पूर्वम्: ८।४।२
अनन्तरम्: ८।४।४
 
सूत्रम्
पूर्वपदात् संज्ञायामगः॥ ८।४।३
काशिका-वृत्तिः
पूर्वपदात् संज्ञायाम् अगः ८।४।३

पूर्वपदस्थान् निमित्तादुत्तरस्य गकारवर्जिताद् नकारस्य णकार आदेशो भवति संज्ञायां विषये। द्रुणसः। वार्घ्रीणसः। खरणसः। शूर्पणखा। संज्ञायाम् इति किम्? चर्मनासिकः। अगः इति किम्? ऋगयनम्। केचिदेतन् नियमार्थं वर्णयन्ति, पूर्वपदात् संज्ञायाम् एव णत्वं न अन्यत्र इति। समासे ऽपि हि समानपदे निमित्तनिमित्तिनोर् भावादस्ति पूर्वेण प्राप्तिः इति स च नियमः पूर्वपदसम्बधादुत्तरपदस्थस्य एव णत्वं निवर्तयति, चर्मनासिकः इति, न तद्धितपूर्वपदस्थस्य, खारपायणः, मातृभोनीणः, कर्णप्रियः इति। अगः इति योगविभागेन णत्वप्रतिषेधः, न नियमप्रतिषेधः इति। अपरे तु पूर्वसूत्रे समानम् एव यन् नित्यं पदं तत् समानपदम् इत्याश्रयन्ति, समानग्रहणात्। तेषाम् अप्राप्तम् एव णत्वम् अनेन निधीयते। समासे हि पूर्वपदोत्तरविभागादसमानपदत्वम् अप्यस्ति इति।
लघु-सिद्धान्त-कौमुदी
पूर्वपदात्संज्ञायामगः १२७१, ८।४।३

पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात् संज्ञायां न तु गकारव्यवधाने। शूर्पणखा। गौरमुखा। संज्ञायां किम्? ताम्रमुखी कन्या॥
न्यासः
पूर्वपदात्संज्ञायामगः। , ८।४।३

