॥ अनुगीता ॥

अध्यायः १६ जनमेजय उवाच सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः । केशवार्जुनयोः का नु कथा समभवद्द्विज ॥ १॥ वैशम्पायन उवाच कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् । तस्यां सभायां रम्यायां विजहार मुदा युतः ॥ २॥ ततः कं चित्सभोद्देशं स्वर्गोद्देश समं नृप । यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ॥ ३॥ ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः । निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥ ४॥ विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते । माहात्म्यं देवकी मातस्तच्च ते रूपमैश्वरम् ॥ ५॥ यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् । तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ॥ ६॥ मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो । भवांश्च द्वारकां गन्ता नचिरादिव माधव ॥ ७॥ वैशन्पायन उवाच एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत । परिष्वज्य महातेजा वचनं वदतां वरः ॥ ८॥ वासुदेव उवाच श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् । धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ॥ ९॥ अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् । नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ॥ १०॥ स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने । न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥ ११॥ परं हि ब्रह्म कथितं योगयुक्तेन तन्मया । इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥ १२॥ यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि । शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ॥ १३॥ आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिन्दम । ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ॥ १४॥ अस्माभिः परिपृष्टश्च यदाह भरतर्षभ । दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥ १५॥ ब्राह्मण उवाच मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि । भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो ॥ १६॥ तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन । शृणुष्वावहितो भूत्वा गदतो मम माधव ॥ १७॥ कश्चिद्विप्रस्तपो युक्तः काश्यपो धर्मवित्तमः । आससाद द्विजं कं चिद्धर्माणामागतागमम् ॥ १८॥ गतागते सुबहुशो ज्ञानविज्ञानपारगम् । लोकतत्त्वार्थ कुशलं ज्ञातारं सुखदुःखयोः ॥ १९॥ जाती मरणतत्त्वज्ञं कोविदं पुण्यपापयोः । द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ॥ २०॥ चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् । दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ॥ २१॥ अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः । तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥ २२॥ सम्भाषमाणमेकान्ते समासीनं च तैः सह । यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥ २३॥ तं समासाद्य मेधावी स तदा द्विजसत्तमः । चरणौ धर्मकामो वै तपस्वी सुसमाहितः । प्रतिपेदे यथान्यायं भक्त्या परमया युतः ॥ २४॥ विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् । परिचारेण महता गुरुं वैद्यमतोषयत् ॥ २५॥ प्रीतात्मा चोपपन्नश्च श्रुतचारित्य संयुतः । भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः ॥ २६॥ तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः । सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ॥ २७॥ सिद्ध उवाच विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः । गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ॥ २८॥ न क्व चित्सुखमत्यन्तं न क्व चिच्छाश्वती स्थितिः । स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ॥ २९॥ अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् । काममन्युपरीतेन तृष्णया मोहितेन च ॥ ३०॥ पुनः पुनश्च मरणं जन्म चैव पुनः पुनः । आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ॥ ३१॥ मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः । सुखानि च विचित्राणि दुःखानि च मयानघ ॥ ३२॥ प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह । धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥ ३३॥ अवमानाः सुकष्टाश्च परतः स्वजनात्तथा । शारीरा मानसाश्चापि वेदना भृशदारुणाः ॥ ३४॥ प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः । पतनं निरये चैव यातनाश्च यमक्षये ॥ ३५॥ जरा रोगाश्च सततं वासनानि च भूरिशः । लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया ॥ ३६॥ ततः कदा चिन्निर्वेदान्निकारान्निकृतेन च । लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया । ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ॥ ३७॥ नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् । आ सिद्धेरा प्रजा सर्गादात्मनो मे गतिः शुभा ॥ ३८॥ उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा । इतः परं गमिष्यामि ततः परतरं पुनः । ब्रह्मणः पदमव्यग्रं मा तेऽभूदत्र संशयः ॥ ३९॥ नाहं पुनरिहागन्ता मर्त्यलोके परन्तप । प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥ ४०॥ यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः । अभिजाने च तदहं यदर्थं मा त्वमागतः । अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ॥ ४१॥ भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण । परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ॥ ४२॥ बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च । येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ॥ ४३॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि सप्तदशोऽध्यायः ॥
