श्र्लोक आणि भक्तिगीत: देवी (Shloka and Bhaktigeet: Devi) (ऐका audio)
अशुद्ध शब्द आढळल्यास दुरुस्ती करण्यासाठी कृपया tapaswimeena[at]gmail.com या पत्त्यावर लिहा
कराग्रे वसते लक्ष्मीः (Karaagre Vasate Lakshmi)
कराग्रे वसते लक्ष्मीः करमूले सरस्वती ॥
करमध्ये तु गोविन्दः प्रभाते करदर्शनम् ॥॥
नमस्तस्यै नमस्तस्यै (Namastasyi Namastasyi)
नमो देव्यै महादेव्यै शिवायै सततं नमः ॥
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥१॥
या देवी सर्वभूतेषु मातृरुपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥३॥
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥४॥
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥५॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥६॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥७॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥८॥
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥९॥
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१०॥
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥११॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१२॥
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१३॥
या देवी सर्वभूतेषु दयारूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१४॥
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१५॥
नमस्ते शारदे देवि (Namaste Shaarade Devi)
नमस्ते शारदे देवि काश्मीर पुरवासिनी ॥
त्वामहम् प्रार्थये नित्यं विद्यादानं च देहि मे ॥॥
समुद्र वसने देवि (Samudra Vasane Devi)
समुद्र वसने देवि पर्वतस्तनमण्डले ॥
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥॥
श्रीमहालक्ष्मी स्तोत्र (Shri Mahaalakshmi Stotra)
इन्द्र उवाच
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ॥
शंखचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥
नमस्ते गरुडारुढे कोलासुरभयङ्करि ॥
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥
सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि ॥
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ॥
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥
आद्यन्तरहिते देवि आद्यशक्तिमहेश्र्वरि ॥
योगजे योगसंभूते महालक्ष्मि नमोऽस्तुते ॥५॥॥
स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ॥
महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥६॥
पद्मासनस्थिते देवि परब्रह्मस्वरुपिणि ॥
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥७॥
श्र्वेतांबरधरे देवि नानालङ्कारभूषिते ॥
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥८॥
या कुन्देन्दु... (Yaa Kundendu..)
या कुन्देन्दुतुषारहारधवला या शुभ्र वस्त्रावृता ॥
या वीणावरदंडमंडितकरा या श्र्वेतपद्मासना ॥
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता ॥
सा मां पातु सरस्वती भगवती निःशेष जाड्या पहा ॥