पूर्वम्: ८।४।१८
अनन्तरम्: ८।४।२०
 
सूत्रम्
अनितेरन्तः॥ ८।४।१९
काशिका-वृत्तिः
अनितेः ८।४।१९

अनितेः नकारस्य उपसर्गस्थान्निमित्तादुत्तरस्य णकारादेशो भवति। प्राणिति। पराणिति।
काशिका-वृत्तिः
अन्तः ८।४।२०

अनितेः इति वर्तते। उपसर्गस्थान्निमित्तातुत्तरस्य अनितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो भवति। हे प्राण्। हे पराण्। पदान्तस्य इति प्रतिषेधस्य अपवादो ऽयम्। अन्तश्च पदापेक्षो गृहयते। केचित् तु पूर्वसूत्रे एव एतदन्तग्रहणं सामीप्यार्थम् अभिसम्बध्नन्ति। निमित्तसमीपस्थैकवर्णव्यवहितस्य अनितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो यथा स्यात्। इह मा भूत्, पर्यनिति इति। तैर् द्वितीयम् अपि पदान्तस्य णत्वार्थम् अन्तग्रहणम् आश्रयितव्यम् एव। येषां तु पर्यणिति इति भवितव्यम् इति दर्शनम्, तेषां पूर्वसूत्रे न अर्थो ऽन्तग्रहणेन।
न्यासः
अनितेः। , ८।४।१९

"प्राणिति" इति। "()आस प्राणने" (धा।पा।१०६९), "अन च" ["च" नास्ति--धा।पा।](धा।पा।१०७०), पूर्ववच्छपो लुक्(), "रुधादिभ्यः सार्वधातुके" ७।२।७६ इतीट्()। ञनितेरिति श्तिपा निर्देशो धातुनिर्देशार्थ एव; न यङ्लुङ्()निवृत्त्यर्थः; न ह्रनितेर्यङ्प्राप्तिरस्ति, हलादित्वाभावात्()॥
न्यासः
अन्तः। , ८।४।१९

