पूर्वम्: ८।३।७७
अनन्तरम्: ८।३।७९
 
सूत्रम्
इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्॥ ८।३।७८
काशिका-वृत्तिः
इणः षीध्वंलुङ्लिटां धो ऽङ्गात् ८।३।७८

मूर्धन्यः इति वर्तते। इणन्तादङ्गातुत्तरेषां षीध्वंलुङ्लिटां यो धकारः तस्य मूर्धन्यादेशो भवति। च्योषीढ्वम्, प्लोषीढ्वम्। लुङ् अच्योढ्वम्। अप्लोढ्वम्। लिट् चकृढ्वे। ववृढ्वे। इण्कोः इति वर्तमाने पुनरिण्ग्रहणं कवर्गनिवृत्त्यर्थम्। पक्षीध्वम्। यक्षीध्वम्। षीध्वंलुङ्लिटाम् इति किम्? स्तुध्वे। अस्तुध्वम्। अङ्गातिति किम्? परिवेविषीध्वम्। अर्थवद्ग्रहणादपि सिद्धम्? तत् तु नाश्रितम्।
लघु-सिद्धान्त-कौमुदी
इणः षीध्वंलुङ्लिटां धोऽङ्गात् ५१६, ८।३।७८

इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात्॥ एधाञ्चकृढ्वे। एधाञ्चक्रे। एधाञ्चकृवहे। एधाञ्चकृमहे। एधाम्बभूव। एधामास। एधिता। एधितारौ। एधितारः। एधितासे। एधितासाथे॥
न्यासः
इणः षीध्वंलुङ्लिटां धोऽङ्गात्?। , ८।३।७८

