पूर्वम्: ८।३।८७
अनन्तरम्: ८।३।८९
 
सूत्रम्
सुविनिर्दुर्भ्यः सुपिसूतिसमाः॥ ८।३।८८
काशिका-वृत्तिः
सुविनिर्दुर्भ्यः सुपिसूतिसमाः ८।३।८८

सु वि निर् दुरित्येतेभ्यः उत्तरस्य सुपि सूति सम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति। सुपि इति स्वपिः कृतसम्प्रसारणो गृह्यते। सुषुप्तः। विषुप्तः। निःषुप्तः। दुःषुप्तः। सूति इति स्वरूपग्रहणम्। सुषूतिः। विषूतिः। निःषूतिः। दुःषूतिः। सम सुषमम्। विषमम्। निःषमम्। दुःषमम्। सुपेः षत्वं स्वपेर्मा भूद् विसुष्वापेति केन न। हलादिशेषान्न सुपिरिष्टं पूर्वं प्रसारणम्। स्थादीनां नियमो नात्र प्राक् सितादुत्तरः सुपिः। अनर्थके विषुषुपुः सुपिभूतो द्विरुच्यते। पूर्वत्रासिद्धीयमद्विर्वचने इति कृते ष्त्वे ततो द्विर्वचनम्।
न्यासः
सुविनिर्दुभ्र्यः सुपिसूतिसमाः। , ८।३।८८

सुपिसूत्योः "सत्पदाद्योः" ८।३।११३ इति निषेधे प्राप्ते। सम इत्येतदन्युत्पुन्नं प्रातिपदिकं सर्वादिषु षठ()ते; तेनास्यादित एवाप्राप्ति षत्वमुच्यते। अथ तु"षम ष्टम अवैकल्पे" (धा।पा।८२९,८३०) इत्यस्य पचाद्यचि समशब्दो व्युत्पाद्यते, तथा च सनि तस्यापि प्रतिषेधे प्राप्त इदं वचनम्()। "सुषुप्तः" इति। "ञिष्वप्? शये" ["ष्वप"--धा।पा।] (धा।पा।१०६८), निष्ठा, वच्यादिसूत्रेण ६।१।१५ सम्प्रसारणम्(), "एकाचः" ७।२।१० इतीट्()प्रतिषेधः। "सुषूतिः" इति। सूतेः सूयतेर्वा "स्त्रियां क्तित्()" ३।३।९४। सूतीति स्वरूपग्रहणम्()। यत्रास्यैतद्रूपं नास्ति, तत्र न भवति--सुसूनम्(), विसूतमिति। कथं पुनज्र्ञायते--स्वरूपग्रहणमेतत्(), न पुनः सूत्र्लुग्विकरणसय ग्रहणमिति? भवति तस्यापि "इविश्तपौ धातुनिर्देशे" (वा ३१९) इति श्तिपि कृते सूतिरित्येष निर्दसः? समशब्देन साहचर्यात्? त य हीह स्यरूपं गृह्रत इति। यद्यपि सु पना धातुना साहचर्याद्धातोरपि ग्रहणं युक्तम्(), तथापि शब्दपरविप्रतिषेधेन शब्दपरं यत्साहचर्यं तद्बलीय इति समशब्देनैव माहचर्यात स्वरूपमेव गृह्रते, न सुपिना धातुना साहचर्याद्धातुः। अथ किमर्थं सुपेः कृतसम्प्रसारणस्य षत्वमुच्यते? इत्यत आह--"सुपेः षत्वं स्वपेर्मा भूत्()" इत्यादि। सुस्वापः, विस्वपनम्(), निस्विपनम्(), दुःखपनमित्यत्राकृतसम्प्रसारणस्य स्वपेः षत्वं मा भूदित्येवमर्थ स्वपेः कृतसम्प्रसारणस्य षत्वमुच्यते। यद्येवम्(), विसुष्वापेति केन न" इति? स्वपेर्लिट्(), तिप्(), णल्(), द्विर्वचनम्(), "लिट()भ्यासस्योभयेषाम्()" ६।१।१६ इति सम्प्रसारणम्()। कृतसम्प्रसारणस्य स्वपेरभ्यासस्येति केन हेतुना षत्वं न भवति? नास्त्येव स हेतुयेन हेतुना विसुष्वापेत्यत्र न भविष्यतीत्यभिप्रायः। परस्य तु सकारस्य "आदेशप्रत्यययोः" ८।