अन्तशब्दोऽयमवयवयचनो वस्त्रान्तवत्()। "हे प्राण्()" इति। क्विबन्तात्? सम्बुद्धिः, तस्य हल्ङ्यादिलोपः ६।१।६६। सम्बुद्धेरन्यत्र यो नकारः प्रातिपदिकान्तः, तस्या लोपेन भवितव्यमिति सम्बुद्ध्यन्तस्योपन्यासः। सम्बुद्धौ हि "न ङिसम्बुद्ध्योः" ८।२।८ इति प्रतिषेधान्नलोपो न भवति। ननु च पूर्वेणैवात्र णत्वं सिद्धम्(), तत्? किमर्थमिदमारभ्यते? इत्यत आह--"पदान्तस्य" इत्यादि। "पदान्तस्य" ८।४।३६ इति प्रतिषेधं वक्ष्यति। तस्यायं पुरस्तादपवाद आरभ्यते। अन्तश्च पदापेक्षया गृह्रते; तत्रैव सम्भवव्यभिचारौ स्तः। न त्वनित्यपेक्षः। व्यभिचाराभावादिति भावः। "केचित्()" इत्यादि। केचिदन्तग्रहणं पूर्ययोग एव सम्बध्नन्ति। "अनितेरन्तः" इत्येकयोगमेव कुर्वन्तीत्यर्थः। किमर्थम्()? अन्तग्रहणं सामीप्यार्थम्()। सामीप्यमर्थो यस्य तत्? तथोक्तम्()। समीपमेव सामीप्यम्(), चातुर्वण्र्यादित्वात्? स्वार्थे ध्यञ्()। तदनेनोदकान्तवत्? समीपवचनस्तैरन्तशब्दः समाश्रित इति दर्शयति। किमर्थं पुनस्त एवमन्तशब्दं सम्बध्नन्तीत्याह--"निमित्तसमीपभूतस्य" इत्यादि। यदि हि पूर्वसूत्रऽन्तशब्दः समीपवचनो न सम्बध्येत, तदेहापि स्यात्()--पर्यनितौति। तस्मात्प्रकृतस्य णत्यनिमित्तस्य समीपो य एकवर्णव्यवहितः स प्रत्यासन्नो नकारस्तस्थैव णत्वं यथा स्यात्()। पर्यनितीत्यत्र निमित्ताद्विप्रकृष्टस्य मा भूदित्येवमर्थं पूर्वसूत्रे समीपवचनमन्तशब्दं सम्बध्नन्ति। एकवर्णव्यवहितस्येत्यनेन सामीप्यमाचष्टे। अनेकवर्णव्यवहितस्य सामीप्यं नोपपद्येतेत्येतद्देश्यं नाशह्कनीयम्(); तस्यापेक्षिकत्वात्()। पर्यनितीत्यत्रैवानेकवर्णेन व्यवहितो नकराः; यणादेशे कृते सत्याकारयकाराभ्यां रेफस्य व्यवधानात्()। प्राणितीत्यत्र त्वेकादेशे कृते सत्येकेन वर्णेन व्यवहितो नकारः; निमित्तादाकारेणैव केवलेन व्यवधानात्()। यो ह्रनेकवर्णव्यवहितः, स एकमपेक्ष्य विप्रकृष्टौ भवति; इतरस्तु तमपेक्ष्य सन्निकृष्टः, सोऽप्यष्यवहितमपेक्ष्य विप्रकृष्टो भवति, भवत्येवं यद्यव्यवहितः सम्भवेत्()। स चानितेर्न सम्भवतीति न भवति तदपेक्षं विप्रकृष्टत्वम्()। ननु च "अचः परस्मिन्? पूर्वविधौ" (१।१।५७) इत्यत्र पूर्वस्माद्विधिः पूर्वविधिरिति तत्पुरुषस्याश्रयणाण्णत्वे कत्र्तव्ये सत्येकादेशस्य स्थानिवद्भावात्? प्राणितीत्यत्रानेकेन वणनापि व्यवहितो नकारः? "पूर्वत्रासिद्धीये न स्थानिवत्()" (णै।प।वृ।४८) इति वचनात्र भवति स्थानिवद्भाव इत्यदोषः। "सैः" इत्यादि। येऽत्रान्तशब्दं सामीप्यार्थमाश्रित्र्यकयोगं कुर्वन्ति, तेषां तस्य योगस्य प्राणित्यत्र सावकाशत्वात्(), हे प्राणित्यत्र "पदान्तस्य" ८।४।३६ इति प्रतिषधः प्राप्नोति। तस्मात्? तैद्वितीयमप्यन्तस्य ग्रहणमावृत्त्या तन्त्रेण न्यायेना श्रयितव्यम्(), पदान्तस्य णत्वं यथा स्यात्()। ननु येऽपि योगविभागं कुर्वन्ति, तेऽन्तशब्दगवयववचनमाश्रयन्ति। तैरपि पूर्वसूत्रे सामीप्यवाच्यन्तग्रहणमाश्रयितव्यमेव; अन्यथा हि पर्यनितीत्यत्रायि णत्वं स्यात्()? इत्यत आह--"येषां तु" इत्यादि। येषामिति योगविभागकारिणाम्()। ते ह्रनेकवर्णव्यवहितस्यापि णत्वमिच्छन्त्येव। तस्मान्नार्थस्तेषां पूर्वसूत्रेऽन्तहणेन॥
बाल-मनोरमा
अनितेः ३०८, ८।४।१९

अनितेः। "रषाभ्यां नो णः" इत्यनुवर्तते। "उपसर्गादसमासेऽपी"त्यत उपसर्गादिति। तदाह--उपसर्गस्थादिति। भिन्नपदस्थत्वादप्राप्तौ वचनम्। जक्षधातुः सेट्। वलादौ सार्वधातुकेऽपि "रुदादिभ्यः" इति सेट्।