"इणन्तादङ्गादुत्तरेषाम्()" इत्यादना इणन्तमङ्गं षीष्वंलुङ्लटां विशेषणम्()। तेऽपि धकारस्येति दर्शयति। अथ धकारस्यैवेणन्तमङ्गं विशेषणं कस्मान्न विज्ञायते--इणन्तादुत्तरो यो धकार इति? एवं मन्यते--इणन्तस्याङ्गस्य धकारविशेषणत्वे सति च्योषीढवम्(), प्लोषीढ्वमित्यत्र न स्यात्(); षीशब्देन व्यवधानात्()। अथापि "येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्मात्()" (व्या।प।४६) इत्येकेन षीशब्देन व्यवधानेऽपि स्यादेव। एवमपि वचनप्रामाच्यादर्थप्रतिपत्तौ मन्दधियः प्रतिपत्तिगौरवं स्यात्()। षीध्वमादिषु विशेष्यमाणेषु नायं दोष इति तेषामेवाङ्गमिणन्तं विशेषणं युक्तम्()। गुणत्वादयुक्तमिति चेत्? स्यादेतत्()--धकारस्य कार्यित्वात्? तैश्च विशेष्यमाणत्वात्? प्राधान्यम्()। तेषां तु विपर्ययाद्गुणाभावः। तस्माद्धकारस्यैवेणन्तमङ्गं विशेषणं न्याय्यम्()। एतच्च न; यत्र हि विशेषणेन सह सम्बन्धमनुभूय गुमः प्रधानस्य भूयांसमुपकारं कर्त्तुं समर्थो भवति, तत्र विशेषणेन च सह तावदप्रधानेन प्रणमं सम्बन्धमनुभवति। पश्चात्? प्रधानेन सम्बन्धम्()। तथा च-- गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते। प्रधानस्योपकारे हि तथा भूयसि वत्र्तते॥ इति। इह चेणन्तेनाङ्गेन षीष्वमादयो विशेषिता धकारस्य विशिष्टमुपकारं प्रतिपत्तिगौरवदोषरहितं कार्यविशेषं प्रतिपादयन्ति। तस्मादिण्विशिष्टेनाङ्गन षीध्वमादय एव विशेष्यन्ते। तैश्च धकार इत्येतदेव युक्तं भवति। "च्योषीढवम्(), प्लोषोढ्वम्()" इति। च्युङ्प्लुङ्भ्यामाशिषि लिङ्(), सीयुट्(), ध्वम्(), "एकाचः" ७।२।१० इत्यादिनेटप्रतषेधः, गुणः। "अच्योढवम्(), अप्लोढवम्()" इति। "धि च" ८।२।२५ इति सकारलोपः "चकृढ्वे, ववृढ्वे" इति। कृञो वृञो लिट्()। "कुसृभृवृ" ७।२।१३ इत्यादिनेट्प्रतिषेधः। द्विर्वचनमभ्यासकार्यम्()। ननु चानुवत्र्तत एवेह "इण्कोः" ८।३।५७ इति पूर्वकमिण्ग्रहणम्()। कथं पुनरिण्ग्रहणं क्रियते? त्वाह--"इण्ग्रहणम्()" इत्यादि। तद्धि पूर्वकमिण्ग्रहणं कवर्गेण सह सम्बद्धम्(), अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्()। तस्मत्? तन्निवृत्त्यर्थं पुनरिण्ग्रहणमिह क्रियते। "पक्षीध्धम्(), यक्षीध्वम्()" यक्षीध्वम्()" इति। पचियजिभ्यामाशिषि लिङ्(), "चोः कुः" ८।२।३० इति कुत्वम्(), तस्मिन्? कृते कवर्गस्येह निवृत्तत्वान्मूर्धन्यो न भवति। "स्तुध्वम्()" इति। स्तोतेर्लोट्(), अदादित्वाच्छपो लुक्()। "अस्तुध्वम्()" इति। लङ्()। "परिवेविषोध्वम्()" इति। "विष्लृ ष्याप्तौ" (धा।पा।१०९५), विध्यादिलिङ, सीयुट्(); तस्य "जुहोत्यादिभ्यः" २।४।७५ इति श्लुः, "श्लौ" ६।१।१० इति द्विर्वचनम्(), "णिजां["निजां" इति--प्रांउ।प्राठः] त्रयाणणम्()" ७।४।७५ इत्यभ्यासस्य गुणः, "लिङः सलोपोऽनन्त्यस्य" ७।२।७९ इति सकारस्य लोपः, "लोपो व्योर्वलि" ६।१।६४ इति यकारलोपः। अत्र धातुषकारस्य ईध्वंशब्दस्य च यः समुदायस्तदात्मकः षीध्वंशब्दोऽस्ति, न त्वसाविणन्तावङ्गादुत्तरः। तथा हि--वेविषित्यस्याङ्गसंज्ञा, न तु वेषीत्येतावान्मात्रास्य षकारात्पूर्वभागस्य। "अर्थवद्ग्रहणादप्येतत्? सिद्धम्()" ["एतत्()"--नास्ति काशिकायाम्()] इति। चोदकस्यैतद्वचनम्()। मृह्रतेऽनेनेति ग्रहणम्(), अर्थयतो ग्रहणमर्थवद्ग्रहणम्()। तत्पुनः "अर्थवद्ग्रहणे नानर्थकस्य" (व्या।प।१) इति परिभाषासूत्रम्()। ततोऽपि परिवेविषीध्वमित्येतत्? सिद्धम्()। अर्थवद्ग्रहणपरिभाषया (व्या।प।१) अर्थवत एव षोध्वंशब्दस्य ग्रहणे सत्यस्यैव ढत्वेन भवितव्यम्()। न चे ह षीध्र्वशब्दोऽर्थवान्(), किं तर्हि? तदवयव ईध्र्वशब्दः; तत्किमेतन्निवृत्त्यर्थेनाङ्गग्रहणेनेत्यभिप्रायः। अत्रोत्तरमाह--"एतत्तु नाश्रितम्()" इति। एतदिति "अर्थवद्ग्रहणे नानर्थकस्य" (व्या।प।१) इति भाषावचनम्()। अथ वा--गृहीतिः=ग्रहणम्(), अर्थवतो ग्रहणमिति षष्ठीसमासः। अतोऽप्येतत्? सिद्धमितीह पूर्वक एवाभिप्रायः। "एतत्तु नाश्रितम्()" [तत्तु नाश्रितम्()--काशिका] इत्युत्तरम्()। एतदर्धवतो ग्रहणमिति नाश्रतम्; अर्थवद्ग्रहणपरिभाषाया (व्या।प।१) अनाश्रयणात्()। तदनाश्रयणं तु प्रतिपत्तिगौरवदोषपरिहाराय। सूत्रानुपात्तवचनाश्रयेण ह्रभीष्टमर्व प्रतिपद्यमानस्य मन्वधियः प्रतिपत्तुः प्रतिपत्तिगौरवं स्यात्()। इह त्वङ्गग्रहणे क्रियमाणे सुखत एवाभिमतोऽर्थः प्रतीयते। लिङ्ग्रहण एव कत्र्तव्ये षीध्वंग्रहणमस्य रूपस्य यो धकारस्तस्य यता स्यात्()। तेनायीध्वम्(), स्तुवीध्वमित्यत्र न भवति॥
बाल-मनोरमा
इणः षीध्वंलुङ्?लिटां धोऽङ्गात् ९३, ८।३।७८

