पूर्वम्: ८।४।१२
अनन्तरम्: ८।४।१४
 
सूत्रम्
कुमति च॥ ८।४।१३
काशिका-वृत्तिः
कुमति च ८।४।१३

कवर्गवति च उत्तरपदे प्रातिपदिकान्तनुंविभक्तिषु पूर्वपदस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। वस्त्रयुगिणौ। वस्त्रयुगिणः। स्वर्गकामिणौ। वृषगामिणौ। नुमि वस्त्रयुगाणि। खरयुगाणि। विभक्तौ वस्त्रयुगेण। खरयुगेण।
न्यासः
कुमति च। , ८।४।१३

अनेकाजुत्तरपदार्थ आरम्भः। चकारः "प्रातिपदिकान्तनुम्विभक्षि च" ८।४।११ इत्यनुकर्षणार्थः। तेनोत्तरत्रानुवृत्तिर्न भवति चानुकृष्टपरिभाषया (व्या।प।७६)। "वस्त्रयुगिणौ" इति। "अत इनिठनौ" ५।२।११४ इतीनिः। "को" इति कत्र्तव्ये कुमतीति वजनमकवर्गादावपि यता स्यात्(); इतरथा हि "यस्मिन्विधिस्तदावल्ग्रहणे" (व्या।प।१२७) इति कवर्गादेरेव स्यात्()। दपन वापः, कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवापः--"अत इतिठनौ" ५।२।११४ इतीनिः। माषकुम्भवापिणावित्यत्र स्यात्(), वस्त्रयुगिणाअवित्यत्र न स्यादिति॥
बाल-मनोरमा
कुमति च १०४१, ८।४।१३

कुमति च। प्राग्वदिति। प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं मत्वं स्यादित्यर्थः। अनेकाजुत्तरपदार्थमिदम्। हरिकामिणाविति। "बहुलमाभीक्ष्ण्ये" इति णिनिः। प्रातिपदिकान्तत्वाण्णत्वम्। हरिकामाणीति। अजन्तलक्षणनुमो नित्यं णत्वम्। हरिकामेणेति। विभक्तिस्थस्योदाहरणम्।

तत्त्व-बोधिनी
कुमति च ८७१, ८।४।१३

कुमति च। अनेकाजुत्तरपदार्थ आरम्भः। "कौ" इत्येव तु न सूत्रितम्। "यस्मिन्विधि"रिति तदादिविधौ कवर्गाद्युत्तरपद एव हरिकामाणीत्यादावयं विधिः स्यान्न तु वस्त्रयुगेणेत्यादौ, तथा च लमतुबन्तनिर्देश आवश्यक इत्याह--कवर्गवतीति।