अध्यायः १७ वासुदेव उवाच ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् । पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ॥ १॥ काश्यप उवाच कथं शरीरं च्यवते कथं चैवोपपद्यते । कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥ २॥ आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति । शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ॥ ३॥ कथं शुभाशुभे चायं कर्मणी स्वकृते नरः । उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ॥ ४॥ ब्राह्मण उवाच एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत । आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥ ५॥ सिद्ध उवाच आयुः कीर्तिकराणीह यानि कर्माणि सेवते । शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥ ६॥ आयुः क्षयपरीतात्मा विपरीतानि सेवते । बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥ ७॥ सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा । अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ॥ ८॥ यदायमतिकष्टानि सर्वाण्युपनिषेवते । अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन ॥ ९॥ दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च । गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ॥ १०॥ व्यायाममतिमात्रं वा व्यवायं चोपसेवते । सततं कर्म लोभाद्वा प्राप्तं वेगविधारणम् ॥ ११॥ रसातियुक्तमन्नं वा दिवा स्वप्नं निषेवते । अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ॥ १२॥ स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् । अथ चोद्बन्धनादीनि परीतानि व्यवस्यति ॥ १३॥ तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा । जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥ १४॥ ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ॥ १५॥ अत्यर्थं बलवानूष्मा शरीरे परिकोपितः । भिनत्ति जीव स्थानानि तानि मर्माणि विद्धि च ॥ १६॥ ततः स वेदनः सद्यो जीवः प्रच्यवते क्षरन् । शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु । वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥ १७॥ जातीमरणसंविग्नाः सततं सर्वजन्तवः । दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ॥ १८॥ गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे । तादृशीमेव लभते वेदनां मानवः पुनः ॥ १९॥ भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः । यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति । शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥ २०॥ यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः । स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ॥ २१॥ शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते । निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ॥ २२॥ ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः । स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् । तैरेव न विजानाति प्राणमाहारसम्भवम् ॥ २३॥ तत्रैव कुरुते काये यः स जीवः सनातनः । तेषां यद्यद्भवेद्युक्तं संनिपाते क्व चित्क्व चित् । तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥ २४॥ तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् । आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै । ततः स चेतनो जन्तुर्नाभिजानाति किं चन ॥ २५॥ तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु । स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ॥ २६॥ ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् । निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ॥ २७॥ स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः । अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ॥ २८॥ ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुत निश्चयाः । इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥ २९॥ यथान्ध कारे खद्योतं लीयमानं ततस्ततः । चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ॥ ३०॥ पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा । च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥ ३१॥ तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः । कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥ ३२॥ ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः । इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥ ३३॥ इहैवाशुभ कर्मा तु कर्मभिर्निरयं गतः । अवाक्स निरये पापो मानवः पच्यते भृशम् । तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ॥ ३४॥ ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः । कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे । तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्म निश्चयात् ॥ ३५॥ तारा रूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् । यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् । स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ॥ ३६॥ कर्म क्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः । तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ॥ ३७॥ न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् । इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ॥ ३८॥ उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् । यथावत्तां निगदतः शृणुष्वावहितो द्विज ॥ ३९॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अष्टादशोऽध्यायः ॥
अध्यायः १८ ब्राह्मण उवाच शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् । प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ॥ १॥ यथा प्रसूयमानस्तु फली दद्यात्फलं बहु । तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥ २॥ पापं चापि तथैव स्यात्पापेन मनसा कृतम् । पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥ ३॥ यथा कत्म समादिष्टं काममन्युसमावृतः । नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ॥ ४॥ शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् । क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ॥ ५॥ सौक्ष्म्यादव्यक्तभावाच्च न स क्व चन सज्जते । सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् । तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥ ६॥ स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः । दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः । ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥ ७॥ यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् । उपैति तद्वज्जानीहि गर्भे जीव प्रवेशनम् ॥ ८॥ लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् । तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ॥ ९॥ यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् । एवमेव शरीराणि प्रकाशयति चेतना ॥ १०॥ यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् । पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥ ११॥ ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते । यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते ॥ १२॥ तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै । आवर्तमानो जातीषु तथान्योन्यासु सत्तम ॥ १३॥ दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् । दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥ १४॥ संयमश्चानृशंस्यं च परस्वादान वर्जनम् । व्यलीकानामकरणं भूतानां यत्र सा भुवि ॥ १५॥ मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् । गुरु पूजा घृणा शौचं नित्यमिन्द्रियसंयमः ॥ १६॥ प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते । ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥ १७॥ एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः । आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ॥ १८॥ तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः । यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ॥ १९॥ अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु । यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ॥ २०॥ वर्तमानस्य धर्मेण पुरुषस्य यथातथा । संसारतारणं ह्यस्य कालेन महता भवेत् ॥ २१॥ एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते । सर्वं तत्कारणं येन निकृतोऽयमिहागतः ॥ २२॥ शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् । इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ॥ २३॥ शरीरमात्मनः कृत्वा सर्वभूतपितामहः । त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥ २४॥ ततः प्रधानमसृजच्चेतना सा शरीरिणाम् । यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥ २५॥ इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् । त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥ २६॥ असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः । स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ॥ २७॥ तस्य कालपरीमाणमकरोत्स पितामहः । भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ॥ २८॥ यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि । यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥ २९॥ सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति । कायं चामेध्य सङ्घातं विनाशं कर्म संहितम् ॥ ३०॥ यच्च किं चित्सुखं तच्च सर्वं दुःखमिति स्मरन् । संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥ ३१॥ जाती मरणरोगैश्च समाविष्टः प्रधानवित् । चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ॥ ३२॥ निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् । तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥ ३३॥ शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् । प्रोच्यमानं मया विप्र निबोधेदमशेषतः ॥ ३४॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि षोडषोऽश्द्यायः ॥
अध्यायः १९ ब्राह्मण उवाच यः स्यादेकायने लीनस्तूष्णीं किं चिदचिन्तयन् । पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ॥ १॥ सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः । व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥ २॥ आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः । अमानी निरभीमानः सर्वतो मुक्त एव सः ॥ ३॥ जीवितं मरणं चोभे सुखदुःखे तथैव च । लाभालाभे प्रिय द्वेष्ये यः समः स च मुच्यते ॥ ४॥ न कस्य चित्स्पृहयते नावजानाति किं चन । निर्द्वन्द्वो वीतरागात्मा सर्वतो मुक्त एव सः ॥ ५॥ अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्व चित् । त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ॥ ६॥ नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः । धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते ॥ ७॥ अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् । अस्वस्थमवशं नित्यं जन्म संसारमोहितम् ॥ ८॥ वैराग्य बुद्धिः सततं तापदोषव्यपेक्षकः । आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥ ९॥ अगन्ध रसमस्पर्शमशब्दमपरिग्रहम् । अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ॥ १०॥ पञ्च भूतगुणैर्हीनममूर्ति मदलेपकम् । अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥ ११॥ विहाय सर्वसङ्कल्पान्बुद्ध्या शारीर मानसान् । शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥ १२॥ विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् । परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ॥ १३॥ अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् । यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥ १४॥ तस्योपदेशं पश्यामि यथावत्तन्निबोध मे । यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥ १५॥ इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् । तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ॥ १६॥ तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः । मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥ १७॥ स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि । तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥ १८॥ संयतः सततं युक्त आत्मवान्विजितेन्द्रियः । तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ॥ १९॥ यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति । तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ॥ २०॥ इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् । योगी निष्कृष्टमात्मानं यथा सम्पश्यते तनौ ॥ २१॥ मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् । एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥ २२॥ यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् । तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥ २३॥ अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते । विनिवृत्य जरामृत्यू न हृष्यति न शोचति ॥ २४॥ देवानामपि देवत्वं युक्तः कारयते वशी । ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥ २५॥ विनश्यत्ष्वपि लोकेषु न भयं तस्य जायते । क्लिश्यमानेषु भूतेषु न स क्लिश्यति केन चित् ॥ २६॥ दुःखशोकमयैर्घोरैः सङ्गस्नेह समुद्भवैः । न विचाल्येत युक्तात्मा निस्पृहः शान्तमानसः ॥ २७॥ नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते । नातः सुखतरं किं चिल्लोके क्व चन विद्यते ॥ २८॥ सम्यग्युक्त्वा यदात्मानमात्मयेव प्रपश्यति । तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥ २९॥ निर्वेदस्तु न गन्तव्यो युञ्जानेन कथं चन । योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ॥ ३०॥ दृष्टपूर्वा दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे । पुरस्याभ्यन्तरे तस्य मनश्चायं न बाह्यतः ॥ ३१॥ पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् । तस्मिन्नावसथे धार्यं स बाह्याभ्यन्तरं मनः ॥ ३२॥ प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते । तस्मिन्काये मनश्चार्यं न कथं चन बाह्यतः ॥ ३३॥ संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने । कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥ ३४॥ दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च । हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥ ३५॥ इत्युक्तः स मया शिष्यो मेधावी मधुसूदन । पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥ ३६॥ भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते । कथं रसत्वं व्रजति शोणितं जायते कथम् । तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥ ३७॥ कथमेतानि सर्वाणि शरीराणि शरीरिणाम् । वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् । निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ॥ ३८॥ कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः । कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ॥ ३९॥ जीवः कायं वहति चेच्चेष्टयानः कलेवरम् । किं वर्णं कीदृशं चैव निवेशयति वै मनः । याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ॥ ४०॥ इति सम्परिपृष्टोऽहं तेन विप्रेण माधव । प्रत्यब्रुवं महाबाहो यथा श्रुतमरिन्दम ॥ ४१॥ यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्ड मना भवेत् । तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः । आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥ ४२॥ एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव । आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥ ४३॥ न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः । मनसैव प्रदीपेन महानात्मनि दृश्यते ॥ ४४॥ सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् । जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति ॥ ४५॥ स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् । आत्मानमालोकयति मनसा प्रहसन्निव ॥ ४६॥ इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम । आपृच्छे साधयिष्यामि गच्छ शिष्ययथासुखम् ॥ ४७॥ इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः । अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥ ४८॥ वासुदेव उवाच इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः । मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ॥ ४९॥ कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा । तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥ ५०॥ नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः । नरेणाकृत सञ्ज्ञेन विदग्धेनाकृतात्मना ॥ ५१॥ सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ । कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केन चित् ॥ ५२॥ न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ । नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ॥ ५३॥ क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः । न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ॥ ५४॥ परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् । यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ॥ ५५॥ एवं हि धर्ममास्थाय योऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ५६॥ किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः । स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ॥ ५७॥ हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने । सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः । अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ॥ ५८॥ श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव । यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् । एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ॥ ५९॥ एतावदेव वक्तव्यं नातो भूयोऽस्ति किं चन । षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥ ६०॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकोनविंषोऽध्यायः ॥ ॥ इति अनुगीता समाप्ता ॥ Adhyaya numbers 16-19 in Ashvamedhika, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 16-19. Sunder Hattangadi (sunderh at hotmail.com)

% Text title            : anugItA
% File name             : anugiitaa.itx
% itxtitle              : anugItA
% engtitle              : anugItA
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : religion
% Transliterated by     : Professor Tokunaga in Kyoto system(?)
% Proofread by          : Sunder Hattangadi(sunderh at hotmail.com)
% Description-comments  : Adhyaya numbers 16-19 in Ashvamedhika, Mahabharata
% Indexextra            : Adhyaya 16-19 Ashvamedhika, Mahabharata
% Latest update         : June 2, 1998 February 8, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP