पूर्वम्: ८।३।७०
अनन्तरम्: ८।३।७२
 
सूत्रम्
सिवादीनां वाऽड्व्यवायेऽपि॥ ८।३।७१
काशिका-वृत्तिः
सिवादीनां वा अड्व्यवाये ऽपि ८।३।७१

अनन्तरसूत्रे सिवुसहसुट्स्तुस्वञ्जाम् इति सिवादयः। सिवादीनाम् अड्व्यवाये ऽपि परिनिविभ्यः उत्तरस्य सकारस्य वा मूर्धन्यो भवति। तथा चिअवोदाहृतम्।
न्यासः
सिवादीनां वाड्व्यवायेऽपि। , ८।३।७१

सिवादयः प्रत्यासत्तेः "सिवुसहसुट्स्तुस्वञ्जाम्()" ८।३।७० इति पूर्वसूत्र एव सन्निनिष्टा गृह्रन्ते, न तु गणसन्निविष्टाः स्तुस्वञ्जोः "प्राक्सितादड्व्यवाये" ८।३।६३ इति प्राप्ते, शेषाणामप्राप्ते विभाषेयमारभ्यते॥
बाल-मनोरमा
सिवादीनां वाऽड्?व्यवायेऽपि १९६, ८।३।७१

सिवादीनां। "परिनिविभ्य" इति सूत्रादुत्तरमिदं सूत्रम्। तदाह--परिनिविभ्यः परेषामिति। "सिवुसहसुट्स्तुस्वञ्जा"मिति शेषः। रमु इति। नाऽयमुदिदिति माधवः। केचित्तु उदितं मत्वा "उदितो वे"ति क्त्वायामिड्विकल्पमिच्छन्ति। अनिट्कोऽयम्। लिटि क्रादिनियमादिट्। तदाह--रेमिषे इति। अथ कसन्ता इति। "कस गतौ" इत्येतत्पर्यन्ता इत्यर्थः। षद्लृधातुः षोपदेशोऽनिट्कश्च।

तत्त्व-बोधिनी
सिवादीनां वाऽड्व्यवायेऽपि। १६९, ८।३।७१

सिवादीनां। सिवुसहसुट्स्तुस्वञ्जः सिवादयः। पर्यषीव्यत्। पर्यसीव्यत्। पर्यष्करोत्। न्यष्टौत्। न्यस्तौत्। व्यष्वजत्। व्यस्वजत्। रम क्रीडायाम्। अमुमुदितं मत्वा रन्त्वा रमित्वेति केचिदुदाजह्युस्तन्माधवादयो न सहन्ते। तथा च क्त्वायां रन्त्वेत्येव साधु। रेमिषे इति। क्रादिनियमादिट्। पचाद्यचि टाप्। रमा। घञि तु -- रामः। अमन्तत्वेन मित्त्वाण्णौ ह्यत्वः। रमयति। षद्लृ। विशरणमवयवानां विश्लेषः। अवसादनं-- नाशः।