पूर्वम्: ८।४।४
अनन्तरम्: ८।४।६
 
सूत्रम्
प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिर- पियूक्षाभ्योऽसंज्ञायामपि॥ ८।४।५
काशिका-वृत्तिः
प्रनिरन्तःशरैक्षुप्लक्षाऽम्रकार्ष्यखदिरपीयूक्षाभ्यो ऽसंज्ञायाम् अपि ८।४।५

प्र निरन्तर् शर इक्षु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्यः उत्तरस्य वननकारस्य संज्ञायाम् असंज्ञायाम् अपि णकारादेशो भवति। प्र प्रवणे यष्टव्यम्। निर् निर्वणे प्रतिढीयते। अन्तर् अन्तर्वर्णे। शर शरवणम्। इक्षु इक्षुवणम्। प्लक्ष प्लक्षवणम्। आम्र आम्रवणम्। कार्ष्य कार्ष्यवणम्। खदिर खदिरवणम्। पीयूक्षा पीयूक्षावणम्।
न्यासः
प्रनिरन्तःशरेक्षुप्लक्षाम्रकाष्र्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि। , ८।४।५

येऽत्रौषधिवनस्पतिशब्दा न भवन्ति प्रादयस्तेभ्यः संज्ञायाम्()--यदि पूर्वसूत्रं नियमार्थम्(), अथापि विध्यर्थम्()--उभयथाप्यप्राप्तणत्वमनेन विधीयते। एवमसंज्ञायामपि विधिपक्षे। नियमपक्षे त्वसंज्ञायां निष्प्रयोजनोऽस्यारम्भः; असंज्ञायां नियमाभावात्(), आद्याभ्यामेव सूत्राभ्यां यथायोगं णत्वस्य सिद्धत्वात्()। इतरेषु शरादिष्विक्षुशरशपब्दावोषधिवचनौ। शेषाः प्लक्षादयो वनस्पतिवचनाः। तेभ्यः संज्ञायां विधिपक्षे नियमपक्षे चाप्राप्तं णत्वमनेन विधीयते। असंज्ञायां तु "विभाषौषधिवनस्पतिभ्यः" ८।४।६ इति विभाषा णत्वं प्राप्तं नित्यमनेन विधीयते। "असंज्ञायामपि" इत्यपिशब्दस्य व्यापारं दर्शयति--असत्यपिशब्दे संज्ञाधिकारादसंज्ञायां न स्यात्()। अथ तु संज्ञाधिकारं निवर्त्त्यं समामान्येन विधीरुच्यते सदा शक्यते संज्ञाग्रहणमकर्त्तुम्()? तत्? क्रियते विस्पष्टार्थम्()। "प्रवणम्(), निर्वणम्()" इति। विभक्त्वर्थेऽयं "अव्ययम्()" २।१।६ इत्यादिनाऽण्ययीभावः। वनस्य मध्य इत्यर्थः। "शरवणम्()" इत्यादयश्च षष्ठीसमासाः॥
बाल-मनोरमा
पनिरन्तःशरेक्षुप्लक्षाम्रकाष्र्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि १०३५, ८।४।५

प्रनिरन्तः। एभ्य इति। प्र, निर्, अन्तर्, शर, इक्षु, प्लक्ष, आम्र, काष्र्य, खदिर, पीयूक्षा-इत्येतेभ्य इत्यर्थः। वनस्येति। "वनं पुरगे"त्यतस्तदनुवृत्तेरिति भावः। प्रवणमिति। प्रकृष्टं वनमिति विग्रहः। प्रादिसमासः। इहेति। "काष्र्यवण"मित्यत्र षकारात्परत्वेन णत्वं, नतु रेफात् परत्वमादाय, अडादिभिन्नषकारेण व्यवधानादिति भावः। एतेन कार्श्येति तालव्यशकारमध्यपाठोऽप्रामाणिक इति सूचितम्। तथा सति निमित्ताऽभावाण्णत्वाऽसंभवात्, अटकुप्वाङ्भिन्नेन शकारेण व्यवहिततया रेफस्य तन्निमित्तत्वाऽसंभवात्। निर्वणम्, अन्तर्वणं, शरवणम्, इक्षुवणम्, प्लक्षवणम्, आम्रवणं, काष्र्यवणं, खदिरवणं, पीयूक्षावणम्।