पूर्वम्: ८।४।३
अनन्तरम्: ८।४।५
 
सूत्रम्
वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः॥ ८।४।४
काशिका-वृत्तिः
वनं पुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः ८।४।४

पूर्वपदात् संज्ञायम् इति वर्तते। पुरगा मिश्रक सिघ्रका शारिका कोटरा अग्रे इत्येतेभ्यः पूर्वपदेभ्यः उत्तरस्य वननकारस्य णकारादेशो भवति संज्ञायां विषये। पुरगावणम्। मिश्रकवणम्। सिघ्रकावणम्। शारिकावणम्। कोटरावणम्। अग्रेवणम्। सिद्धे सत्यारम्भो नियमार्थः, एतेभ्य एव परस्य वननकारस्य णकारादेशो भवति, न अन्येभ्यः इति। कुबेरवनम्। शतधारवनम्। असिपत्रवनम्।
न्यासः
वनं पुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः। , ८।४।४

वनमिति षष्ठीस्थाने सुब्ब्यत्ययेन प्रथमा। "पुरगावणम्()" इति षष्ठीसमासः। "वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम्()" ६।३।११६ इति पूर्वपदस्य दीर्घः। "अग्रेवणम्()" इति। षष्ठोसमासः। तस्मिन्? कृते राजदन्तादिवद्वनशब्दस्य परनिपातः। "हलदन्तात्? सप्तम्याः सज्ञायाम्()" ६।३।८ इति सप्तम्या अलुक्()। ननु च पूर्वेणैव णत्वं सिद्धम्(), तत्किमर्थोऽयम्()? इत्यत आह--"सिद्धे" इत्यादि। पुरगादिभ्यो वननकारस्यैवेति विपरीतनियमो नाशङ्कनीयः, पुरगादीनं कृतदीर्घाणां निर्देशात्()। सह्रेवमर्थः क्रियते--यत्रैषां दीर्घत्वं तत्र नियमो यथा स्यात्(), अन्यत्र मा भूदिति। अन्यता "अनगिर्योः" ६।३।११६ इत्यनेनैव दीर्घत्वे सिद्धे दौर्घोच्चारणं गौरवफलमेव केवलं स्यात्()। तस्माद्यत्रैषां दीर्घत्वं तत्रैव नियमः। अतो व्यवच्छेद्यामाभावान्न भवति विपरीतनियमाशङ्का; न हि वनादन्यस्मिन्नमीषां पूर्वपदभूतानां दीर्घत्वमस्ति॥
बाल-मनोरमा
वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः १०२४, ८।४।४