बाल-मनोरमा
अन्तः ७९४, ८।४।१९

अन्तः। "अनिते"रिति सूत्रमनुवर्तते, "रषाभ्यां नो णः" इति च। अन्त इति षष्ठ()र्थे प्रथमा।पदस्याऽन्तो विवक्षितः। "उपसर्गादसमासेऽपी"त्यत उपसर्गादित्यनुवर्तते। तदाह-- पदान्तस्येत्यादिना। हे प्राणिति। प्रपूर्वादनेः क्विबन्तात्संबोधनैकवचनस्य हल्ङ्यादिलोपः, नस्य णः। नलोपस्तु न, "न ङिसंबुद्ध्योः" इति निषेधात्। मित्रशीरिति। मित्राणि शास्तीति विग्रहः। शासः क्विप्। "शास इदङ्हलोः" नित्युपधाया इत्त्वम्(), "र्वोरुपधायाः" इति दीर्घः। मित्रशिषावित्यादौ अपदान्त्तवान्न दीर्घः। आशासः क्वाविति। "आङः शासु इच्छाया"मित्यात्मनेपदी। तस्य "शास इदङ्हलोः" इति इत्त्वं तु न भवति, तत्र परस्मैपदिन एव शासेग्र्रहणात्। अन्यथा आशास्ते इत्यादावपि इत्त्वापत्तेः। अत "आशासःर क्वा"विति विधिः। इत्त्वोत्त्वे इति। गृ? धातोः क्विपि, ऋत इत्त्वे,रपरत्वे, सोर्लोपे, "र्वोरुपधायाः" इतिदीर्घे गीरिति रूपम्। पृ()धातोः क्विपि, "उदोष्ठ()पूर्वस्ये"ति ऋत उत्त्वे, रपरत्वे , सुलोपे, उपधादीर्घे पूरिति रूपमित्यर्थः।

तत्त्व-बोधिनी
अनितेः २६८, ८।४।१९

अनितेः। "उपसर्गादसमासेऽपी"त्यत उपसर्गादिति वर्तते, "रषाभ्या"मित्यतो "नो णः" इतिच। तदाह-- उपसर्गस्थादित्यादि।

तत्त्व-बोधिनी
अन्तः ६५९, ८।४।१९

अन्तः। अनितेरिति वर्तते, अन्तोऽत्र पदापेक्षो गृह्रते, नाऽनितेरपेक्षया, अव्यभिचारादत आह-- पदान्तस्येति।हे प्राणिति। अन प्राणने। क्विप्। "अनुनासिकस्ये"ति दीर्घः। "न ङिसंबुद्ध्यो"रिति नलोपनिषेधः। अन्यत्र तु नलोपेन भाव्यमिति संबुद्ध्यन्तमुदाह्मतम्। मित्रशीरिति। लुप्तेऽपि क्विप्प्रत्यये प्रत्ययलक्षणन्यायेन हलादिकित्प्रत्ययपरत्वमस्ति, "वर्णाश्रये नास्ति प्रत्ययलक्षण" मित्येतद्वर्णप्राधान्य एवेत्युक्तत्वादिति भावः।

* आशास इति। शासु अनुशिष्टौ। आङः शासु इच्छायाम्, आत्मनेपदी। "शास इ"दित्यादिना सिद्धे "क्वावेवु उपधाया इत्त्व" मिति नियमार्थमिदम्। तेन आशास्ते इति सिद्धमित्येके। अन्ये तु विध्यर्थमेवेदं, न नियमार्थं, प्राप्त्यभावात्। न च "शास इदङ्हलो"रिति इत्त्वस्य प्राप्तरस्तीति वाच्यं, तत्राङ्साहचर्यात्परस्मैपदिन एव सासेग्र्रहणात्। यद्यपि "सर्तिशास्ती"ति सूत्रे पृथग्योगकरणादर्तेर्लुङि आरत समारतेति पदद्वयेऽप्यङिति सिद्धान्तस्तथाप्युत्तरार्थतया परस्मैपदग्रहणानुवृत्तेरप्याकरे स्पष्टतया परस्मैपदे दृष्टो यः शासिस्तस्मात्परस्याऽङिति निष्कर्षः। तथा चाशास्ते इत्यत्र इत्त्वप्रसक्तिरेव नास्तीत्याहुः। वस्तुतस्तु "आशिषि लिङ्लोटौ" , "क्षियाशीः प्रैषेषु" इत्यादिनिर्देशेनैव सिद्धमिति नेदमपूर्वं वार्तिकम्। "इत्त्वं वाच्यटमित्यस्य इत्त्वं व्याख्येयमित्यर्थः। आशिषीत्याद्युक्त निर्देशादिति दिक्। सुम्वाविति। "ओः सुपि" इति यण्।