पूर्वम्: ८।३।८८
अनन्तरम्: ८।३।९०
 
सूत्रम्
निनदीभ्यां स्नातेः कौशले॥ ८।३।८९
काशिका-वृत्तिः
निनदीभ्यां स्नातेः कौशले ८।३।८९

नि नदी इत्येताभ्याम् उत्तरस्य स्नातिसकारस्य मूर्ध्न्यादेशो भवति कौशले गम्यमाने। निष्णातः कटकरणे। निष्णातो रज्जुवर्तते। नद्यां स्नाति इति नदीष्णः। सुपि स्थः ३।२।४ इत्यत्र सुपि इति योगविभागात् कप्रत्ययः। कौशले इति किम्? निस्नातः। नद्यां स्नातः नदीस्नातः इति।
न्यासः
निनदीभ्यां स्नातेः कौशले। , ८।३।८९

"ष्णा शौचे" (धा।पा।१०५२)। अस्य पूर्ववत्? षत्वप्रतिषेधे प्राप्तेऽस्यारम्भः। कौशलम्()=नैपुण्यम्()। "निष्णातः कढकरणे" इति। तत्र कुशल इति गम्यते। "नदीष्णः" इत्यत्रापि नदीस्नाने कुशल इति। "आतो लोप इटि च" ६।४।६४ इत्याकारलोपः, उपपदसमासः। "नदीस्नातः" इत्यत्रापि "सप्तमी" (२।१।४०) इति योगविभागात्? समासः॥
बाल-मनोरमा
निनदीभ्यां स्नातेः कौशले ८८८, ८।३।८९

निनदीभ्यां। सस्य षः स्यादिति। "सहे साडः सः" इत्यतः स इति षष्ठ()न्तमनुवर्तते, "अपदान्तस्य मूद्र्धन्यः" इत्यप्यधिकृतमिति भावः। निष्णात इति। कुशल इत्यर्थः। नदीष्ण इति। नद्यां कुशलं स्नातीति विग्रहः। सुपीति क इति। "सुपि स्थः" इत्यत्र "सुपी"ति योगविभागात्क इत्यर्थः।