पूर्वम्: ८।३।७६
अनन्तरम्: ८।३।७८
 
सूत्रम्
वेः स्कभ्नातेर्नित्यम्॥ ८।३।७७
काशिका-वृत्तिः
वेः स्कभ्नातेर् नित्यम् ८।३।७७

वेः उत्तरस्य स्कभ्नातेः सकारस्य नित्यं मूर्धन्यादेशो भवति। विष्कभ्नाति। विष्कम्भिता। विष्कम्भितुम्। विष्कम्भितव्यम्।
न्यासः
वे स्कभ्नातेर्नित्यम्?। , ८।३।७७

"विष्कम्भिता" इति। "स्तन्मभुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च" (३।१।८२) इति सूत्रे पाठात्? सौत्रोऽयं धातुरषोपदेशः। तत्सकारस्याप्राप्त एव मूर्धन्यो विधौयते वेरुत्तरस्य। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्()। श्तिपा निर्देशस्य पूर्ववदेव प्रयोजनम्()॥
तत्त्व-बोधिनी
वेः स्कभ्नातेर्नित्यम् ३३४, ८।३।७७

वेः स्कभ्नातेर्नित्यम्। "सिवादीनां वे"त्यतो वेति नानुवर्तते इति ध्वननार्थमिह नित्यग्रहणम्। विस्कभ्नोतीति। "स्कभ्नाते"रित्यत्र श्नाविशिष्टं रूपं न विवक्षितं किं तु धातुमात्रम्, अन्यथा विष्कम्भिता विष्कम्भितमित्यादावपि षत्वं न स्यात्। न चेष्टापत्तिः, माधवादिग्रन्थविरोधादिति भावः।