पूर्वम्: ८।३।६९
अनन्तरम्: ८।३।७१
 
सूत्रम्
परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्॥ ८।३।७०
काशिका-वृत्तिः
परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् ८।३।७०

परि नि वि इत्येतेभ्याः उपसर्गेभ्यः उत्तरेषाम् सेव सित सय सिवु सह सुट् स्तु स्वञ्ज इत्येतेषाम् सकारस्य मूर्धन्य आदेशः भवति। परिषेवते। निषेवते। विषेवते। पर्यषेवत। न्यषेवत। व्यषेवत। परिषिषेविषते। निषिषेविषते। विषिषेविषते। सित परिषितः। निषितः। विषितः। सय परिषयः। निषयः। विषयः। सिव् परिषीव्यति। निषीव्यति। विषीव्यति। पर्यषीव्यत्। न्यषीव्यत्। व्यषीव्यत्। पर्यसीव्यत्। न्यसीव्यत्। व्यसीव्यत्। सह परिषहते। निषहते। विषहते। पर्यषहत। न्यषहत। व्यषहत। पर्यसहत। न्यसहत। व्यसहत। सुट् परिष्करोति। पर्यष्करोत्। पर्यस्करोत्। स्तु परिष्टौति। निष्टौति। विष्टौति। पर्यष्टौत्। न्यष्टौत्। व्यष्टौत्। पर्यस्तौत्। न्यस्तौत्। व्यस्तौत्। स्वञ्ज दंशसञ्जस्वञ्जाम् इति नलोपः। परिष्वजते। निष्वजते। विष्वजते। पर्यष्वजत, पर्यस्वजत। पूर्वेण एव सिद्धे स्तुस्वञ्जिग्रहणम् उत्तरार्थम्, अड्व्यवाये विभाषा यथा स्यात्।
न्यासः
परिनिदिभ्यः सेवसितसयसिबुसहसुट्स्तुस्वञ्जाम्?। , ८।३।७०

"षेवृ सेवृ सेवने" [नास्ति धातुपाठे] (धा।पा।५०१) इति भ्वादावात्मनेपदिनौ पठ()एते। योऽत्र वोपदेशस्तस्य "सात्पदाद्योः" ८।३।११३ इति प्रतिषेधे प्राप्ते, इतरस्य त्वप्राप्त एव षत्वे वचनम्()। "सित" इति। "षिञ्? बन्धने" (धा।पा।१२४८) इत्येतस्य पूर्ववत्? प्रतिषेधे प्राप्ते वचनम्()। अपरे तु स्यतेरपि ग्रहणमिच्छन्ति, तस्यापि क्ते "द्यतिस्यति" ७।४।४० इत्यादिनेत्त्वे कृते सित इति रूपम्()। किमर्थं पुनस्तस्य ग्रहणम्(), यावता "उपसर्गात् सुनोति" (८।३।६५) इत्यादिना सिद्धमेव? नियमार्थम्()--परिनिविभ्य एवोपसर्गेभ्यो यथा स्यात्(), अन्येभ्यो मा भूदिति। "सय" इति। सुनोतेः "एरच्()" ३।३।५६ इत्यजन्तस्य ग्रहणमन्यप्रत्ययान्तनिवृत्त्यर्थम्()। "सिवु" इति। "षिवु तन्तुसन्ताने" (धा।पा।११०८) पूर्ववत्? प्रतिषेधे प्राप्तेऽस्यग्रहणम्()। "सह"[नास्ति--प्रांउ।पाठे] इति। "षह मर्षणे" (धा।पा।८५२)। "सुट्()" इति। "सुट्? कात्? पूर्वः" ६।१।१३१ सुडागमः, [रुडागमः--कांउ।पाठः] तस्यानादेशसकारत्वादप्राप्त एव षत्व उपादानम्()। स्तुस्वञ्जोः "उपसर्गात्? सुनोति" ८।३।६५ इत्यादिनैव सिद्ध उत्तरसूत्रेणाड्व्यवायेऽपि विकल्पो यता स्यादिति ग्रहणम्()। "परिषोध्यति" इति। "हलि च" ८।२।७७ इति दीर्घः। "परिष्करोति" इति। "सम्पर्युपेभ्यः" ६।१।१३२ इत्यादिना सुट्()॥
बाल-मनोरमा
परिनिविभ्यः सेवसितसयसिवुसहसुटस्तुस्वञ्जाम् ११९, ८।३।७०

परिनिविभ्यः। सेवेत्यकार उच्चारणार्थः। "षेवृ सेवाया"मिति धातोग्र्रहणम्। परिषेवते। निषेवते। विषेवते। सितेत्यनेन षिञ् बन्धन इति क्तान्तस्य ग्रहणम्। अस्यैव धातोरेरजन्तो वा पचाद्यजन्तो वा सयशब्दः। विषितः। विषयः। षिवु तन्तुसन्ताने। परिषीव्यति। षह मर्षणे। परिषहते। सुट् आगमः। परिष्करोति। स्तुस्वञ्जो"रुपसर्गात्सुनोती"त्येव सिद्धे "सिवादीनां वे"ति विकल्पार्थं पुनर्वचनम्।

तत्त्व-बोधिनी
परिनिविभ्यः सेवसितसयसिवुसहसुट्?स्तुस्वञ्जाम् ९४, ८।३।७०

परिनिवभ्यः। सेवेत्यत्र अकार उच्चारणार्थः। न च यङ्लुग्निवृत्तये शपा निर्देश एवास्त्विति शङ्क्यं, वकारान्तानामूठ्()भाविनां यङ्()लुङ् नास्तीति वक्ष्यमाणत्वात्। "षेवृ सेवायाम्"। परिषेवते। "षिञ् बन्धने"। क्तान्तः सितशब्दः। एरजन्तः पचाद्यजन्तो वा सयशब्दः। विषितः। विषयः। प्रत्ययविशिष्टग्रहणं किम्?। विसिनोति। "षिवु तन्तुसन्ताने"। परिषीव्यति। "षह मर्षणे" परिषहते। सुट आगमः। परिष्करोति। [विष्करोति]। स्तुस्वञ्ज्योः "उपसर्गात्सुनोती"त्येव सिद्धे परिनिविभ्यः परयोरेतयोः "सिवादीनां वाड्()व्यवायेऽपी"ति विकल्पार्थं पुनर्वचनम्।