रेफादिनिमित्तमिहानुवत्र्तते, तस्य केवलस्य पूर्वपदत्वं न सम्भवतीति सामथ्र्यात्? पूर्वपदस्थान्निमित्तादुत्तरस्येत्येषोऽर्थो विज्ञायत इत्याह--"पूर्वपदस्थान्निमित्तात्()" इत्यादि। "द्रूणसः" इति। दुरिव नासिकास्येति बहुव्रीहिः। द्रुशब्दोऽत्र शाखावचनः। "अञ्नासिकायाः सज्ञायां नसञ्चास्थूलात्()" (५।४।११८) इत्यच्? समासान्तनासिकायाश्च नसादेशः। "चर्मनासिकः" इति। चर्मविकारो नासिकास्येति "समुदायविकारषष्ठ()आश्च बहुव्रीहिरुत्तरपदलोपश्च" (दा।१००) इति समासः। उपसर्जनह्यस्वत्वम्()। "ऋगयन्म्()" इति। ऋचोऽयनमिति षष्ठीसमासः। "अगः" इति शक्यमकर्तुम्(), "अणृगयनादिभ्यः" (४।३।७३) इति निपातनादेव ऋगयनमित्यत्र णत्वाभावः सिद्धः? नैतदस्ति; "अबाधकान्यपि निपातनानि भवन्ति" (पृ।प।वृ।००) इत्युक्तम्(), तत्र यद्यग इति नोच्येत, तदा पक्ष ऋगयणमित्यपि विज्ञायेत। तस्यादग इति वक्तव्यम् अथ किं पुनरिदं नियमार्थम्()? उत्त विध्यर्थम्()? इत्यत आह--"केचित्()" इत्यादि। अपरे विध्यर्थमेतदिति वर्णयन्ति। अतः केचिदित्युक्तम्()। ननु पूर्वसूत्रेण निमित्तनिमित्तिनोः समानपदस्थत्वे सति णत्वं विहितम्(), न च द्रुणस इत्यादौ समासे कृते निमित्तनिमित्तिनोः समानपदस्थत्वमस्ति, निमित्तस्य पूर्वपदस्थत्वात्(), निमित्तन उत्तरपदस्थात्वाच्च। एवञ्च पूर्वसूत्रेणाप्राप्तिरेव णत्वस्य, तत्? कथमस्य नियमार्थतोपपद्यते? इत्यत आह--"समासेऽपि" इत्यादि। यद्यति समासार्थाभ्यां पदाभ्यां या विभक्तिरुत्पन्ना तस्यां लुप्तायामपि तयोः प्रत्येकं प्रत्ययलक्षणेन पदसंज्ञायां सत्यां समासावयवापेक्षयाऽसमानपदताऽस्ति, तथापि समासाद्या विभक्तिरुत्पन्ना तया समुदायस्य पदसंज्ञायां सत्यां समुदायापेक्षया समानपदताऽस्त्येव। तस्मात्? सञासेऽपि समानपदे निमित्तनिमित्तनोर्बावादसति पूर्वेण प्राप्तिः; ततश्च नियमार्थमेतदिति स्थितम्()। यद्येवम्(), तर्हि यथा चर्मनासिक, इत्यत्रोत्तरपदस्थस्य नकारस्य णत्वं न भवति नियमेन व्यावर्त्तितत्वात्(), तथा खरपस्यापत्यं खारपयणः--"नडादिभ्यः फक" (४।१।९९) मातृभोगाय हितो मातृभोगीणः--"आत्मन्वि()आजनभोगोत्तरपदात्? खः" ५।१।९ इत्यत्र च तद्धितस्थस्यापि न स्यात्(), तथा करणं प्रियमस्य करणप्रिय इत्यत्र पूर्वपदस्थस्यापि न स्यात्()? अत आह--"स च" इत्यादि। सध्बन्धिशब्दो हि नियतमेव प्रतियोगिनं सन्निधापयति, [सन्निधापयन्ति--कांउ।पाठः, प्रांउ।पाठश्च] यथा हि "भातरि भक्त्या प्रवर्त्तितव्यम्()" इत्युक्ते यद्यपि स्वस्यामिति नोच्यते, तथापि स्वस्यां मातरीति गम्यते; तथेहापि पूर्वपदमुत्तरपदमिति सम्बन्धिशब्दावेतौ--सति पूर्वपदत्वे उत्तरपदत्वं सम्भवति, सति चोत्तरपदत्वे पूर्वपदत्वं सम्भवति। पूर्वपदसन्निधानादुत्तरपदे सथिधापिते तस्यैवोत्तरपदस्थस्य नकारस्य नियमो णत्वं निवत्र्तयति---चर्मनासिक इत्यादौ, न सद्धितपूर्वपदस्यस्यापि। खारपायणो मातृभोगीण इत्यादौ यतायोगं तद्धितपूर्वपदस्थोनकारः, न तूत्तरपदस्थः। अयं तह्र्रस्मिन्नियमार्थे दोषः--"अगः" इति। प्रतिषेदो नियमस्यैव स्यात्(), न तु णत्वस्य; नियमवाक्यैकदेशभूतत्वात्? प्रतिषेधस्य। ततः संज्ञायामसंज्ञायाञ्च गकाराण्णत्वं स्यात्()। अत एवाह--"अगः" इत्यादि। अग इति योऽयं प्रतिषेधः स णत्वस्यैव, न नियमस्य। तल्मान्न भवत्येव दोषप्रसङ्गः। कथं पुनर्नियमवाक्यैकदेशभूतः सन्नेव प्रतिषेधो णत्वस्य विज्ञातुं शक्यः? इति प्रश्नावसर इदमुत्तरमाह--"योगविभागेन" इत्यादि। "पूर्वपदात्संज्ञायाम्()" इत्येको योगः, "अगः" इति द्वितीयः; अनेन यावती काचिण्णत्वस्य प्राप्तिः सा सर्वा प्रतिषिध्यते, न त्वनन्तरमेव कार्यम्()। अन्यथा योगविभागस्य वैयथ्र्य स्यात्()। "अपरे तु" इत्यादि। तुशब्दः पूर्वस्माद्विशेषं दर्शयति। अपरे त्वाचार्याः पूर्वसूत्रे समानमेव यन्नित्वं पदं तत्? समानपदमित्याश्रयन्ति। तदेतदुक्तं भवतदि--यदाऽवयवापेक्षा क्रियते तदापि यत्? समानपदम्(); यदापि समुदायापेक्षा क्रियते, तदापि यत्? समानपदं तत्? समानपदमित्येवं परिगृह्लान्ति। कस्मात्()? इत्यत आह--"समानग्रहणात्()" इत्यादि। समानग्रहणं ह्रेवमर्थं क्रियते। एकपदाधिकरणत्वे सति निमित्तनिमित्तिनोर्णत्वं यथा स्यात्(), भिन्नपदत्वे मा भूदिति। एतच्चाप्रयोजनम्(); पदग्रहणादेवाल्यार्थस्य लब्धत्वात्()। यदि भिन्नपदाधारत्वे सति णत्वं स्यात्(), तदा पदग्रहणमनर्थकं स्यात्(), व्यवच्छेद्याभावात्(), न ह्रपदस्थौ तौ स्तः। तस्मात्? पदग्रहणसामथ्र्यादेवाभिन्नपदयोर्निमित्तनिमित्तनोर्णत्वं लभ्यते। तत्? पदग्रहणादेव समानपदे लब्धे समानग्रहणं क्रियमाणं नियमार्थं भवति--"नित्यं यत्? समानपदम्()" इत्यभिप्रायः। "तेषाम्()" इत्यादिना समानमेव यन्नित्यं पदं तत्? पूर्वसूत्रे य आश्रयन्ति, तन्मतेन विध्यर्थतामस्य दर्शयति। स्यादेतत्()--समासेऽपि नित्यं समानपदमेवाश्रयो निमित्तनिमित्तिनोः, अत्रो नियमार्थमेतदुक्तम्(), न विध्यर्थम्()? इत्यत आह--"समासे हि" ["समासेऽपि"--प्रांउ।पाठः] इत्यादि। समासे ह्रवयवापेक्षयैतत्पूर्वपदमिति, एतदुत्तरपदमिति--एव विभागोऽस्ति, तस्मादसमामपदत्वमप्यस्ति। अपिशब्दात्समानपदत्वमपि। तत्र यदा पूर्वोत्तरवदापेक्षा भयति, तदा पूर्वोत्तरविभागादसमानपदत्वम्()। यदा तु समुदायापेक्षा, तदा पूर्वोत्तरविभागाभावात्? समानपदत्वम्()। अतो न समासे समानपदत्वं नित्यमेव॥
बाल-मनोरमा
पूर्वपदात्संज्ञायामगः ८४८, ८।४।३