३।५९ इत्यनेन षत्वं भवत्येव, न तद्धिषयेयं चिन्ता। "हलादिशेषान्न सुपिः" इति। एतेन येन हेतुना षत्वमत्र न भवति तं दर्शयति। "लिट()भ्यासस्योभयेषाम्()" (३।१।१७) इत्येतस्माद्धि सम्प्रसारणात्परत्वाद्धलादिशेषे कृते यद्यपि पश्चात्? सम्प्रसारणं क्रियते, तथापि सुप इति रूपं न भवति; पकारस्यारणात्परत्वाद्धलादशेषे कृते यद्यपि पश्चात्? सम्प्रसारणं क्रियते, तथापि सुप्? इति रूपंनि भवति; पकारस्याभावात्()। तस्मात्? षत्वं न भविष्यतीत्यभिप्रायः। तेन सुप सुप इत्यस्य रूपत्याभावः षत्वाभावे हेतुरुक्तः। पूर्वपक्षवादिना तु प्राक्? सम्प्रसारणे कृते पश्चाद्धलादिशेषेण पकारो निवृत्त इति मन्यमानेन देशितम्()। ननु पश्चादपि पकारस्य निवृत्तिः, नैवायं सुपिर्भवति, पकाराभावात्(), तत्? किमिति देशितम्()? "एकदेशविकृतस्यानन्य"त्वात्? (व्या।प।१६) सुपिरेवायमित्यभिप्रायः। यदा तु परत्वाद्धलादिशेषे कृते सम्प्रसारणं भवति, तदैकदेशविकृतस्यानन्यत्वे सुपिरयं न भवति; न हि तदा सुपेरेव विकारः, किं तर्हि? स्वपेः। अत आह--"इष्ट पूर्वं सम्प्रसारणम्()" इति। हलादिशेषादिं पूर्वं सम्प्रसारणमेवेष्यते। तथा ह्रुभयेषां ग्रहणं तत्रैवमर्थं कृतम्()--परमपि हलादिशेषं बाधित्वा पूर्वं सम्प्रसारणमेव यथा स्यादिति। तस्मद्धलादिशेषात्पूर्वमभ्यासस्य सम्प्रसारणेणैव भवितव्यमित्युक्तम्()--हलादिशेषान्न सुपिरिति। ततश्च "विसुष्वापेति केन न" इत्येतद्देश्यं तदवस्थमेव। एवं तर्हि "स्थादिष्वभ्यासेन चाभ्यासस्य" ८।३।६४ इति योऽयं नियमः स्थादीनमेवाभ्यासस्य प्रवत्र्तते, नान्येषामित्येतस्मन्नियमात्? "विसुष्वाप" इत्यत्राभ्यासस्य षत्वं न भवतीत्यत आह--"स्थादीनाम्()" इत्यादि। स्थादिनिमित्तको नियमः स्थादिनियमः स्थादिभिव्र्यपदिश्यते; स्थादिनिमित्तकत्वं तु नियमस्य तानुपादाय विधानात्()। स्थादीनां यो नियमः सोऽत्र न प्रवत्र्तते। कथं "विसुष्वाप" इत्यत्राभ्यासस्य षत्वं न भविष्यति? कस्मात्? पुनः स्थादिनियमोऽत्र न प्रवत्र्तते? इत्यत आह--"प्राक्? सितात्()" इति। तेषु पुनर्नियमविधानादिति शेषः। "स्थादिष्वभ्यासेन चाभ्यासस्य। ८।३।६४ इत्यत्र "प्राक्सितात्()" ८।३।६३ इति वत्र्तते। तेन सेवासत" ८।३।७० इत्यत्र सितसंशब्दनाद्ये प्राग्ब्यवस्थिताः "सुनोतिसुवतिस्यतिस्तोभतिप्रभृतयस्तेष्वेवागं नियमः, अतस्तेषामेवाभ्यासस्य षत्वं व्यावत्र्तयति, नान्येषामिति दर्शयति सिद्धान्तवादिमस्तु सामान्येन नियम इत्यभि प्रायः। स्यादेतत्()--सुपिरपि प्राक्सितादेव व्यवस्थितः; तेनात्रापि नियमः प्रवर्त्तिष्यते? इत्यत आह--उत्तरः सुयिः" इति। सितादित्येतदपेक्षते। सितशब्दादुत्तरः सुपिः पठ()ते, तत्? कुतस्तत्र नियमस्य प्रवृत्तिः अतो नियमेन तदभ्यासस्य षत्वं न व्यावर्त्त्यत इति "विसुष्वापेति केन न" इत्यविकलं देश्यमेव। एवं तर्हि "अर्थवद्ग्रहणे नानर्थकस्य" (व्या।