तत्र णत्वविधिं दर्शयति--वनं पुरगा। वनमिति। षष्ठ()र्थे प्रथमा। इत्यभिप्रेत्याह-वनशब्दस्येति। एभ्य इति। पुरगा, मिश्रका, सिध्रका, सारिका, कोटर, अग्रे इत्येतेभ्य एव परस्य उत्तरपदस्य वनशब्दस्य यो नकारस्तस्य णत्वमित्यन्वयः। "रषाभ्याम्" इत्यतो "णो नः" इत्यनुवृत्तेः। सूत्रे "अग्रे" इति सप्तम्यन्तस्यानुकरणम्। नन्विह भिन्नपदत्वात् "अट्कुप्वा"ङिति णत्वस्याऽप्राप्तेरपूर्वविध्यर्थकत्वावश्यकत्वादेभ्य एवेति कथं नियमलाभ इत्यत आह--इह कोटरान्ता इति। इह=णत्वविधावुपात्ताः पुरगा मिश्रका सिध्रका सारिका कोटर इत्येवं पञ्च शब्दाः, एव वनगिर्योरिति दीर्घाविधौ कोटरादिशब्देन विवक्षिता इत्यर्थः। ततः किमित्यत आह--तेषामिति। णत्वविधौ तावत्पुरगादिशब्दाः पञ्च दीर्घान्ता एव निर्दिष्टाः। दीर्घस्तु तेषां संज्ञायामेव "वनगिर्योरिति"विहितः। एवंच एतेषामसंज्ञायां दीर्घाऽभावात्संज्ञायामेव "वनं पुरगे"ति णत्वविधिरिति पर्यवस्यति। ततश्च तेषु वनशब्दनकारस्य "पूर्वपदात्संज्ञायामगः" इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थः संपद्यत इत्यर्थः। अग्रेशब्दस्य त्विति। णत्वविधावग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्वविध्यर्थ एव, न तु नियमार्थः। अग्रेवणशब्दस्याऽसंज्ञायामगः" इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थः संपद्यत इत्यर्थः। अग्रेशब्दस्य त्विति। णत्वविधावग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्वविध्यर्थ एव, न तु नियमार्थः। अग्रेवणशब्दस्याऽसंज्ञात्वादिति भावः। न च पुरगावणशब्दे गकारव्यवधानात् "पूर्वपदात्संज्ञाया"मित्यस्य प्राप्त्यसंभवादत्र अपूर्वणत्वविध्यर्थमेव पुरगाग्रहणमिति वाच्यम्, "अग" इति हि पञ्चमी, गकारान्तात्पूर्वपदात्परस्य णत्वं नेति लभ्यते। पुरगाशब्दस्त्वयमाकारान्त एव, न तु गकारान्त इति, तत्र अग इति निषेधाऽप्राप्त्या "पूर्वपदात्संज्ञाया"मित्येव सिद्धे, पुरगाग्रहणमपि नियमार्थमेवेति भावः। पुरगावणमित्यादयो नकरविशेषाणां संज्ञाः। असिपत्रवनमिति। नरकविशेषोऽयम्। अत्र संज्ञात्वेऽपि पूर्वपदात्संज्ञाया"मिति णत्वं न भवति, एभ्य एवेति नियमादिति भावः। अग्रेवणमिति। वनशब्दस्य षष्ठ()न्तस्य अग्रेशब्देन सह षष्ठीसमास इति भावः। ननु तर्हि "सुपो धात्वि"ति सप्तम्या अपि सुक् स्यादित्यत आह--राजदन्तादिष्विति। अनेन वनशब्दस्य परनिपातोऽपिसूचितः। ननु सप्तम्यर्थप्राधान्यात्सप्तमी स्यादित्यत आह--प्रातिपदिकेति। सप्तम्यर्थस्य प्रातिपदिकेऽन्तर्भावादिति भावः। किंशुलुकादीनामुदाहरणमाह--किंशुलुकागिरिरिति। "अञ्जनागिरि"रित्यप्युदाहार्यम्।

तत्त्व-बोधिनी
वनं पुरगामिश्रकासिध्रकासारिकाकोटराप्रेभ्यः ८६३, ८।४।४

वनं पुरगाष व्यत्ययेन षष्ठ()र्थे प्रथमा इत्याह---वनशब्दस्येति। एभ्य एवेति। कृतिदीर्घेभ्यः पुरगादिभ्य एव परस्य णत्वमित्यर्थः। "एभ्यो वनस्यैव णत्वं नान्येषा"मिति विपरीतनियमशङ्का तु न भवति, वनादन्यस्मिन्नुत्तरपदे पुरगादीनां दीर्घान्तत्वाऽसंभवात्। नियमार्थ इति। अयं भावः---"पुरगामिश्रके"ति दीर्घनिर्देशादसंज्ञायां दीर्घाऽभावेन संज्ञायामेणत्वमिति फलितम्। एवं च "पूर्वपदात्संज्ञाया"मित्यनेनैव वनस्य णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थ एवेति। विध्यर्थ इति। असंज्ञात्वेन "पूर्वपदात्संज्ञाया "मित्यस्याऽप्रवृत्तेरिति भावः। न च पुरगाग्रहणमपि विध्यर्थमेव, गकारव्ययधानेन "पूर्वपदात्संज्ञाया"मित्यस्य प्राप्त्यभावादिति वाच्यम्, "अगः" इत्यस्य पञ्चम्यन्तत्वं स्वीकृत्य "गान्तात्पूर्वपदात्परस्य णत्वं ने"ति व्याख्यानात्। पुरगाशब्दस्य त्वकारान्तत्वात् "अगः" इति निषेधस्याऽप्रवृत्तेः। अतएव "अगः" इत्यस्य "ऋगयन"मित्येकमेवोदाहरणमिति "अणृगयनादिभ्यः"इति निर्देशाश्रयेण तत्प्रत्याख्यातमाकरे। पुरगावणमित्यादि। नरकविशेषस्य संज्ञा। असिपत्रवनमिति। "एभ्यो वनस्यैवे"ति विपरीतनियमे तु णत्वमत्र दुर्वारमिति भावः। सप्तम्यर्थस्य प्रातिपदिकार्थेऽन्तर्भावादह---प्रथमेति। किंशुलुकादीनामुदाहरणमाह--किंशुलुकागिरिरिति। आदिशब्दग्रह्रास्तु "अञ्जनागिरिः" इत्यादयः। किंशुलुकेति किम्()। कृष्णगिरिः। रामगिरिः।