पूर्वम्: ८।३।११
अनन्तरम्: ८।३।१३
 
सूत्रम्
कानाम्रेडिते॥ ८।३।१२
काशिका-वृत्तिः
कानाम्रेडिते ८।३।१२

कानित्येतस्य नकार्स्य रुः भवति आम्रेडिते परतः। कांस्कानामन्त्रयते। कांस्कान् भोजयति। अस्य कस्कदिषु पाठो द्रष्टव्यः। तेन कुप्वोः ẖकḫपौ च ८।३।३७ इति न भवति। समः सुटि ८।३।५ इत्यतो वा सकारो ऽनुवर्तते, स एव अत्र विधीयते। पूर्वेषु योगेषु सम्बन्धावृत्त्या गतस्य रोः अत्र अनभिसम्बन्धः। आम्रेडिते इति किम्? कान् कान् पश्यति। एको ऽत्र कुत्सायाम्।
लघु-सिद्धान्त-कौमुदी
कानाम्रेडिते १००, ८।३।१२

कान्नकारस्य रुः स्यादाम्रेडिते। कांस्कान्, कांस्कान्॥
न्यासः
कानाम्रेडिते। , ८।३।१२

"कांस्कान्()" इति। किमः शसि "किमः कः" ७।२।१०३ इति कत्वम्(), प्रथमयोः पूर्वसवर्णः" ६।१।९८ इति दीर्घः, "तस्माच्छसो नः पुंसि" ६।१।९९ इति सकारस्य नकारः, वीप्सायां द्विर्वचनम्(), रुत्वम्? विसर्जनीयः, तसय "विसर्जनीयस्य सः" ८।३।३४ इति सः। कथं पुनरत्र सकारः, यावता "कुप्वोः क पौ च" (८।३।३७) इति विसर्जनोयजिह्वामूलीयाभ्यां भवितव्यम्()? अत आह--"अस्य" इत्यादि। तत्र यद्यपि न पठ()ते, तथापि भवत्येवानिष्टप्रसङ्ग इति दर्शयितुमाह--"समः सुटि" इत्यादि। यदि सकारोऽत्रानुवर्त्तिष्यते, पूर्वयोगेऽपि सर्वत्रैतस्मादनुवत्र्तमानात्? सकारः प्रसज्येत? इत्याह--"पूर्वयोगेषु" इत्यादि। पूर्वयोगेषु हि "समः सुटि" ८।३।५ इति स्वेन सम्बन्धिना समा सुटा च सम्बद्धस्यैव तस्यानुवृत्तिः, ततो न तस्य सम्बन्ध्यन्तरेणा सम्बन्धो भवति। कान्? कानिति वक्तव्ये, आम्रेडितग्रहणम्()--यत्र द्विर्वचनं तत्र यथा स्यात्() तेनेह न भवति--कान्? कान् पश्यतीति। एकोऽत्र किं शब्दः प्रश्ने, द्वितीयस्तु कुत्सायाम्()। कान्? कुत्सितान्? पश्यतीत्यर्थः॥
बाल-मनोरमा
कानाम्रेडिते १४२, ८।३।१२

कानाम्रेडिते। "का"निति द्वितीयान्तशब्दस्वरूपपरं षष्ठ()न्तम्। षष्ठ्याः सौत्रो लुक्। नलोपाभावोऽपि सौत्र एव। अलोऽन्त्यपरिभाषया कान्शब्दान्तस्येति लभ्यते। "रु" इत्यनुवर्तते, तदाह--कान्नकारस्येत्यादिना। संपुंसानामिति। "कान्" इत्यस्य वीप्सायां द्विर्वचने कान्-कान् इति स्थिते प्रथमनकारस्य रुत्वेऽनुनासिकानुस्वारविकल्पः। रेफस्य विसर्गः। तस्य "विसर्जनीयस्य स" इति सत्वं बाधित्वा "कुप्वो"रिति प्राप्तौ "संपुंकाना"मिति सत्वमित्यर्थः। वस्तुतस्तु "संपुंकाना"मिति वार्तिके कानिति निष्फलमित्याह--यद्वेति।

तत्त्व-बोधिनी
कानाम्रेडिते ११५, ८।३।१२

कानाम्रेडिते। "कान्कान्" इति वाच्ये आंम्रेडितग्रहणं यत्र दिं()वरुक्तिस्तत्रैव यथा स्यात्। इह मा भूत्--"कान् कान् पश्यसी"ति। अत्र एकः किंशब्दः प्रश्ने। द्वितीयः क्षेपे। कान् कुत्सितान् पश्यसीत्यर्थः। वार्तिके कान्ग्रहणाऽभावेऽपि सत्वं सिध्यतीत्याशयेनाह-यद्वेति। संपुमोस्तु वार्तिकेनैव सत्वम्। कस्कादिषु संस्कर्ता संसकरिष्यति पुंस्कोकिलः पुंस्काम इत्यादिबहूनां पाठे गौरवात्। कस्कादिषु "संपुंका"निति पठित्वा सर्वमपि वार्तिकं त्यक्तुमशक्यं "पुस्कोकिल" इत्यादाविणः परत्वेन विसर्गस्य षत्वप्रसङ्गात्। किं तु कान्ग्रहणमिव सम्()ग्रहणं वार्तिके त्यक्तुं शक्यमित्यम्ये।