पूर्वम्: ८।३।३१
अनन्तरम्: ८।३।३३
 
सूत्रम्
ङमो ह्रस्वादचि ङमुण्नित्यम्॥ ८।३।३२
काशिका-वृत्तिः
ङमो ह्रस्वादचि ङमुण् नित्यम् ८।३।३२

ह्रस्वात् परः यो ङम् तदन्तात् पदातुत्तरस्य अचः ङमुडागमो भवति नित्यम्। ङणनेभ्यो यथासङ्ख्यं ङणना भवन्ति। ङकारान्तात् ङुट् प्रत्यङ्ङास्ते। णकारान्तात् णुट् वण्णास्ते। वण्णवोचत्। नकारान्तात् नुट् कुर्वन्नास्ते। कुर्वन्नवोचत्। कृषन्नास्ते। कृषन्नवोचत्। ङमः इति किम्? त्वमास्से। ह्रस्वातिति किम्? प्राङास्ते। भवानास्ते। अचि इति किम्? प्रत्यङ् करोति। इह परमदण्डिनौ, परमदण्दिना इति उत्तरपदत्वे चापदादिविधौ इति प्रत्ययलक्षणप्रतिषेधादुत्तरपदस्य पदत्वं न अस्ति इति ङमुट् न भवति। अथ वा, उञि च पदे ८।३।२१ इत्यतः सप्तम्यन्तं पदे इत्यनुवर्वते। तेन अजादौ पदे ङमुट् भवति।
लघु-सिद्धान्त-कौमुदी
ङमो ह्रस्वादचि ङमुण् नित्यम् ८९, ८।३।३२

ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः॥
न्यासः
ङमो ह्वस्वादचि ङमुण्नित्यम्?। , ८।३।३२

"इमः" इति, "ङमुट" इति उभयमपि प्रत्याहारग्रहणम्()। उडिति प्रत्येकं ङकारादिभिः सम्बध्यते। "ह्यस्वात्()" इत्येतन्ङमो विशेषणम्(), ह्यस्वविशेषितोऽपि ङम्? पदस्य विशेषणम्(), विशेषणेन च तदन्तविधिर्भवतीति तदन्तात्? पदादिति विज्ञायते। यद्यपि पदस्येति षष्ठ()न्तं प्रकृतम्(), तथापि तदिहार्थात्? पञ्चम्यन्ततया विपरिणम्यते--"उभयनिर्देशे पञ्चमोनिर्देशो बलीयान्()" (शाक।प।९७) इति। "ङमः" इति पञ्चम्या "अचि" इति सप्तम्याः षष्ठ()आं परिकल्पितायामच एवागमित्वं प्रतिपद्यते। सप्तमीनिर्देशस्तु लाघवार्थः; उत्तरार्थश्चेत्येतत्सर्वं चेतसि कृत्वाऽह--"ह्वस्वात्? परो यो ङम्(), तदन्तात्()" इति। संख्यातानुदेशो हीह वेदितव्यः; आगमिनामागमानाञ्च समानत्वात्()। "प्रत्यङ्ङास्ते" इति। "आस उपवेशने" (धा।पा।१०२१), अदादित्वाच्छपो लुक्()। "कृवन्नास्ते" इति। "कृष विलेखने" (धा।पा।९९०) लौदादिकः, शत्()। अथ परमदण्डिनोत्तमदण्डिनेति "सन्महत्()" (२।१।६१) इत्यादिना समासे कृते ङमन्तात्? तृतीयैकवचने तस्य नुट्? कस्मान्न भवति; अत्र हि "यचि भम्()" (१।४।१८) इति भत्वेऽपि समासस्य ह्यस्वादिकारात्? परो ङम्? नकारः, तदन्ताद्दण्डिनेत्यस्माद्या विभक्तिस्तस्यां लुप्तायामपि प्रत्ययलक्षणेन (१।१।६२) लब्धपदसंज्ञत्वात्? तृतीयैकवचनमच्परं भवतीत्यस्ति ङमुट्प्राप्तिः? इत्याह--"परमदण्डिना" त्यादि। उत्तरपदत्वे उत्तरपदव्यपदेशे कत्र्तव्ये सत्यपदादिविधौ पदाविधिधेरन्यत्र प्रत्ययलक्षणं न भवतीति वाक्यार्थः। असति प्रत्ययलक्षणे दण्डिनेत्यस्य पदसंज्ञा न भवति। ततश्च पदान्तादुत्तरस्योच्यमानो ङमुडागमो न भवति। एवं तावत्? कात्यायनमतेन परीहार उक्तः। यस्तु सूत्रकारमतेन, तं दर्शयितुमाह--"अथ वा" इत्यादि। पद इत्यनुवृत्ती सत्यामचा पदे विशेष्यमाणे "यस्मिन्? विधिस्तदादावल्ग्रहणे" (वा।१४) इत्यनेनाजादौ पदे कार्येण भवितव्यम्(), न चात्राजादि पदमस्ति, तत्कुतो नुट्प्रसङ्गः। अथ नित्यग्रहणं किमर्थम्(), यावतोत्तरसूत्रे (८।३।३३) वाग्रहणादेव नित्यो विधिर्विज्ञास्यते? सत्यमेतत्(); पूर्वसूत्रेऽपि ८।३।३१ नित्यत्वं विज्ञायेत। तस्मात्? पूर्वसूत्रेषु "हे मपरे वा" ८।३।२६ इत्यतो "वा" इत्नुवत्र्तत इति ज्ञापनार्थं नित्यग्रहणम्()॥
तत्त्व-बोधिनी
ङमो ह्यस्वादचि ङमुण्नित्यम् १०७, ८।३।३२

ङमो ह्यस्वात्। ङम् प्रत्याहारः, संज्ञायां च कृतं टित्त्वं सामथ्र्यात्संज्ञिभिः संबध्यते। तेन यथासङ्ख्यं ङुट्-णुट्-नुटः प्रवर्तन्ते। नित्यग्रहणं विस्पष्टार्थं, "हे मपरे" इति "मय उञो वे"ति च विकल्पद्वयस्य मध्ये पाठादेव नित्यत्व लाभात्। नन्विह नित्यग्रहणाऽभावे "हे मपरे वे"ति वाग्रहणमुत्तरसूत्रेषु पञ्चस्वप्यनुवर्तते वा न वेति शङ्का स्यादिति चेत्सत्यम्। अतएव "विस्पष्टार्थ"मित्युक्तं न तु व्यर्थमिति। तस्मात्परस्याऽच इति। ननु "ङम" इत्यस्य षष्ठ()न्ततामाश्रित्याऽचि परे पूर्वस्यैव विधीयतां को दोष इति चेन्मैवम्, तथाहि सति ङमन्तस्य पदस्य पूर्वावयवः स्यादित्यनिष्टं प्रसज्येत। "पदस्य यो ङम् तस्ये"ति वैयधिकरण्येन व्याख्यायामपि "कुर्वन्नास्ते" इत्यत्र णत्वं प्रसज्येत, "पदान्तस्ये"ति निषेधस्याऽप्रवृत्तेः। यद्यपि बहिरङ्गपरिभाषया ङमुड्विधेरसिद्धत्वादिष्टं सिध्यति, तथापि यथोद्देशपक्षे त्रैपादिकेऽन्तरङ्गे बहिरङ्गपरिभाषाया अप्रवृत्तेः प्रसज्यत एव णत्वमिति यथोक्तव्याख्यानमेव सांध्विति दिक्। सुगण्णीश इति। ण्यल्लोपौ न स्थानिवत्, पूर्वत्रासिद्धे तन्निषेधात्। ननु "परमदण्डिना"वित्यादावन्तर्वर्तिविभक्तया पदत्वान्नुट् स्यादिति चेन्न; "उत्तरपदत्वे चापदादिविधौ" इति प्रत्ययलक्षणप्रतिषेधात्। अतएव परमवाचौ" "परमगौदुहौ" "परमलिहा"वित्यादौ कुत्वघत्वनत्वादीनि न। प्राचा तु "उञि च पदे" इत्यतः "पदे" इत्यनुवर्त्त्य "अजादेः पदस्ये"ति व्याख्यानान्ङमुण्नेत्युक्तं, तदनेन प्रत्युक्तम्। इहैव नलोपं वारयितुमुक्तरीतेरेव तेनाऽप्यनुसर्तव्यत्वात्।