पूर्वम्: ८।३।४७
अनन्तरम्: ८।३।४९
 
सूत्रम्
कस्कादिषु च॥ ८।३।४८
काशिका-वृत्तिः
कस्कादिषु च ८।३।४८

कस्क इत्येवम् आदिसु च विसर्जनीयस्य सकारः वा यथायोगमादेशो भवति कुप्वोः परतः। कस्कः। कौतस्कुतः। कुत आगतः इत्यण्। भ्रातुष्पुत्रः। शुनस्कर्णः। सद्यस्कालः। सद्यस्क्रीः। क्रीणातेरयं सम्पदादित्वात् क्विप् प्रत्ययः, तत्र भवः क्रतुः साद्यस्क्रः। कांस्कान्, कानाम्रेडिते ८।३।१२ इति रुत्वमत्र सर्पिष्कुण्डिका, धनुष्कपालम्, वर्हिष्पूलम्, यजुष्पात्रम् इत्येषां पाठः उत्तरपदस्थस्य अपि षत्वं यथा स्यादिति। परमस्र्पिःफलम् इत्येवम् आदि प्रत्युदाहरणातिति पारायणिका आहुः। भाष्ये वृत्तौ च नित्यं समासे ऽनुत्तरपदस्थस्य ८।३।४५ इत्यत्र प्ररमसर्पिःकुण्दिका इत्येतदेव प्रत्युदाहरणम्। अयस्काण्डः। मेदस्पिण्डः। अविहितलक्षण उपचारः कस्कादिषु द्रष्टव्यः।
लघु-सिद्धान्त-कौमुदी
कस्कादिषु च ९८४, ८।३।४८

एष्विण उत्तरस्य विसर्गस्य षोऽन्यस्य तु सः। इति सः। व्यूढोरस्कः॥
न्यासः
कस्कादिषु च। , ८।३।४८

"कुत्वोः" ८।३।३७ इत्यस्यायमपवादः। "यथायोगम्()" इति। इणः परो यो विसर्जनीयस्तस्य षकारः, यस्त्वन्यस्तस्य सकार इत्येष यथायोगार्थः "कस्कः" इति। सौ परतः "किमः कः" ७।२।१०३ इति कादेशः, दीप्सायां द्विर्वचनम्()। "कौतस्कुतः" इति। "पञ्चम्यास्तसिल्()" ५।३।७, "कु तिहोः" ७।२।१०४ इति किमः स्थाने कुभावः, पूर्ववद्()द्विरुक्तिः, "तत आगतः" ४।३।७४ इत्यणि कृते "अव्ययानां भमात्र" (वा।८४२) इति टिलोपः। "भ्रातुष्पुत्रः" इति। यदा समासस्तदा "ऋतो विद्यायोनिसम्बन्धेभ्यः" ६।३।२२ इति षष्ठ()आ अलुक्()। "शुवस्कर्णः" इति। संज्ञायाम्()" ष्ठ()आ आक्रोशे" ६।३।२० इत्यलुक्()। असंज्ञायां तु समासे ()आकर्ण इत्येवं भवति। ननु च सर्पिष्कुण्डिकादीनां "नित्यं समासेऽनुत्तरपदस्थस्य" ८।३।४५ इत्येवं षकारः सिद्धः, तत्किपर्थमेषामिह पाठः? इत्यत आह--"एषाम्()" इत्यादि। पारायणेन दीव्यन्तीति पारायणिकाः "तेन दीव्यति"४।४।२ इती ठक्()। "भाव्ये वृत्तौ च" इति। अनुत्तरपदस्थस्येति किम्()? परमसर्पिःकुण्डिकेति भाष्ये वृत्तौ च प्रत्युदाह्मतम्(); अतस्तयोरिह पाठो नाभिमतोऽमीषामिति दर्शयति। "अविहितलक्षणः" इत्यादिना कस्कादेराकृतिगणतामाचष्टे। चकारोऽनुक्तसमुच्चयार्थो भवन्नेवमर्थं द्योतयति। विसर्जनीयस्थानिकयोः सकारषकारयोः "उपचारः" इत्येषा संज्ञा विहिता॥
बाल-मनोरमा
कस्कादिषु च १४३, ८।३।४८

कस्कादिषु च। "इण इत्यनुवर्तते। तच्च पञ्चम्यन्तम्। "विसर्जनीयस्य स" इत्यतो विसर्जनीयस्येत्यनुवर्तते। कस्कादिष्विति विषयसप्तमी। कस्कादिगणे इणः परस्य विसर्गस्य सत्वं स्यादित्यर्थः। सोऽपदादावित्यतः स इति प्रथमान्तमनुवर्तते। कस्कादिष्वनिणः परस्य विसर्गस्य सत्वं स्यादित्यर्थः। तदेवं वाक्यद्वयं सम्पद्यते। कस्कादिषु तथाविधानामेव कृतषत्वसत्वानां निर्देशादयं विषयविभागः। ><क><पयोरपवाद इति। ><क><पयोरित्युपलक्षणं कुप्वोरिति विहितविसर्गस्यापि। अन्यस्य तु स इति। प्रकृते विसर्गस्य इणः परत्वाऽभावान्न षत्वं, किन्तु सत्वमित्यर्थः। काँस्कानिति। अनुनासिकपक्षे रूपम्। कांस्कानिति। अनुस्वारपक्षे रूपम्। अथ कस्कादिगणं पठति--कस्क इत्यादिना। वाप्सायां द्वित्वे पूर्वखण्डेऽकारात्परस्य विसर्गस्य सत्वम्। "कः कोऽत्र भोः" इति प्रयोगे तु संहिताविरहात्सत्वाऽभावः, "कस्कादिषु चे"त्यस्य "तयोय्र्यावाचि संहिताया"मिति संहिताधिकारस्थात्वादित्याहुः। कोतस्कुत इति। वीप्सायां द्विर्वचने कुतः-कुत आगत इत्यर्थे तत आगत इत्यण्। "अव्ययानां भमात्रे टिलोपः"। अत व निपातना"दव्ययात्यवि"ति न। सर्पिष्कुण्डिकेति। अत्र इणः परत्वात्षत्वम्। एवं धुनिष्कपालं, चतुष्कपालमित्यत्रापि। ननु कस्कादिगणे कांस्कानित्यत्र सत्वसिद्धेः संपुङ्कानामित्यत्र कान्ग्रहणं न कर्तव्यमिति भावः।

तत्त्व-बोधिनी
कस्कादिषु च ११६, ८।३।४८

कस्कादिषु च। अत्र "सौपदादौ" इत्यतः स इति, "इणः षः" इति सूत्रं चानुवर्तते, तदाह-एष्विण उत्तकस्येत्यादि। कौतस्कुत इति। कुतः कुत आगत इत्यर्थे अव्ययात्त्यपि प्राप्ते गणपाठसामथ्र्यादणित्याहुः। "अव्ययानां भमात्रे" इति वक्ष्यमाणेनाऽत्र टिलोपः। सर्पिंष्कुण्टिकेति। "नित्यं समासे" इत्येव सिद्धे इह पाठस्य प्रयोजनमसमासे व्यपेक्षाविरहेऽपि षत्वार्थमित्यादि वक्ष्यति।