इणः षीध्वं। षीध्वं लुङ्लिट् एषां द्वन्द्वः। "धः" इति षष्ठ()एकवचनम्। "इण" इत्यङ्गविशेषणम्। तदन्तविधिः। "अपदान्तस्य मूर्धन्य" इत्यधिकृतं। तदाह--इणन्तादित्यादिना। धकारस्य ढकारो मूर्धन्यः, घोषसंवारनादमहाप्राणप्रयत्नसाम्यात्। तदाह--एधांचकृञढ्व इति। उत्तमपुरुषैकवचने इटि एत्वे पूर्ववत् द्वित्वादौ कृते रूपमाह-- एधांचक्रि इति। एधांचकृवह इति। लिटो वहिभावे एत्वे द्वित्वादि पूर्ववत्। एवं लोटि महिभावे द्वित्वादि पूर्ववत्। सर्वत्राऽसंयोगाल्लिट्कदिति कित्त्वाद्गुणाऽभावः। अथ भूधातोर्लिडन्तस्यानुप्रयोगे उदाहरति-- एधांबभूवेति। एधाञ्चक्र इत्यनेन समानार्थकम्, अनुप्रयुज्यमानस्य भूधातोः क्रियासामान्यार्थकत्वात्। नन्वस्तेरनुप्रयोगे लिडादेशस्याद्र्धधातुकत्वादस्तेर्भूरित्याद्र्धधातुके विहितो भूभावुः कुतो न स्यादित्यत आह--अनुप्रयोगेति। कृञ्चानुप्रयुज्यत इत्यत्र प्रत्याहारमाश्रित्य कृभ्वस्तीनामनुप्रयोगविधिसामथ्र्यादस्धातोर्भूभावो नेत्यर्थः। तदेवोपपादयति-- अन्यथेति। अनुप्रज्यमानस्याऽस्तेर्भूभावाभ्युपमे कृञ्चानुप्रयुज्यत इत्यनुप्रयोगविदौ "क्रस्चानुप्रयुज्यते" इति वा, "कृभु चानुप्रयुज्यते" इति वा ब्राऊयात्। तावता एधांबभूवेति सिद्धेरित्यर्थः। यद्यपि "कृ"ञित्युतक्त्वौ लाघवमस्ति तथापि एकस्यैव भवतेरधिकस्य लाभाय कृञिति प्रत्याहारक्लेशो न कर्तव्य इति भाव। अत एवाऽत उत्सार्वधातुक इति सूत्रभाष्येऽनुप्रयोगे भूभावेन अस्तेरबाधनमिति भाष्यं सङ्गच्छते।

तत्त्व-बोधिनी
इणः षीध्वंलुङ्लिटां धोऽङ्गात् ७२, ८।३।७८

"इण्को"रित्यधिकारेऽपि पुनरिण्ग्रहणं कवर्गात्परस्य माभूदित्येतदर्थम्। तेनेहन न- पक्षीध्वम्। अङ्गात्परेषामिति। "विहिताना"मित्युक्तौ तु दाञो लुङि अदिड्ढ्वमित्यत्राऽव्याप्तिः स्यात्, लिहदुहनहां तु ढत्वघत्वधत्वेषु लिक्षीध्वं धुक्षीध्वं नत्सीध्वमित्यत्रातिव्याप्तिश्च स्यादिति बोध्यम्। अङ्गात् किम्?। वेविषीध्वम्। यद्यप्यर्थवतः षीध्वमित्यस्य ग्रहणात्कृषीढ्वमित्यादावेव भवेन्नत्वत्र, तथाप्यर्थवद्ग्रहमपरिभाषा क्वचिन्न प्रवर्तत इति ज्ञापनार्थमिदमुक्तम्। तेन "अनिनस्मन्ग्रहणानी"ति सिद्धम्। एधांबभूवेत्यादि। "आम्प्रत्ययव"दिति सूत्रे कृञ्ग्रहणादनुप्रयोगान्तरे तङ् नेति "शेषात्कर्तरी"ति परस्मैपदमेव, भावकर्मणोस्तु स्यादेव-- "एधांबभूवे ईक्षांबभूवे इति। अस्तेस्तु भावकर्मणोस्तङि कृते एशि इटि च रूपे विप्रतिपद्येते। तथाहि-- उभयत्रापि "ह एती"ति हादेशे कृते एधामाहे ईक्षामाहे इति केचित्। तासिसाहचर्यादिट()एव हत्वं न त्वेशीत्यन्ये। तत्साहचर्यादेव सार्वधातुक एव एति हत्वम्। तथा च कर्मव्यतिहारे तङि व्यतिहे इत्यत्रैव भवति न तूक्तद्वयेऽपि। तेन एधामासे ईक्षामासे इत्येव रूपमित्यपरे। कृभ्वितीति। यद्यपि कृञित्युक्तौ लाघवमस्ति, तथापि धातुद्वयस्यैव लाभार्थं प्रत्याहाराश्रयणे क्लेश इति भावः।