग्नि"रिति वृत्तिः। पदे किमिति। उञः पदत्वाऽव्यभिचारात्पदे इति तद्विशेषणस्य किं प्रयोजनमिति प्रश्नः। तन्त्रयुतमिति। तन्त्रे-उतमिति विग्रहः। अयादेशः। अत्र यकारस्य लोपनिवृत्त्यर्थं पदग्रहणमिति भावः। नन्वत्र उञ्()परकत्वाऽभावादेव लोपनिवृत्तिसम्भवात्पदग्रहणं व्यर्थमेवेत्यत आह--वेञ, इति। "वेञ् तन्तुसन्ताने" इत्यतः क्तप्रत्यये, "वचिस्वपियजादीनाम्" इति वकारस्य संप्रसारणे उकारे, पूर्वरूपे, उतमिति रूपम्। अत्र उञ्परकत्वे।ञपि तस्य उञः पदत्वाऽभावात्तस्मिन् परे यस्य लोपो न भवतीत्यर्थः। ननु स उ एकाग्निरित्यत्र उञ् प्रतिपदोक्तः, चादौ पठितत्वात्। उतमित्यत्र तु उञ् लाक्षणिकः , संप्रसारणादिविधिनिष्पन्नत्वात्। ततश्च "लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहण"मिति परिभाषया चादिपठितस्यैव उञोऽत्र ग्रहणं भविष्यति। नतु उतमित्यत्र उञोऽपि। अतः पदग्रहणं व्यर्थमेवेत्यत आह-यदीति। उत्ररार्थमिति। ङमो ह्यस्वादचीत्यर्थमित्यर्थः। एतच्चात्रैव भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
उञि च पदे १३९, ८।३।२१

उत्तरार्थं पदग्रहणमिति। वस्तुतस्तूत्तरत्रापि नोपयुज्यते, "पदस्ये"त्यनुवृत्त्यैव निर्वाहात्। "उञि च पदे" इत्यतः "पदे" इत्यनुवर्त्त्य "अजादेः पदस्ये"ति व्याख्यानात्। "परमदण्डिनावित्यादौ ङमुण्ने"ति प्राचो व्याख्यानस्य "ङमो ह्स्वादची"ति सूत्रे मनोरमायां निरस्तत्वाच्च। ननु "हलि सर्वेषा"मित्यत्र "पदे"ग्रहणानुवृत्तौ "हलादौ पदे" इति व्याख्यानलाभाद्वृक्षव्भ्यां वृक्षव्भिरित्यत्र वस्य नित्यं लोपो न भवति, किं तु "लोपः शाक्ल्यस्ये"ति वैकल्पिक एव लोपैत्यस्ति "पदे"-ग्रहणस्य प्रयोजनमिति चेन्मैवं; हलि सर्वेषा"मित्यत्र वस्याऽननुवर्तितत्वात्। किंच "माभ्यां" "माभि"रित्यत्र भ्यामादौ परतो यस्य विकल्पेनैव भवन्मते लोपः स्यात्, तत्र "हलि सर्वेषा"मित्यस्याऽप्रवृत्तेः। न चेष्टापत्तिः, भाष्यकारैर्दण्डिनेत्यत्र ङमुङ्वारणाय "ङमो ह्यस्वादची"त्यत्रानुवृत्त्यर्थं पदग्रहणमित्युक्तत्वात्। न च तदेव प्रयोजनमस्त्विति वाच्यं, "ह्यस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो नित्यं ङमु"डिति व्याख्यानेन "दण्डिने"त्यत्र प्रसक्तयभावात्।