प।१) इत्यर्थवेतः सुपेग्र्रहणात्(), इह च तस्यानर्थकत्वात्? षत्वं न भविष्यति। न ह्रत्र सुपिरर्थवान्()। तथा हि--यदा तादत्? स्थाने द्विर्वचनं तदा समुदाय एवार्थवान्? अवयवस्त्वनर्थक एव। यदा तु द्विष्प्रयोगो द्विर्वचनम्(), तदापि शब्दस्यावृत्तिः, नार्थस्य, तेन कृतेऽपि द्विर्वचनं समुदायस्यैवार्थवत्त्वम्(), न तु केवलायाः प्रकृतेः, नापि केवलाभ्यासस्येत्यत आह--"अनर्थके विषुषुपुः" इति। कथं षत्वमिति वाक्यशेषः। यद्यर्थवतः सुपेग्र्रहणात्? "विसुध्वाप" इत्यत्र षत्वं न भवति, एवं सति "विषुषुपुः" इत्यत्र कथं षत्वं न भविष्यति, अत्रापि ह्रनर्थकत्वान्नैव षत्वेन भवितव्यम्(), यथा विसुष्वापेत्यत्र? इत्यत्र आह सुपिभूतो द्विरुच्यते" ["षुपि"--प्रांउ।पाठः] इति। पुपीत्येतद्रूपमापन्नोद्विरुच्यत इत्यर्थः। स्वपेर्लिट्(), उस्(), द्विर्वचनम्(), "असंयोगाल्लिट्? कित्? १।२।५ इति कित्त्वम्(), वच्यादिसूत्रेण ६।१।१५ सम्प्रसारणम। अनेन षत्वम्()। विषुप्()ुस इति स्थित आन्तरतम्यात्? षुप्? इत्येतस्य द्विर्वचनम्(), एवं पुपिभूते द्विरुच्यमाने विषुषुपुरित्यत्राभ्यासस्य षत्वं सिध्यति पिसुष्वापेत्यत्र षुपिभूतस्य द्विर्वचनं नास्ति; पुपिभूतस्याभावात्()। तदेवं कुतः सम्प्रसारणे हि कृते षुपिभूते भवितव्यम्()? णलः कित्त्वाभावात्? सम्प्रसारणमेव मास्ति, कुतः पुनः षत्वम्()। तस्मात्? सुपोत्येतदेव द्विरुच्यते यद्यप्युत्तरकालं सम्प्रसारणे कृते सुपीत्येवं भवति, तथाप्यनर्थकत्वात्? तस्य मूर्धन्यो न भवतीति। तदेवं यदि कृतसम्प्रसारणस्य णत्वं भवति "विसुष्वापेति केन न" इति देश्यमर्थवद्ग्रहणपरिभाषा (व्या।प।१) माश्रित्य परिह्मतम्()। ननु च द्विर्वचने कत्र्तव्ये षत्वमसिद्धम्(), तत्? किमुच्यते "षुपिभूतो द्विरुच्यते" इति? अत आह--"पूर्वत्रासिद्धीयम्()" इत्यादि।
तत्त्व-बोधिनी
सुविनिर्दुभ्र्यः सुपिसूतिसमाः २६७, ८।३।८८

सुपिसूतिसमा इति। "सूति"ति क्तिन्नन्तः। "समे"ति पचाद्यजन्तः। सुषुप्तिः। सुषूतिः। सुषमा। विषमः। अद्विर्वचन इति। तेन षत्वसहितस्य द्वित्वम्। सुपिरूपाभावादिति। "एकदेशविकृतमनन्यव"दिति तु न प्रवर्तते, तस्य स्थानिवत्सूत्रशेषत्वात्, षत्वस्य त्रैपादिकत्वेन तत्कार्यं प्रति स्थानिवत्त्वाऽभावादित्याहुः। वस्तुतस्तु "स्थानिवदादेश" इत्येनं प्रति त्रिपादी सिद्धेत्युक्तम्। तस्मादिह समाधानान्तरमूह्रमित्यन्ये।