पूर्वम्: ८।३।३२
अनन्तरम्: ८।३।३४
 
सूत्रम्
मय उञो वो वा॥ ८।३।३३
काशिका-वृत्तिः
मय उञो वो वा ८।३।३३

मय उत्तरस्य उञो वा वकारादेशो भवति अचि परतः। शंवस्तु वेदिः, शमु अस्तु वेदिः। तद्वस्य परेतः, तदु अस्य परेतः। किंवावपनम्, किमु आवपनम्। प्रगृह्यत्वातुञः प्रकृतिभावे प्राप्ते वकारो विधीयते। तस्य असिद्धत्वाद् हलि इति मो ऽनुस्वारः ८।३।२३ न भवति।
लघु-सिद्धान्त-कौमुदी
मय उञो वो वा ५८, ८।३।३३

मयः परस्य उञो वो वाचि। किम्वुक्तम्, किमु उक्तम्॥
न्यासः
मय उञो वो वा। , ८।३।३३

"मयः" इति प्रत्याहारस्य ग्रहणम्(), न तु अय वय "मय" इति धातोः। कुत एतत्()? व्याप्तिन्यायात्()। किमर्थमिदमुच्यते, यावता "इको यणचि" ६।१।७४ इत्युञो वकारः सिद्ध एव, विकल्पार्थमिति चेत्()? स्यादेतत्()--यदि "इको यणचि" इति नित्यं स्यात्(), तस्माद्विकल्पार्थं वचनमिति? एतच्च न; "पदान्ताद्वा" ६।१।७३ इत्यतो वेत्यनुवर्त्तिष्यते, सा च व्यवस्थितविभाषा विज्ञायते। तेनोञो विकल्पेन यन्मवतीत्याह--"प्रगृह्रत्वात्()" इत्यादि। प्रगृह्रत्वं पुनः "उञः" १।१।१७ इति प्रगृह्रसंज्ञाविधानात्()। तस्मिन्? सति "प्लुतप्रगृह्र अचि" ६।१।१२१ इति प्रकृतिभावः प्राप्नोति, तस्मिन्? प्राप्ते वकारो विधीयते। एवमपि "इको यणचि" इत्यस्यानन्तरमुञो यण्? वकारो विधेयः() एवं हि व इति न कत्र्तव्यं भवति; यणः प्रकृतत्वात्()। वेति वचनं न कत्र्तव्यं भवति; "पदान्ताद्वा" (६।१।७६) इत्यतो वाग्रहणं मण्डूकप्लुत्याऽनुवत्र्तते? इत्याह--"असिद्धत्वात्()" इत्यादि। तत्र ह्रुच्यमाने वकारस्य [नास्ति--कांउ।पाठे] सिद्धत्वाद्धलि विधीयनानोऽनुस्वारः स्यात्(), न चेष्यते, तस्मादिहैव क्रियते। इह क्रिममाणो मोऽनुस्वारो न भवति, वत्वस्यासिद्धत्वात्()॥
बाल-मनोरमा
मय उञो वो वा १०९, ८।३।३३

मय उञो वो वा। "मय" इति पञ्चमी, "उञ" इति षष्ठी। "ङमो ह्यस्वादचि" इत्यतोऽचीत्युवर्तते, तदाह--मयः परस्येति। किम्वुक्तमिति। "किमु उक्त"मिति स्थिते मकारोत्तरोकारस्य उञो "निपात एकाच्" इति नित्यं प्रगृह्रत्वात्प्रकृतिभावाद्यणभावे प्राप्ते वत्ववचनमिदम्। ननु तर्हीको यणचीत्यनन्तरमेव "मय उञो वे"ति पठितव्यं, वग्रहणाऽभावेन लाघवात्। त्रिपाद्यां पाठे वग्रहणस्यापि कर्तव्यत्वेन गोरवादित्यत आह--वत्वस्येति। यदि षष्ठस्य प्रथमे पादे इको यणचीत्यत्रैव मय उञो यणादेशविकल्पो विधीयेत,तर्हि किम्वुक्तमित्यत्र "मोऽनुस्वार" इति मकारस्य वकारे परेऽनुस्वारः स्यात्। त्रिपाद्यां वत्वविधौ तु तस्याऽसिद्धत्वान्नानुस्वारः। त्रिपाद्यामनुस्वारविध्यपेक्षया वत्वविधेः परत्वादिति भावः।

तत्त्व-बोधिनी
मय उञो वो वा ८९, ८।३।३३

"प्रगृह्र"मित्यनुवर्तनादाह--प्रगृह्रश्चेति। ननु दीर्घोच्चारणसामथ्र्यादेव प्रकृतिभावासिद्धौ किमनेन प्रगृह्रत्वेनेति चेदत्राहुः-प्रगृह्राप्रगृह्रयोद्र्वयोरप्युञोरादेशापत्तौ प्रगृह्रादेशे प्रकृतिभावादिष्टसिद्धावपि अप्रगृह्रादेशस्याऽनुनासिको वकारः स्यात्तद्वारणाय प्रगृह्रत्वाश्रयणमिति। आदेशस्यास्य स्थानिवत्त्वेनोञ्त्वादुञ इति प्रगृह्रत्वविकल्पे प्राप्ते नित्यार्थं तदाश्रयणमित्यन्ये। यदि तु "प्रगृह्र"मित्यस्य स्थानिविशेषणत्वं स्वीकृत्य "प्रगृह्रस्योञः ऊँ इत्यमादेशः" इति व्याख्यायते, तदा दीर्घानुनासिकोक्तिवत्प्रगृह्रश्चेत्युक्तिरपि स्वरूपकथनमेवेति बोध्यम्। ऊँ इत्यत्र यदि शाकल्यस्येति नापेक्ष्यते, तदा प्रगृह्रस्योञो नित्यमादेशः स्यात्ततश्च "विति" "ऊँ अत् " एते द्वे रूपे स्याताम्, तस्माच्छाकल्यग्रहणानुवृत्त्या आदेशविकल्पे सिद्धे त्रीणि रूपाणि सिध्यन्तीति कैयटस्तदाह--अयमादेषो वा स्यादिति। व(त्व)स्यासिद्धत्वादिति। अत एवेदं त्रिपाद्यां विधीयते। प्रकृतिभावमात्रबाधनार्थत्वे हि "इको य"णित्यनन्तरं "मय उञो वे"त्येवावक्ष्यत्, यणं चाऽन्ववर्तयिष्यत्।