पूर्वम्: ८।४।१९
अनन्तरम्: ८।४।२१
 
सूत्रम्
उभौ साभ्यासस्य॥ ८।४।२०
काशिका-वृत्तिः
उभौ साभ्यासस्य ८।४।२१

साभ्यासस्य अनितेः उपसर्गस्थान् निमित्तादुत्तरस्य उभयोः नकारयोः णकार आदेशो भवति। प्रणिणिषति। प्राणिणत्। पराणिणिषति। पराणिणत्। पूर्वत्रासिद्धीयम् अद्विर्वचने इत्येतस्मिन् सति पूर्वेण एव कृतणत्वस्य द्विर्वचने कृते सिद्धम् एतदन्तरेण अपि वचनम्? एतत् तु नाश्रयितव्यम् इति सूत्रम् इदम् आरभ्यते। तेन ञौजढतिति सिद्धं भवति।
न्यासः
उभौ साभ्यासस्य। , ८।४।२०

नकारोऽयमडादोनामेकोऽपि न भवतीति। ततो द्विवचने कृते सत्यभ्यासनकारेण व्यवहितत्वादितरस्य नकारस्य न स्यात्(), इष्यते च। तस्मात्? तस्यापि यथा स्यादितीदमारम्यते। "प्राणिणिषति" इति। सम्(), इट्(), "अजादेर्द्वितीयस्य" ६।१।२ इति "सम्यङोः" ६।१।९ इत्यनेन निशब्दो द्विरुच्यते। "प्राणिणत्()" इति। ण्यन्ताल्लुङ्(), णिलोपः, तस्य "द्विर्वचनेऽचि" १।१।५८ इति स्थानिवद्भावान्निशब्दस्य द्विर्वचनम्()। "पूर्वत्रासिद्धीयम्()" इत्यादि। "पूर्वात्रासिद्धीयमद्विरवचने" (जै।प।वृ।७०) इत्येतस्मिन्नसति द्विर्वचन कत्र्तव्ये णत्वस्यासिद्धत्वात्? प्राग्द्धिर्वचनेन भवितव्यम्()। अत्रास्मिन्? सूत्रेऽसति प्रथमेन नकारेम व्यवाये द्वितीयस्य "अनितेः" ८।४।१९ इत्यनेन णत्वं न स्यादिति प्राणिणिषतीत्यादि न सिध्यति। अ()स्मस्तु "पूर्वत्रासिद्धम्()" ८।२।१ इत्यस्यापवादे सति "अनितेः" ८।४।१९ इत्यनेन परत्वाण्णत्वमेव क्रियते। ततः कृतण्त्वस्य द्विर्वचने कृते सिद्धमेवैतदन्तरेणाप्येतत्? सूत्रम्()। यद्येवम्(), किमर्थमिदमारभ्यते? इत्यत आह--"एतत्तु" इत्यादि। शक्यार्थे कृत्यः। इतिकरणो हेतौ। तु शब्दोऽयभवधारणे। यस्मात्तदपवादवचनं नैव शक्याश्रयितुम्(), तस्मात्? सूत्रमिदमारभ्यते। यदि हि तदेदाश्रीयेत,["तदेवाश्रीयते"--प्रांउ।पाठः] तदेदं सूत्रं न कत्र्तव्यं स्यात्(), ततश्चास्यापवादवचनस्यासर्वविषयता न विज्ञायते। एवमूढमाख्यदौजढदित्यत्र पूर्वत्रासिद्धस्याभावाड्ढत्वादीनमसिद्धत्वात्? "हत्()" इत्र्येतस्य द्विर्वचनं न स्यात्()। अ()स्मस्तु सूत्रे सति तस्यापवादवचनस्यासर्वविषयता विज्ञायते। तेनौजढवित्यत्र ढत्वादीनामसिद्धत्वात्? "हत्()" इत्येतस्य द्विर्वचनं भवति। अतोभाविति किमर्थम्(), यावता पूर्वस्य नकारस्य पूर्वसूत्रेणैव णत्वं सिद्धम्(), इतरस्य त्वारम्भसामथ्र्यात्()। अन्तरेणापि "उभौ" इति वचनं णकारस्य व्यवायेप्यनेन भविष्यति? एवं मन्यते--"साभ्यासस्य" इत्येतावत्युच्यमाने यथा "अजादेर्द्वितीयस्य" ६।१।२ इति द्विर्वचनमारभ्यमाणं प्रथमद्विर्वचनस्यापवादौ विज्ञायते तथेहाप्यनडादिव्यवाये द्वितीयस्य नकारस्य णत्वमारभ्यमाणं पूर्वस्यापवादो विज्ञायते। "साभ्यासस्य" इति वचनं विस्पष्टार्थम्(); उभावित्यनेनैव सिद्धत्वात्()। न ह्रनभ्यासस्यानितेरुभौ नकारौ सम्भवतः॥
बाल-मनोरमा
उभौ साभ्यासस्य ४३३, ८।४।२०