पूर्वपदात्। "रषाभ्या"मित्यनेन लभ्दो रेफः प्रत्येकमन्वेति। तदाह--पूर्वपदस्थान्निमित्तादिति। रेफषकारात्मकादित्यर्थः। "अग" इति फञ्चम्यन्तम्। गकारभिन्नात्परस्येत्यर्थः। गकारात्परस्य नेति यावत्। तदाह--नतु गकारव्यवधाने इति। अनेन "अट्कुप्वाङ्नुम्व्यवायेऽपि"इत्यनुवृत्तिः। सूचिता। अन्यथा "अग; इत्यस्य वैयथ्र्यं स्यात्। "खण्डपदत्वादप्राप्तौ वचनमिदम्। द्रुरिवेति। वृक्ष इवेत्यर्थः। द्रुणस इति। बहुव्रीहेरच्। नासिकाशब्दस्य नसादेशः। णत्वम्। ऋगयनमिति। "ऋवर्णा"दिति वार्तिकस्याप्यत्रानुवृत्त्या णत्वं प्राप्तं गकारेम व्यवधानान्न भवतीति भावः। अत्र "ऋचामयन"मिति विग्रहप्रदर्शनं चिन्त्यं, वाक्येन संज्ञानवगमात्। नच "रघुनाथ" इत्यादौ संज्ञायां णत्वं शङ्क्यम्, णत्वेन चेत्संज्ञा गम्यत इत्यर्थात्। इह तु कृते णत्वे संज्ञात्वभङ्गापत्तेर्न णत्वम्। अत एव "भृञोऽसंज्ञायां"मिति सूत्रभाष्ये "य एते संज्ञायामिति विधीयन्ते, तेषु नैवं विज्ञायते संज्ञायामभिधेयायामिति। किं "तर्हि?। प्रत्ययान्तेन चेत्संज्ञा गम्यते" इत्युक्तम्।

खुरेति। खुरखराभ्यां परस्य नासिकाशब्दस्य बहगुव्रीहौ संज्ञायां नसादेशो वेति वक्तव्यमित्यर्थः। प्रकृतत्वादेव सिद्धे नसादेशवचनमच्प्रत्ययानुवृत्तिनिवृत्त्यर्थम्। खुरणा इति। खररूपा नासिका यस्येति विग्रहः। पक्षे "खुरनासिक" इति "खरनासिक" इति च न भवतीत्याह--पक्षेऽजपीष्यते इति। अच्प्रत्ययसहितो नसादेश इत्यर्थः। भाष्ये त्विदं न दृश्यते।