उभौ साभ्यासस्य। अनितेरित्यनुवर्तते। "अन प्राणने" इति धातोरित्यर्थः। "रषाभ्यां नो णः" इत्यधिकृतम्। "उपसर्गादसमासेऽपी"त्यत उपसर्गादित्यनुवर्तते। तदाह -- साभ्यासस्येत्यादिना। निमित्ते सतीति। उपसर्गस्थे रेफे सतीत्यर्थः। प्राणिणदिति। प्र अन् इ अ त् इति स्थिते "अनिते" रिति णत्वस्याऽसिद्धत्वान्नीत्यस्य द्वित्वे उत्तरखण्डे नकारस्याभ्यासनकारेण व्यवदानाण्णत्वे अप्राप्ते उभयोर्नकारयोरनेन णत्वमित्यर्थः। न च "पूर्वत्राऽसिद्धीयमद्विर्वचने" इति निषेधाद्द्वित्वे कर्तव्ये णत्वस्याऽसिद्धत्वविरहेण परत्वात्कृते णत्वे ततः पश्चाद्द्वित्वे "प्राणिण"दिति सिद्धमिति वाच्यम्, अत एव "पूर्वत्राऽसिद्धीयमद्विर्वचने" इत्यस्याऽनित्यत्वविज्ञानात्।तेन "ऊर्णुनावे"त्यत्र णत्वात् पूर्वमेव नुशब्दस्य द्वित्वे कृतेऽभ्यासोत्तरखण्डे णत्वाऽबावसिद्धिरित्यन्यत्र विस्तरः।

तत्त्व-बोधिनी
उभौ साभ्यासस्य ३७७, ८।४।२०

उभौ सा। "रषाभ्याटमिति सूत्रे "न"इति षष्ठ()न्तं प्रथमाद्विवनान्ततया विपरिणम्यत इत्याह-- उभौ नकाराविति। ननु "साऽभ्यास्ये" त्युक्त्या उभयोरपि भविष्यतीत्युभौग्रहणं व्यर्थमिति चेत्, अत्राहुः-- साहित्यमात्रं विवक्षितं न तुल्ययोग इत्यभ्युपगमे द्वयोर्युगपन्न सिध्येदित्युभौग्रहणम्। न च तुल्ययोगविवक्षायां "तेन सहेति तुल्योगे" इति समासोऽत्र न स्यादिति शङ्क्यं, "तुल्ययोगग्रहणं प्रायिकं, सकर्मकः सलोमक" इत्युक्तत्वादिति। कैयटे तु-- "उभावित्यस्मिन्नसति साभ्यासस्याऽनितेर्णो भवतीत्युच्यमाने वचनसामथ्र्याच्च "पूर्वत्रासिद्धीयमद्विर्वचने" इत्यनाश्रीयमामे?कृतणत्वस्य द्विर्वचने कृते अनन्तरस्याऽनितेरिति पूर्वेणैव णत्वस्य सिद्धत्वाद्व्यवहितनकारार्थमिदं णत्वं स्यात्, अनन्तरस्य तु तक्रकौण्डिन्यन्यायेन न स्यादिति उभावित्युच्यते" इति स्थितम्। साभ्यासस्येति किम्?। प्राण् नमति। असत्यस्मिन् "अनिते"रिति षष्ठी संबन्धसामान्ये स्यात्।ततश्चानन्तर्यादिसंबन्धोऽपि गृह्रेत। सति त्वस्मिन्नवयवावयविभावसंबन्धो लभ्यते। अतोऽर्थवत्साभ्यासग्रहणम्। यदि त्विष्टानुरोधेनाऽनितेरिति षष्ठीजनम्। इह पूर्वं णत्वं कृत्वा द्वित्वे क#ऋते प्राणिणदित्यादिसिद्धावयमारम्भः "पूर्वत्रासिद्धीयमद्विर्वचने"इत्स्याऽनित्यत्वज्ञापनार्थः। तेन ऊर्णुनावेत्यत्र णत्वात्पूर्वमेव नुशब्दस्य द्वित्वादभ्यासोत्तरखण्डे णत्वाऽभावः सिद्धः।