॥ उत्तर गीता भाष्य ॥

॥ उत्तरगीता ॥ श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमद्गौडपादाचार्यैः विरचितया व्याख्यया समेता संभूषिता ॥ अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ इह खलु भगवानर्जुनः धर्मक्षेत्रे कुरुक्षेत्रे भगवदुपदिष्टमात्मतत्त्वोपदेशं विषयभोगप्रावण्येन विस्मृत्य पुनस्तदेवात्मतत्त्वं ज्ञातुं भगवन्तं पृच्छति--- अर्जुन उवाच --- यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् । अप्रतर्क्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥ १॥ कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् । हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयस्वरूपकम् ॥ २॥ तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव । हे केशव यज्ज्ञानात् यस्य ब्रह्मणः सम्यग्ज्ञानात् तत्क्षणादेव ज्ञानोत्तरक्षणादेव मुच्येत अविद्यानिवृत्तिद्वारा आनन्दावाप्तिर्भवेत्, तत् ब्रह्म ब्रूहि स्वरूपतटस्थलक्षणाभ्यां प्रतिपादय इत्यर्थः । एतदेव लक्षणैर्दर्शयति--- यदित्यादिना । एकं सजातीयविजातीयस्वगतभेदरहितम्, निष्कलं अवयवरहितम्, व्योमातीतम्, आकाशादिचतुर्विंशतितत्त्वातीतम्, निरञ्जनम् स्वयंप्रकाशम्, अप्रतर्क्यम्, अमनोगोचरम्--- 'यन्मनसा न मनुते' इति श्रुतेः, अविज्ञेयं प्रमाणाविषयम्--- 'यद्वाचानिरुक्तम्' 'यतो वाचो निवर्तन्ते' इति श्रुतेः, विनाशोत्पत्तिवर्जितं त्रैकालिकरूपम्, कारणं सर्वोत्पत्तिनिमित्तोपादान- रूपम्, योगनिर्मुक्तं वस्त्वन्तरसंबन्धरहितम्, हेतुसाधनवर्जितं निमित्तत्वोपादनत्वधर्मादिवर्जितं इत्यर्थः, स्वस्य सनातनत्वेन ताभ्यामेव वर्जितमिति वा, हृदयाम्बुजमध्यस्थं सर्वलोकान्तर्नियामकतया सर्वलोकहृदय- कमलमध्यस्थम्, ज्ञानज्ञेयस्वरूपकं ज्ञानं स्वविषयप्रकाशः ज्ञेयं विषयः तदुभयस्वरूपं तदुभयसत्तात्मकम्, यत् ब्रह्म, तत् कीदृशमिति प्रश्नार्थः ॥ एवमर्जुनेन पृष्टो भगवान् प्रश्नार्थमभिनन्दन् उत्तरमाह--- श्रीभगवानुवाच --- साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव ॥ ३॥ यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् । हे महाबाहो इति सम्बोधयन् सर्वशत्रुनिबर्हणसामर्थ्यं द्योतयति । शत्रवो रागादयश्च । हे पाण्डवेति सत्कुलप्रसूतिं द्योतयति । बुद्धिमानसीति स्तुवन् स्वोक्तार्थग्रहणावधारणसामर्थ्यं द्योतयति ।त्वं मां प्रति यदात्मतत्त्वं पृच्छसि, तदशेषं यथा भवति तथा तुभ्यमहं प्रवदामि । तदेवात्मतत्त्वं सोपायमाह--- आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् ॥ ४॥ योगेन गतकामानां भावना ब्रह्म चक्षते । आत्मनि तात्पर्येण पर्यवसन्नस्य प्रणवात्मकस्य मन्त्रस्य तात्पर्यविषयस्य, हंसस्य हन्ति स्वतत्त्वज्ञानेन ज्ञातृसंसारमिति हंसः तस्य परमात्मनः, परस्परसमन्वयात् अन्योन्यप्रतिपाद्यप्रतिपादकभावसंसर्गात्, अनेन सर्ववेदान्ततात्पर्यगोचरत्वम् ' तत्तु समन्वयात् ' इति समन्वयाधिकरणोक्तं दर्शितम्; योगेन आत्मतत्त्वविचाराख्येन, गतकामानां नष्टारिषड्वर्गाणाम्---अनेन ज्ञानप्रति- बन्धककल्मषनिवृत्तिः दर्शिता; तेषां या भावना ' तत्त्वमसि ' इत्यादिवाक्यजन्या चरमवृत्तिः, तन्निवृत्तिर्वा, तज्जन्याविद्यानिवृत्तिर्वा, तन्निवृत्त्यधिष्ठानं वा, सा ब्रह्मेति चक्षते प्राहुः तत्त्वज्ञाः इति शेषः । तदेव तत्त्वज्ञानं तन्निवर्त्याविद्यानिवृत्तिं च आह--- शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् ॥ ५॥ हंसो हंसाक्षरं चैतत्कूटस्थं यत्तदक्षरम् । तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥ ६॥ अजस्य जीवस्य अन्तम् अवधिभूतं हंसत्वं परब्रह्मस्वरूपत्वं शरीरिणां जीवानां पारदर्शनं परमज्ञानं हंसः ब्रह्म हंसाक्षरं च प्रणवं च एतत्कूटस्थं यत्,एतदुभयसाक्षिभूतं यत्, तदक्षरमित्युच्यते । अनेन त्रिविधपरिच्छेदशून्यत्वं दर्शितम् । तत्स्वरूपं विद्वान् विवेकीसन् तदक्षरं वस्तु प्राप्य मरणजन्मनीजननमरणप्रवाहरूपं संसारं जह्यात् त्यजेदिति यावत् ॥ सा च मुक्तिः जीवपरमात्मनोरैक्यमिति प्रतिपादयति--- अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते--- काकीमुखं ककारान्तमुकारश्चेतनाकृतिः । मकारस्य तु लुप्तस्य कोऽर्थः सम्प्रतिपद्यते ॥ ७॥ कं च अकं च काके सुखदुःखे, ते अस्य स्त इति काकी जीवः अविद्याप्रतिबिम्बः, तस्य मुखं मुखस्थानीयं बिम्बभूतं यद्ब्रह्म, तत्प्रतिपादकं यत् ककारान्तं, मुखमित्येतत् काकाक्षिन्यायेन अत्रापि संबध्यते । तथा च शब्दश्लेषः मुखभूतककारस्य काकीत्यत्र प्राथमिक- ककारस्य अन्तम् अन्तिमं यदक्षरम् अकारात्मकं पञ्चीकृतपञ्चमहाभूतानि तत्कार्याणि सर्वं विराडित्युच्यते । एतत् स्थूलशरीरमात्मनः । इन्द्रियैरर्थोपलब्धिर्जागरितम् । तदुभयाभिमान्यात्मा विश्वः । एतत्त्रयम् अकारस्यार्थः । उकारश्चेतनाकृतिः । काकीमुखेत्यत्र मकारात् परो य उकारः अपञ्चीकृतपञ्चमहाभूतानि तत्कार्यं सप्तदशकं लिङ्गं हिरण्यगर्भ इत्युच्यते । एतत् सूक्ष्मरीरमात्मनः । करणेषूपसंहृतेषु जागरितसंस्कारजन्य- प्रत्ययः सविषयः स्वप्नः, तदुभयाभिमानी आत्मा तैजसः । एतत्त्रयमुकारस्यार्थः । अत एव उकारश्चेतनाकृतिरित्युक्तम् । चेतनाकृतिः चेतनस्य हिरण्यगर्भात्मकतैजसस्य आकृतिः वाचकः । मकारस्य --- काकीमुखेत्यत्र उकारात्पूर्वमभिहितो यो मकारः शरीरद्वयकारणमात्माज्ञानं साभासं अव्याकृतमित्युच्यते । तच्च न सत्, नासत्, नापि सदसत्; न भिन्नम्, नाभिन्नम्, नापि भिन्नाभिन्नं कुतश्चित् न निरवयवम्, सावयवम्, नोभयम् : केवलब्रह्मात्मैकत्व- ज्ञानापनोद्यम् । सर्वप्रकारकज्ञानोपसंहारो बुद्धेः कारणात्मनावस्थानं सुषुप्तिः । तदुभयाभिमान्यात्मा प्राज्ञः । एतत्त्रयं तस्य मकारस्यार्थः । लुप्तस्य---अकार उकारे, उकारो मकारे, मकार ओंकारे, एवं लुप्तस्य कोऽर्थः ककारात्परो यः अकारः तस्य योऽर्थः लक्ष्यस्वरूपं मकारात्परस्योंकारस्य अर्थः लक्ष्यस्वरूपम्, ओंकारात्मासाक्षी केवलचिन्मात्र- स्वरूपः नाज्ञानं तत्कार्यं च, किं तु नित्यशुद्धबुद्ध- मुक्तसत्यपरमानन्दाद्वितीयं ब्रह्मैव सम्प्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । ' अयमात्मा ब्रह्म ' ' स यश्चायं पुरुषे यश्चासावादित्ये स एकः ' ' तत्त्वमसि ' ' अहं ब्रह्मास्मि ' इत्यादिश्रुतिभ्य इति भावः ॥ यद्वा पाठान्तरे--- काकीमुखककारान्तमुकारश्चेतनाकृतिः । अकारस्य तु लुप्तस्य कोऽर्थः सम्प्रतिपद्यते ॥ कं च अकं च काके सुखदुःखे, ते अस्य स्त इति काकी जीवः तत्प्रतिपादकशब्दस्य मुखे अग्रे यः ककारः तस्यान्तः अकारः ब्रह्म चेतनाकृतिः जीवाकारवदित्यर्थः । ब्रह्मैव स्वाविद्यया संसरति इति न्यायात् । मकारस्य जीवत्वाकारस्य लुप्तस्यापगतस्य कोऽर्थः अखण्डाद्वितीयसच्चिदानन्दस्वरूपोऽर्थः । तं काकीमुखेत्याद्युक्तप्रकारेणैक्यानुसन्धानवान् सम्प्रतिपद्यते प्राप्नोति इत्यर्थः । यद्वा, हे काकीमुख ब्रह्म त्वं ककारान्तः ककारस्यान्तिमो वर्णो य अकारः तत्प्रतिपाद्यब्रह्मैवेत्यर्थः । उकारः मूलप्रकृतिः तस्य ब्रह्मणः चेतना चेतयमाना आकृतिः शक्तिः । मकारस्य च लुप्तस्य परिणममानाविद्या- लोपवतो ब्रह्मणः कोऽर्थः ककारात्परो य अकारः तस्य योऽर्थः लक्ष्यस्वरूपं तत्सम्प्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । एवमुपास्स्वेति शेषः । तथा च श्रुतिः ' आप्लवस्व प्रप्लवस्व, आण्डी भव ज मा मुहुः, सुखादीं दुःखनिधनाम्, प्रतिमुञ्चस्व स्वां पुरम् ' इति । अस्यार्थः---हे ज जननमरण- युक्तजीव त्वमाप्लवस्व जीवन्मुक्तो भव प्रप्लवस्य साक्षान्मुक्तो भव, आण्डी ब्रह्माण्डान्तर्वर्ती संसारि मुहुर्मा भव मा भूः । संसारी चेत् किमपराध इत्याशङ्क्याह---सुखादीं वैषयिकसुखहेतुं दुःखनिधनां दुःखमेव निधने अन्ते, यस्यास्तां स्वां पुरं स्थूलसूक्ष्मरूपदेहद्वयं प्रतिमुञ्चस्व त्यज । एवं योगधारणयोपासकस्य प्राणायामपरायणस्य नान्तरीयकफलमप्याह--- गच्छंस्तिष्ठन्सदा कालं वायुस्वीकरणं परम् । सर्वकालप्रयोगेन सहस्रायुर्भवेन्नरः ॥ ८॥ नरः ' शतायुः पुरुषः शतेन्द्रियः ' इति परिमितायुरपि गच्छन् गमनकाले तिष्ठन् अवस्थानकाले सदा कालं सर्वस्मिन्काले शयनादिकालान्तरे परं विशेषेण वायुस्वीकरणं प्राणायामं कुर्वन् तेन सार्वकालप्रयोगेन सार्वकालिकवायुधारणया सहस्रायुः सहस्रवर्षजीवी भवेत् भूयादित्यर्थः ॥ ननु परमफलं कदा भवतीत्यत आह--- यावत्पश्येत्खगाकारं तदाकारं विचिन्तयेत् । खगाकारं हंसस्वरूपं यावत्पश्येत् यावत्पर्यन्तं साक्षात्कुर्यात्, तावत्पर्यन्तं तदाकारं परब्रह्मस्वरूपं पूर्वोक्तधारणया प्रवृद्धायुः पुरुषः विचिन्तयेत् ध्यायेदित्यर्थः ॥ तादृशात्मसाक्षात्कारार्थं नैरन्तर्येण आत्मजगतो- रभेदध्यानमाह--- खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । आत्मानं खमयं कृत्वा न किंचिदपि चिन्तयेत् ॥ ९॥ खमध्ये दहराकाशमध्ये आत्मानं परमात्मानं कुरु एतदभिन्नसत्तात्मकमिति भावयेदित्यर्थः । आत्ममध्ये च परमात्मनि खं कुरु आकाशं कुरु तदुपादानकं भावयेत् । आत्मानं परमात्मानं खमयम् आकाशात्मकं कृत्वा किंचिदपि ब्रह्मव्यतिरिक्तमन्यदपि न चिन्तयेत् न ध्यायेदित्यर्थः । यद्वा, ख-शब्देन जीवोऽभिधीयते, ' आकाशशरीरं ब्रह्म ' इत्यादिश्रुतेः । आत्मशब्देन परमात्मा अभिधीयते । तयोरैक्यं बुद्ध्व न किंचिदपि चिन्तयेदिति ॥ एवमुक्तप्रकारेण योगी भूत्वा ब्रह्मज्ञाननिष्ठ एव स्यात् इत्याह--- स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः । बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् । निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥ १०॥ ब्रह्मवित् उक्तप्रकारेण ब्रह्मज्ञानी सन् स्थिरबुद्धिः निश्चलज्ञानी भूत्वा असंमूढः अज्ञानरहितः सन् ब्रह्मणिस्थितः ब्रह्मनिष्ठ एव नित्यं यत्र श्वासः श्वासवायुः लयं गतः नाशं प्राप्तः, तत्र नासाग्रे व्यवस्थितं बहिर्व्योमस्थितं बहिराकाशस्थितं च निष्कलं कलातीतं कं ब्रह्म विजानीयात् बुध्यात् ॥ ब्रह्मज्ञाननिष्ठस्य मनोनैश्चल्यार्थं धारणा- विशेषमाह--- पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते ॥ ११॥ तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् ॥ १२॥ हे पार्थ पुटद्वयनिर्मुक्तः नासारन्ध्रद्वयविनिर्गतः वायुः यत्र विलीयते लयं गच्छति, तस्मिन्मार्गे सम्यक् स्थितं मनः कृत्वा तम् ईश्वरं ध्यायेत् वक्ष्यमाणप्रकारेण ध्यायेत् ॥ तमेव प्रकारमाह--- निर्मलं तं विजानीयात्षडूर्मिरहितं शिवम् । निर्मलं निष्कृष्टाहंकारचैतन्यात्मकम्, अत एव षडूर्मिरहितं क्षुत्पिपासादिहीनं शिवं मङ्गलस्वरूपमिति विजानीयात् ध्यायेदित्यर्थः किं च, प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ॥ १३॥ सर्वशून्यं निराभासं समाधिस्तस्य लक्षणम् । त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात् ॥ १४॥ प्रभाशून्यं वृत्त्यात्मकप्रकाशरहितम्, तत्र हेतुः मनःशून्यं मनोरहितम्, अत एव बुद्धिशून्यं आसक्ति- रहितं निरामयं निर्व्याजम्, अत एव निराभासं भ्रमरहितम्, अत एव सर्वशून्यम् स्वव्यतिरिक्तवस्तुमात्रस्य मिथ्यात्वेन आनन्दैकरसं यत् ब्रह्म, तद्ध्यानं समाधिः । तस्य तस्मिन् स्थितस्य किं लक्षणमित्याशङ्क्याह---त्रिशून्यं पूर्वोक्त- प्रभादिशून्यं यो विजानीयात् बुध्येत् । एतेन जाग्रदाद्यवस्था- त्रयशून्यत्वं दर्शितम् प्रभामनोबुद्धिशब्दैः क्रमेण तासामभिधानात् । तादृशं ब्रह्म यो विजानीयात्, स समाधिस्थः संसारबन्धनात् मुच्येत मुक्तो भवति ॥ एवं जीवन्मुक्तस्य देहादिष्वभिनिवेशो नास्तीत्याह--- स्वयमुच्चलिते देहे देही न्यस्तसमाधिना । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥ १५॥ देहे स्वयम् अनादिप्रारब्धकर्मवासनावशात् उच्चलिते गमनादिकं कुर्वत्यपि देही जीवः न्यस्तसमाधिना निश्चलसमाधियोगेन निश्चलं यथा भवति तथा तं परमात्मानं विजानीयात् । तदेव समाधिस्थितस्य आत्मयोग- स्थितस्य लक्षणमित्युच्यते ॥ इतोऽप्यात्मज्ञस्य लक्षणमुच्यते--- अमात्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥ १६॥ अमात्रं ह्रस्वदीर्घप्लुतादिरहितं शब्दरहितं शब्दातीतम्, स्वरव्यञ्जनवर्जितं अक्षरसमूहात्मकपदानभिधेयं बिन्दुनादकलातीतम्---अनुस्वारो बिन्दुः संवृते गलविवरे यद्दीर्घ- घण्टानिर्ह्नादवदनुरणनं स नादः, कला नादैकदेशः तैरतीतम्, न यथाकथंचिच्छब्दवाच्यमित्यर्थः । एतादृशं ब्रह्म यो वेद, स वेदवित् सकलवेदान्ततात्पर्यज्ञः नान्य इत्यर्थः ॥ एवं प्राप्तात्मतत्त्वज्ञानस्य असम्भावनाविपरीत- भावनादिनिवृत्तौ सत्यां न किंचित्कृत्यमस्तीत्याह--- प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदि संस्थिते । लब्धशान्तिपदे देहे न योगो नैव धारणा ॥ १७॥ ज्ञानेन परोक्षात्मकेन विज्ञाने अपरोक्षानुभवात्मके, यद्वा, ज्ञानेन शास्त्राचार्योपदेशजन्येन विज्ञाने अनुभवात्मके प्राप्ते सति, ज्ञेये सर्ववेदान्ततात्पर्यगोचरे परमात्मनि हृदि संस्थिते हृद्यपरोक्षतया भासमाने सति, देहे देहोपाधिमति जीवे लब्धशान्तिपदे सम्प्राप्तब्रह्मभावे सति, तदा, योगोऽपि नास्ति धारणा च नास्ति; सिद्धे फले साधनेन प्रयोजनाभावादिति भावः ॥ एवमात्मतत्त्वापरोक्षज्ञानेन मुक्तः सन् ईश्वर एव जायते इति तस्य स्वरूपमाह--- यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ १८॥ वेदादौ सर्ववेदानामादौ वेदस्याधःस्रवणपरिहाराय विधीयमानः वेदान्ते च सर्ववेदानामन्ते च उपर्युत्क्रमण- परिहाराय प्रतिष्ठितः संस्थापितः, चकारात् सर्ववेद- रक्षणाय वेदमध्ये च निपातितः यः स्वरः प्रणवात्मकः, तस्य प्रणवस्य प्रकृतौ परावस्थायां लीनस्य यः परः परादिवाक्चतुष्टयोद्बोधकः, उपलक्षणं चैतत् सर्व- प्राणेन्द्रियकरणवर्गप्रबोधकः सर्वनियन्ता सर्वान्तर्यामी यो महेश्वर इति प्रसिद्धः स एव आत्मतत्त्वज्ञानी, नान्य इत्यर्थः ॥ आत्मतत्त्वापरोक्षानुभवात्पूर्वं यावान् तत्साधन- प्रयासः कृतः, जाते च तस्मिन् अनुभवे स न कर्तव्य इति सदृष्टान्तमाह--- नावार्थी च भवेत्तावद्यावत्पारं न गच्छति । उत्तीर्णे च सरित्पारे नावया किं प्रयोजनम् ॥ १९॥ यावत् यावत्पर्यन्तं पारं नदीतीरं न गच्छति न सम्प्राप्नोति, तावत् तावत्पर्यन्तं नावार्थी नदीतरण- साधनप्लवनार्थी भवेत् भूयात्, सरित्पारे नदीतीरे उत्तीर्णे सति नावया नदीतरणसाधनेन किं प्रयोजनं किमपि नास्तीत्यर्थः । तद्वदत्रापि आत्मापरोक्षे जाते शास्त्रादिभारैः किं प्रयोजनमिति भावः ॥ तदेव भङ्ग्यन्तरेण सदृष्टान्तमाह--- ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ २०॥ मेधावी बुद्धिमान् ग्रन्थमभ्यस्य वेदान्तादिश्रवणं कृत्वा, ज्ञाने सामान्यज्ञाने विज्ञाने विशेषानुभवे तत्परः सन् ग्रन्थं सर्वशास्त्रं त्यजेत् । अत्र दृष्टान्तः--- धान्यार्थी धान्यसहितं तृणमादाय तद्गतधान्यस्वीका- रानन्तरं पलालं गतकणिशं तृणं यथा त्यजेत् तद्वदित्यर्थः ॥ किंच --- उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत् ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ २१॥ कश्चित् लोके अन्धकारस्थितद्रव्यदर्शनार्थी सन्, यथा उल्काहस्तो भवति, पश्चाद्द्रव्यमालोक्य तदनन्तरं तामुल्कां यथा त्यजेत्, तथा ज्ञानेन ज्ञानसाधनेन ज्ञेयं ब्रह्म आलोक्य अपरोक्षीकृत्य पश्चात् ज्ञानं ज्ञानसाधनं परित्यजेत् इत्यर्थः । जाते चापरोक्षज्ञाने, तेन प्रयोजनाभावात् साधनं परित्याज्यमित्येतद्दृष्टान्तान्तरेणाप्याह--- यथामृतेन तृप्तस्य पयसा किं प्रयोजनम् । एवं तं परमं ज्ञात्वा वेदैर्नास्ति प्रयोजनम् ॥ २२॥ यथा अमृतेन सागरमथनाद्भूतेन अमृतेन तृप्तस्य सन्तुष्टस्य पयसा क्षीरेण प्रयोजनं नास्ति, एवं परमं तं ज्ञात्वा परमात्मानमपरोक्षीकृत्य वेदैः वेदान्त- शास्त्रादिभिः किं प्रयोजनम्, न किमपीत्यर्थः ॥ किंच, तत्त्वज्ञानिनः विधिनिषेधादिकर्तव्यमपि नास्तीत्याह--- ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥ २३॥ ज्ञानामृतेन तृप्तस्य आनन्दैकरसं प्राप्तस्य कृत- कृत्यस्य कृतार्थस्य योगिनः मुक्तस्य किंचिदपि विधिनिषेधादि कर्तव्यं नास्ति, तत्त्वेन उत्तीर्णत्वादिति भावः । कर्तव्यमपि लोकसंग्रहार्थमेव, यद्यभिनिवेशेन कर्मासक्तिरस्ति, तर्हि स तत्त्वविन्न भवति, आरूढो न भवतीत्यर्थः ॥ अर्थज्ञानं विना केवलं वेदपाठमात्रेण वेदवित्त्वं नास्ति, किं तु वेदतात्पर्यगोचरब्रह्मज्ञानेनैव वेदवित्त्वमित्याह--- तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ २४॥ तैलधारामिवाच्छिन्नं सन्ततधारावत् विच्छेदरहितं दीर्घघण्टानिनादवत् अतिदीर्घघण्टाध्वन्यग्रवच्च विच्छेदरहितं अवाच्यम् अवाङ्मनसगोचरं प्रणवस्य अकारोमकारबिन्दुनादात्मकस्य सकलवेदसारस्य अग्रं लक्ष्यं ब्रह्म यो वेद, स वेदवित् वेदान्तार्थज्ञानी; नान्य इत्यर्थः ॥ तत्त्वज्ञानिनः समाधिसाधनस्वरूपमाह--- आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ २५॥ आत्मानं आत्मनि कर्तृत्वाद्यध्यासवन्तं जीवं अरणिं कृत्वा अधरारणिं भावयित्वा, प्रणवं परमात्मप्रतिपादकं शब्दं उत्तरारणिं कृत्वा भावयित्वा, ध्याननिर्मथनाभ्यासात् ध्यानरूपमथनेन पौनःपुन्येन पूर्वोक्तप्रकारेण निगूढवत् पाण्डित्याप्रकटनेन यो वर्तते, स एवं परमात्मानं पश्येत्; नान्य इत्यर्थः ॥ यावदपरोक्षानुभवपर्यन्तं स्वयंप्रकाशब्रह्म- धारणामाह--- तादृशं परमं रूपं स्मरेत्पार्थ ह्यनन्यधीः । विधूमाग्निनिभं देवं पश्येदन्त्यन्तनिर्मलम् ॥ २६॥ हे पार्थ, विधूमाग्निनिभं विगतधूमाग्निरिव द्योतमानम् अत्यन्तनिर्मलम् अतिस्वच्छं देवं स्वयं- प्रकाशं परमात्मानं यावत्पश्येत् अपरोक्षीकुर्यात्, तावत् तादृशं परमं सर्वोत्कृष्टं रूपं ब्रह्म- स्वरूपम्, अनन्यधीरिति अनन्यचित्तः सन् संस्मरेत् ब्रह्मधारणं कुर्यादित्यर्थः ॥ भावनाप्रकारमेव ब्रह्मस्वरूपप्रकटनव्याजेन विशदयति--- दूरस्थोऽपि न दूरस्थः पिण्डस्थः पिण्डवर्जितः । विमलः सर्वदा देही सर्वव्यापी निरञ्जनः ॥ २७॥ देही जीवः सर्वदा सर्वस्मिन् काले दूरस्थोऽपि अज्ञस्य परोक्षवत् स्थितोऽपि न दूरस्थः परोक्षस्थितो न भवति; किं तु सर्वदापि अपरोक्ष एवेत्यर्थः । पिण्डस्थोऽपि अज्ञस्य शरीरसम्बन्धाध्यासात् परिच्छिन्नवत् भासमानोऽपि, पिण्डवर्जितः शरीरसम्बन्धध्यासरहितः; तत्र हेतुः--- विमलः निर्मलः सर्वव्यापी सर्वतः परिपूर्णः निरञ्जनः स्वयं- प्रकाशश्च । एवं ध्यायेदिति पूर्वेण सम्बन्धः ॥ किंच, देहाध्यासात् प्रतीयमानं कर्तृत्वभोक्तृत्वादिकमात्मनो नास्ति इत्याह--- कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते । कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते ॥ २८॥ देही जीवः कायस्थोऽपि शरीराध्यासवानपि न कायस्तः शरीरनिमित्तबन्धरहितः । कायस्थोऽपि जन्मादिवच्छरीरस्थोऽपि न जायते शरीरनिमित्तजन्मरहित इत्यर्थः । कायस्थोऽपि भोगसाधनीभूतशरीरस्थोऽपि न भुञ्जानः भोगरहितः । कायस्थोऽपि बन्धहेतुभूतदेहस्थोऽपि न बध्यते बन्धनं न प्राप्नोतीत्यर्थः । किंच--- कायस्थोऽपि न लिप्तः स्यात्कायस्थोऽपि न बाध्यते । कायस्थोऽपि सुखदुःखादिहेतुभूतदेहसम्बन्धोऽपि न लिप्तः स्यात् सुखदुःखादिसम्बन्धरहित इत्यर्थः । कायस्थोऽपि मरणधर्मवद्देहस्थोऽपि न बाध्यते न म्रियत इत्यर्थः । अनेन जन्मादिषड्भावविकारशून्यत्वं दर्शितम् ॥ यदध्यासेन आत्ममोहात्संसृतिः, तदपवादेन तत्रैव देहान्तःकरणादावात्मा विचारणीय इत्याह--- तिलमध्ये यथा तैलं क्षीरमध्ये यथा घृतम् ॥ २९॥ पुष्पमध्ये यथा गन्धः फलमध्ये यथा रसः । काष्ठाग्निवत्प्रकाशेत आकाशे वायुवच्चरेत् ॥ ३०॥ आत्मा तिलमध्ये तैलाच्छादकतिलेषु यथा तैलम्, यन्त्रादिना तिले निष्पिष्टे यथा तिलात्पृथक् तैलं शुद्धं भासते, यथा क्षीरमध्ये घृताच्छादकक्षीराणां मध्ये क्षीरत्वापनोदकोपायद्वारा दधिपरिणामे मथनेनापनीते नवनीतादिपरिणामद्वारा अग्निसंयोगात् यथा घृतं प्रतीयते, तथा पुष्पाणां मध्ये यथा गन्धः प्रतीयते, फलमध्ये त्वगस्थ्यादिहेयांशपरित्यागेन यथा रसो भासते, आकाशे यथा वायुः सर्वगतः सन् वाति संचरति, तथा काष्ठाग्निवत् अरण्यादिस्थिताग्निः मथनादिना मथिते यथा काष्ठभावं विहाय स्वयंप्रकाशतया भासते, तद्वदात्मापि अश्रमयादिपञ्चकोशेषु मध्ये हेयांश- परित्यागेन आनन्दात्मकतया स्वयंप्रकाशः सन् भासत इत्यर्थः ॥ एतदेव दार्ष्टान्तिके सर्वं स्पष्टमुपपादयति--- तथा सर्वगतो देही देहमध्ये व्यवस्थितः । मनस्थो देशिनां देवो मनोमध्ये व्यवस्थितः ॥ ३१॥ तथा पूर्वोक्ततैलादिवत् सर्वगतः सर्वव्यापी देही जीवः देहमध्ये नानाभिन्नतिर्यग्देहादिदेहमध्ये व्यवस्थितः नानाभिन्नतिलेषु तैलवत् एकत्वेन स्थित इत्यर्थः । देहिनां तत्तद्देहभेदेन भिन्नानां जीवानां मनस्थः तत्तदन्तः- करणस्थः देवः ईश्वरः मनोमध्ये तत्तद्दुष्टादुष्टान्तःकरणेषु व्यवस्थितः साक्षितया भासत इत्यर्थः ॥ तादृशब्रह्मापरोक्ष्येण मुच्यन्त इत्याह--- मनस्थं मनमध्यस्थं मध्यस्थं मनवर्जितम् । मनसा मन आलोक्य स्वयं सिध्यन्ति योगिनः ॥ ३२॥ मनस्थं मनोऽवच्छिन्नं मनमध्यस्थं मनःसाक्षि- भूतं मध्यस्थं सर्वसाक्षिभूतम् मनवर्जितं सङ्कल्पविकल्पादिरहितं मनः अवबोधात्मकं देवं मनसा परिशुद्धान्तःकरणेन आलोक्य तद्गोचरापरोक्षचरमवृत्तिं लब्ध्वा योगिनः स्वयमेव सिध्यन्ति निवृत्ताविद्यका मुक्ता भवन्तीत्यर्थः ॥ आकाशं मानसं कृत्वा मनः कृत्वा निरास्पदम् । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥ ३३॥ आकाशवन्मानसं मनो निर्मलं कृत्वा मनः सङ्कल्पविकल्पात्मकं निरास्पदम् निर्विषयं कृत्वा निश्चलं निष्क्रियमीश्वरं यो विजानीयात्, स एव समाधिस्थः । तादृशज्ञानमेव समाधिस्थस्यापि लक्षणमित्यर्थः ॥ आरूढस्य लक्षणमुक्तम्, आरुरुक्षोरुपायमाह--- योगामृतरसं पीत्वा वायुभक्षः सदा सुखी । यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत् ॥ ३४॥ योगामृतरसं पीत्वा यमनियमाद्यष्टाङ्गयोग- अमृतपानं कृत्वा तत्तत्प्रतिपादकशास्त्रमभ्यस्येत्यर्थः, वायुभक्षः वायुमात्राहरः, उपलक्षणमेतत्, हितमित- मेध्याशी, सदा सुखी सर्वदा सन्तुष्टः सन्, यं यमं मनोनिग्रहं नित्यमभ्यस्यते, स समाधिरित्युच्यते । स समाधिः मृत्युनाशकृत् जननमरणसंसारनाशकृदित्यर्थः ॥ तादृशसमाधौ स्थितस्य लक्षणमाह--- ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं यदात्मकम् । सर्वशून्यं स आत्मेति समाधिस्थस्य लक्षणम् ॥ ३५॥ ऊर्ध्वशून्यम् ऊर्ध्वदेशपरिच्छेदरहितं अधःशून्यम् अधोमध्यदेशपरिच्छेदरहितं सर्वशून्यं देशकालादिपरिच्छेदरहितं यदात्मकं यत्स्वरूपम्, स आत्मेति भावना समाधिस्थस्य लक्षणमित्यर्थः ॥ एतस्याइकान्तिकदृष्टेः विधिनिषेधातीतत्वमाह--- शून्यभावितभावात्मा पुण्यपापैः प्रमुच्यते । शून्यमिति सर्वपरिच्छेदरहितमिति भावितः वासितः भावः अभिप्रायो यस्यात्मनः तादृशः सन् शून्यभावितभावात्मा योगी पुण्यपापैः विधिनिषेधप्रयुक्तैः प्रमुच्यते मुक्तो भवतीत्यर्थः ॥ एवं भगवदुपदिष्टसमाधौ विरोधमसम्भवं च आह--- अर्जुन उवाच--- अदृश्ये भावना नास्ति दृश्यमेतद्विनश्यति ॥ ३६॥ अवर्णमस्वरं ब्रह्म कथं ध्यायन्ति योगिनः । अदृश्ये ज्ञानागोचरे वस्तुनि भावना ध्यानं नास्ति; ननु तर्हि दृश्यं भवत्विति चेत्, दृश्यमेतत्सर्वं विनश्यति नाशं प्राप्नोति शुक्तिकारूप्यवत् । तथा च अवर्णं रूप- रहितम् अस्वरं शब्दागोचरं ब्रह्म योगिनः कथं ध्यायन्ति, ध्यानस्य स्मृत्यात्मकत्वेनाननुभूते तदयोगात् इति भावः । न हि सावयवमूर्त्यादिमत्त्वेन वयं ध्यानं ब्रूमः येन त्वयोक्तं घटेत, किं तु निर्विशेषपरब्रह्मण एव निर्मलं निष्कलमित्यादिना, वेदान्तजन्यवृत्तिगोचरत्वेन तत्सम्भवतीत्यभिप्रायेणाह--- श्रीभगवानुवाच--- ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं यदात्मकम् ॥ ३७॥ सर्वपूर्णं स आत्मेति समाधिस्थस्य लक्षणम् । ऊर्ध्वाधोमध्यपूर्णशब्दैः सर्वदेशतः सर्वकालतः परिच्छेदं व्यावर्तयति । यदात्मकं यत् एतादृशं वस्तु सर्वत्र परिपूर्णं स आत्मेति यो ध्यायति, स समाधिस्थः । तस्य लक्षणमपि तदेवेत्यर्थः ॥ नन्वयं सालम्बनयोगो निरालम्बनयोगो वेति द्वेधा विकल्प्य तत्र दोषमाशङ्क्याह--- अर्जुन उअवाच--- सालम्बस्याप्यनित्यत्वं निरालम्बस्य शून्यता ॥ ३८॥ उभयोरपि दुष्ठत्वात्कथं ध्यायन्ति योगिनः । सालम्बस्य मूर्त्याधारादिसहितस्य अनित्यत्वं विनाशित्वम्, निरालम्बस्य मूर्त्याधारादिरहितस्य शून्यता शश- विषाणायितत्वम्, एवमुभयोरपि दुष्टत्वात् दोषघटितत्वात् योगिनः कथं ध्यायन्तीति प्रश्नार्थः ॥ यज्ञदानादिना शुद्धान्तःकरणस्य वेदान्तजन्यनिर्विशेषब्रह्मगोचरवृत्तिसम्भवात् न शून्यतेत्यभिप्रायेणाह--- श्रीभगवानुवाच--- हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् ॥ ३९॥ अहमेव इदं सर्वमिति पश्येत्परं सुखम् । हृदयं चित्तं निर्मलं ज्ञानविरोधिरागादिदोषरहितं कृत्वा अनामयं चिन्तयित्वा ईश्वरं ध्यात्वा परं सुखी सन् एक एवाहमिदं सर्वं जगज्जालमहमेव न मत्तो व्यतिरिक्तमन्यत् इति पश्येत् अपरोक्षानुभवं प्राप्नुयात् इत्यर्थः ॥ अर्थात्मकस्य जगतः शब्दनिरूप्यत्वेन शब्दस्य वर्णा- त्मकत्वेन वर्णानां प्रणवात्मकत्वेन प्रणवस्य बिन्द्वात्मकत्वेन बिन्दोः नादात्मकत्वेन नादस्य ब्रह्मध्यानस्थानात्मक- कलात्मकत्वेन ब्रह्मणि समन्वयेन बिन्दुनादकलातीतं ब्रह्म ध्यायेदिति भगवतोक्तम्, तद्विविच्य ज्ञातुं पृच्छति--- अर्जुन उवाच--- अक्षराणि समात्राणि सर्वे बिन्दुसमाश्रिताः ॥ ४०॥ बिन्दुभिर्भिद्यते नादः स नादः केन भिद्यते । हे भगवन् समात्राणि अक्षराणि अकारादीनि सर्वे सर्वाणि लिङ्गव्यत्ययः आर्षः, बिन्दुसमाश्रिताः बिन्दुतन्मात्राणीत्यर्थः । बिन्दुस्तु नादेन भिद्यते नादतन्मात्रः सन् तत्र समन्वेतीत्यर्थः । स नादः कलायां समन्वेति । सा कला कुत्र समन्वेति इति प्रश्नार्थः । यद्यपि श्लोके स नादः केन भिद्यत इति नादस्यैव समन्वयः पृष्ट इति भाति, तथापि नादस्य कलासमन्वय इति प्रसिद्धत्वात् नादपदं कलोपलक्षणम् ॥ एवं पृष्टो भगवान् ब्रह्मणि समन्वेति इति उत्तरमाह--- श्रीभगवानुवाच--- अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ॥ ४१॥ ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥ ४२॥ अनाहतस्य शब्दस्य परावस्थापन्नप्रणवस्य यः ध्वनिः नादः तस्य नादस्य ज्योतिः अन्तर्गतम् । तेन तेजोरूपकलायां नादस्यान्तर्भाव इति तात्पर्यम् । कलान्तर्भावमाह--- ज्योतिरन्तर्गतं मन इति । मनसः ज्योतिष्यन्तर्भावो नाम तन्मात्रया तत्र व्याप्तिः । तथा च मनसि ज्योतिषः कलायाः समन्वय इति भावः । तत् मनः शब्दादिप्रपञ्चकारणभूतं मनः यत्र विलयं याति, यत्र ब्रह्मणि वेदान्तजन्यनिर्विकल्पकब्रह्म- गोचरमनोवृत्तिः लयं याति, तत् वृत्तिलयस्थानं वृत्ति- लयात्मकं वा विष्णोः परमम् उत्कृष्टं पदं स्वरूपमिति । तदुक्तम्---मनः कायाग्निना हन्तीत्यादिना ॥ पुनस्तदेव विशिनष्टि--- ॐकारध्वनिनादेन वायोः संहरणान्तिकम् । निरालम्बं समुद्दिश्य यत्र नादो लयं गतः ॥ ४३॥ ओंकारध्वनिनादेन ओंकारध्वन्यात्मकनादेन सह वायोः संहरणान्तिकं रेचकपूरकादिक्रमेण नियमितवायोरुपसंहार- पर्यन्तं निरालम्बं निर्विशेषं ब्रह्म समुद्दिश्य लक्ष्यं कृत्वा ध्यायेत् । यत्र स नादो लयं गतः नाशं प्राप्नुयात्, तत् नादनाशाधिकरणात्मकं नादनाशात्मकं वा विष्णोः परमं पदमित्यर्थः ॥ एवं ध्यानप्रकारेण शुद्धान्तःकरणस्य आरूढस्य पुण्यपापे विधूय ब्रह्मसायुज्येऽभिहिते, आरुरुक्षोरपरिशुद्ध- अन्तःकरणित्वेन ब्रह्मसायुज्यासम्भवे धर्माधर्मविधूननासम्भवेन तद्द्वारा जननमरणादिकमवश्यं भाव्यमिति मनसि निश्चित्य var भावितव्यमिति पुनरावृत्तिप्रकारं पृच्छति--- अर्जुन उवाच--- भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । प्राणैर्विमुक्ते देहे तु धर्माधर्मौ क्व गच्छतः ॥ ४४॥ पञ्चात्मके पञ्चभूतात्मके देहे स्थूलशरीरे भिन्ने गते सति, पञ्चसु पञ्चभूतेषु पञ्चधा तत्तत्पृथिव्याद्या- कारेण स्थितेषु सत्सु, देहे प्राणैः प्राणादिपञ्चवायुभिः वियुक्ते सति, धर्माधर्मौ पुण्यपापे क्व गच्छतः कुत्र यास्यतः ॥ एवं पृष्टो भगवान् लिङ्गशरीराधारतया तिष्ठत इत्युत्तरमाह--- श्रीभगवानुवाच--- धर्माधर्मौ मनश्चैव पञ्चभूतानि यानि च । इन्द्रियाणि च पञ्चैव याश्चान्याः पञ्च देवताः ॥ ४५॥ ताश्चैव मनसा सर्वे नित्यमेवाभिमानतः । जीवेन सह गच्छन्ति यावत्तत्त्वं न विन्दति ॥ ४६॥ धर्माधर्मौ पुण्यपापे मनश्च अन्तःकरणं यानि च पञ्चभूतानि पृथिव्यादीनि यानि च पञ्चेन्द्रियाणि चक्षु- रादीनि वागादीनि ज्ञानकर्मात्मकानि च याश्चान्याः पञ्चदेवताः पञ्चेन्द्रियाभिमानिन्यः दिग्वातादयः, तदुक्तम्--- दिग्वातादर्कप्रवेताश्विवह्निप्राप्यप्रलीयकाः इति, ता देवताः, एते सर्वभूतादयः मनसा अन्तरिन्द्रियेण नित्यमेव सर्वदा अभिमानतः ममताहङ्कारविषयत्वेन यावत्तत्त्वं न विन्दति अपरोक्षब्रह्मानुभवं न प्राप्नोति, तावज्जीवेन सह जीवोपाधिना लिङ्गेन सह गच्छन्ति गतागतं प्राप्नुवन्तीत्यर्थः ॥ एवं स्थूलदेहलयेऽपि धर्माधर्मौ लिङ्गशरीरमाश्रित्य तिष्ठत इत्युक्ते, लिङ्गशरीरभङ्गः कदेति पृच्छति--- अर्जुन उवाच--- स्थावरं जङ्गमं चैव यत्किंचित्सचराचरम् । जीवा जीवेन सिध्यन्ति स जीवः केन सिध्यति ॥ ४७॥ स्थावरजङ्गमात्मकं सचराचरं चराचरसहितं जगज्जालं सर्वस्मिन् ये जीवाः अभिमानवन्तः स्थूलदेहाभिमानिनो विश्वात्मका जीवाः जीवेन लिङ्गशरीराभिमानिना तैजसेन सिध्यन्ति विश्वाभिमानं त्यजन्ति । स जीवः तैजसाभिमानी केन हेतुना सिध्यति स्वाभिमानं त्यजतीति प्रश्नार्थः ॥ एवं पृष्टे सति प्राज्ञेन तैजसः सिध्यति, प्राज्ञस्तुरीये- णेत्येवं क्रमेण सिध्यतीत्युत्तरमाह--- श्रीभगवानुवाच--- मुखनासिकयोर्मध्ये प्राणः संचरते सदा । आकाशः पिबते प्राणं स जीवः केन जीवति ॥ ४८॥ मुखनासिकयोर्मध्ये मुखनासिकामध्यतः सदा सर्वदा यावददृष्टं प्राणवायुः संचरते अजपामन्त्रात्मकत्वेन एकैकस्य दिनस्य षट्शताधिकैकविंशतिसहस्रसङ्ख्यया संचरति, तावत्पर्यन्तमदृष्टमहिम्ना लिङ्गमपि वर्तते । यदा तु योगमहिम्ना ब्रह्मज्ञानानन्तरं जीवस्यादृष्ट- निवृत्तिः, तदा आकाशः जीवत्वनिमित्तं प्राणं पिबते, तदा जीवः केन जीवति जीवत्वापादकाविद्यानिवृत्त्या निरञ्जनब्रह्म- भावे जाते जीवत्वमेव नास्तीत्यर्थः ॥ ननु ब्रह्माण्डाद्युपाधिविशिष्टस्य सर्वगतस्य ब्रह्मणः कथं निरञ्जनत्वमिति पृच्छति--- अर्जुन उवाच--- ब्रह्माण्डव्यापितं व्योम व्योम्ना चावेष्टितं जगत् । अन्तर्बहिश्च तद्व्योम कथं देवो निरञ्जनः ॥ ४९॥ हे भगवन् व्योम आकाशं ब्रह्माण्डव्यापितं ब्रह्माण्डा- वच्छिन्नमित्यर्थः । व्योम्ना च आकाशेन जगत् आवेष्टितं व्याप्तम्, तस्मात्कारणात् अन्तर्बहिश्च व्योमैव वर्तते, एवं सति देवः ईश्वरः कथं निरञ्जनः अन्यप्रकाशनिरपेक्षः कथमित्यर्थः ॥ आकाशादिसर्वप्रपञ्चस्य कल्पितत्वेन सर्वं सेत्स्यतीत्यभिप्रायेणाह--- श्रीभगवानुवाच--- आकाशो ह्यवकाशश्च आकाशव्यापितं च यत् । आकाशस्य गुणः शब्दो निःशब्दो ब्रह्म उच्यते ॥ ५०॥ आकाशः महाकाशः अवकाशः परिच्छिन्नाकाशः उभयमप्याकाशेन आकाशतन्मात्रभूतेन शब्देन व्यापितं व्याप्तं तदुपादनकतया तदतिरिक्तं न भवतीत्यर्थः । तर्हि उपादानस्य शब्दस्य अतिरिक्तत्वमस्त्वित्यत आह--- आकाशस्य गुणः शब्द इति, शब्दः तन्मात्रभूतः आकाशस्य मिथ्या- भूताकाशस्य गुणः परिणाम्युपादानं यतः, अत एव स्वयमपि मिथ्याभूत इत्यर्थः । ब्रह्म तु निःशब्दः निष्प्रपञ्चः इत्युच्यते । तथा च सत्यस्याक्षरस्य ब्रह्मणः असत्येन सह सम्बन्धासम्भवात् निरञ्जनत्वमुपपद्यत इत्यर्थः ॥ एवं भगवतोक्ते, अक्षरशब्दस्य भगवदभिमतार्थं अजानानः सन् लोकप्रसिद्धवर्णात्मकाक्षरबुद्ध्या वर्णानामक्षरत्वं न सम्भवतीत्यभिप्रायेण पृच्छति--- अर्जुन उवाच--- दन्तोष्ठतालुजिह्वानामास्पदं यत्र दृश्यते । अक्षरत्वं कुतस्तेषां क्षरत्वं वर्तते सदा ॥ ५१॥ हे भगवन् यत्र वर्णात्मकाक्षरेषु दन्तोष्ठतालु- जिह्वानाम्, उपलक्षणेमेतत् कण्ठादीनामष्टानां स्थानानाम्, आस्पदम् आस्पदत्वं दृश्यते प्रत्यक्ष- मनुभूयते । ' अकुहविसर्जनीयानां कण्ठः ' इत्यादिना श्रूयते च । तथा च तेषां वर्णानाम् अक्षरत्वं नाश- रहितत्वं कुतः, उत्पत्तिमतो नाशावश्यंभावात् ? सदा सर्वकालं क्षरत्वं नाशवत्त्वमेव वर्तते तेषाम्, नाश- रहितत्वं कुत इति प्रश्नार्थः ॥ एवमभिप्रायमजानानेन अर्जुनेन पृष्ठे स्वाभिप्रेत- मक्षरशब्दार्थं स्फुटयन् भगवानुवाच--- श्रीभगवानुवाच--- अघोषमव्यञ्जनमस्वरं चा- प्यतालुकण्ठोष्ठमनासिकं च । अरेखजातं परमूष्मवर्जितं तदक्षरं न क्षरते कथंचित् ॥ ५२॥ अघोषं घोषाख्यवर्णगुणरहितम् अव्यञ्जनं ककारादिव्यञ्जनातीतम् अस्वरम् अजतीतम्, अतालुकण्ठो- ष्ठमपि अज्व्यञ्जनाद्युत्पत्तिस्थानताल्वोष्ठादिरहितं अनासिकम् अनुस्वारोत्पत्तिस्थाननासिकातीतम् अरेखजातं वर्णव्यञ्जकरेखासमूहातीतम् ऊष्मवर्जितं शषसह- अतीतम्, यद्वा, ऊष्मशब्देन श्वासाख्यो गुणोऽभिधीयते तद्रहितम्, परं लोकप्रसिद्धवर्णलक्षणातीतं यत् ब्रह्म कथंचित् सर्वप्रकारेण सर्वकालेऽपि न क्षरते, तदेवाक्षर- शब्देनोच्यते । न लौकिकान्यक्षराणीत्यर्थः ॥ एतादृशं ब्रह्मज्ञानोपायम् अनुभवदार्ढ्याय पुनरपि पृच्छति--- अर्जुन उवाच--- ज्ञात्वा सर्वगतं ब्रह्म सर्वभूताधिवासितम् । इन्द्रियाणां निरोधेन कथं सिध्यन्ति योगिनः ॥ ५३॥ सर्वभूताधिवासितं सर्वभूतेष्वप्यन्तर्यामितया स्थितं सर्वगतम् अन्तर्बहिश्च परिपूर्णम्, ब्रह्म ज्ञात्वा सम्यग्- विबुध्य योगिनः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन कथं सिध्यन्ति केनोपायेन मुक्ता भवन्तीत्यर्थः ॥ एवं पृष्टो भगवान् तमेव ज्ञानोपायं पुनरप्याह--- श्रीभगवानुवाच--- इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः । देहे नष्टे कुतो बुद्धिर्बुद्धिनाशे कुतो ज्ञता ॥ ५४॥ मानवाः मनुष्याः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन देहे देहे एव पश्यन्ति ज्ञास्यन्ति, तस्मात् देहदार्ढ्यं च ज्ञानोपाय इति भावः । तदभावे ज्ञानमेव नास्ति इत्याह--- देहे नष्टे अदृष्टे सति बुद्धिः कुतः तत्त्वज्ञानं कुतः ? तस्माद्देहेन्द्रियादिभिः यज्ञदानादिश्रवणादिकमेव तत्त्वज्ञाने कारणमिति भावः ॥ तादृशं च कारणं यावत्पर्यन्तमनुष्ठेयमित्याशङ्क्य अवधिमाह--- तावदेव निरोधः स्याद्यावत्तत्त्वं न विन्दति । विदिते तु परे तत्त्वे एकमेवानुपश्यति ॥ ५५॥ यावत्तत्त्वज्ञानं नास्ति, तावत्पर्यन्तमिन्द्रियनिरोधः स्यात्; परे तत्त्वे अखण्डानन्दब्रह्मणि विदिते अपरोक्षभूते सति, एकमेवानुपश्यति एकमेव देहेन्द्रियसाधनानुष्ठानादिसाधन- रहितं ब्रह्मैवानुपश्यति, नान्यत्; तदनन्तरं साधना- नुष्ठानप्रयासोऽपि मा भूदिति भावः ॥ तस्माद्यावत्तत्त्वज्ञां तावत्साधनमनुष्ठेयम्, तदभावे तन्न सिध्यतीत्याह--- नवच्छिद्रकृता देहाः स्रवन्ति गलिका इव । नैव ब्रह्म न शुद्धं स्यात्पुमान्ब्रह्म न विन्दति ॥ ५६॥ देहाः ज्ञानकारणीभूतशरीराणि नवच्छिद्रकृताः विषयस्राविवृत्तिमन्नवेन्द्रियघटितानि; तत्र दृष्टान्तः गलिका इव च्छिद्रघटा इव सर्वदा ज्ञानं स्रवन्तीत्यर्थः । तादृशविषयप्रवणचित्तस्य ब्रह्म न शुद्धं स्यात् इति नैव ईश्वरत्वकर्तृत्वबिम्बत्वादिघटितं न भवति । तथा च ब्रह्मणि बिम्बत्वादिघटिते पुमान् सुखदुःखाभिमानी प्रतिबिम्बो जीवः ब्रह्म न विन्दति आनन्दानुभवं न प्राप्नो- तीत्यर्थः ॥ तस्मात् यावत्तत्त्वापरोक्षपर्यन्तं साधने यत्नः कर्तव्यः, जाते च तत्त्वावबोधे विधिनिषेधातीतत्वेन न कोऽपि यत्नः कर्तव्य इत्यभिप्रायवानाह--- अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ ५७॥ देहः पाञ्चभौतिकः अत्यन्तमलिनः जडत्वादिति भावः । देही आत्मा निष्कृष्टाहङ्कारः सन् अत्यन्तनिर्मलः अहङ्कारो- पाधिकसंसाररहितः इत्येवमुभयोर्देहात्मनोः अन्तरं कल्पितत्व- सत्यत्वे ज्ञात्वा यो वर्तते, तं प्रति कस्य शौचं विधीयते देहस्य वा आत्मनो वा ? देहस्य चेत्, जडस्य जडेन जलादिना न शुद्धिः; आत्मनश्चेत् पूर्वमेव शुद्धस्य न शौचादिना प्रयोजनमिति भावः ॥ इति श्रीगौडपादाचार्यविरचितायां उत्तरगीताव्याख्यायां प्रथमोऽध्यायः ॥ ॥ द्वितीयोऽध्यायः ॥ अरूढस्यारुरुक्षोश्च स्वरूपे परिकीर्तिते । तत्रारूढस्य बिम्बैक्यं कथं स्यादिति पृच्छति ॥ अर्जुन उवाच--- ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञं परमेश्वरम् । अहं ब्रह्मेति निर्देष्टुं प्रमाणं तत्र किं भवेत् ॥ १॥ हे भगवन् ब्रह्म बिम्बभूतं चैतन्यं सर्वगतं सर्वत्र परिपूर्णं सर्वज्ञं सर्वसाक्षिभूतं परमेश्वरं सर्वनियामकमिति ज्ञात्वा तत्त्वमसीत्यादिवाक्यतो विबुध्य अहं ब्रह्मेति, प्रतिबिम्बात्मा जीवः ब्रह्मेति निर्देष्टुं वक्तुं तत्र तस्मिन्नैक्ये किं प्रमाणं किमुपपादकमित्यर्थः ॥ एवं पृष्टो भगवान् क्षीरजलादिदृष्टान्तेन उपाधिनिवृत्तावात्मैक्यं सम्भवतीत्याह--- श्रीभगवानुवाच--- यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् । अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः ॥ २॥ जले नद्यादौ जलं तदेव पात्रादुद्धृतं पात्रोपाधितः पृथक्भूतं तत्रैव क्षिप्ते पात्रोपाधिनिवृत्तौ महाजलैक्यं प्राप्नोति, एवं क्षीरे क्षीरं घृते घृतं क्षिप्तं सत् तत्तदैक्यं प्राप्नोति, तद्वत् जीवात्मपरमात्मनोः अविद्या- द्युपाधितो भेदेऽपि तन्निवृत्तावविशेषः सम्भवतीति भावः ॥ एवमैक्यज्ञानं गुरुमुखादेव सम्भावितमविद्या- निवर्तकम्, न तु स्वतन्त्रविचारसम्भावितमिति वदन् तत्त्व- ज्ञानार्थं गुरुमेव अभिगच्छेदिति गुरूपासनामाह--- जीवे परेण तादात्म्यं सर्वगं ज्योतिरीश्वरम् । प्रमाणलक्षणैर्ज्ञेयं स्वयमेकाग्रवेदिना ॥ ३॥ स्वयमधिकारी एकाग्रवेदिना ब्रह्मनिष्ठेन गुरुणा प्रमाणलक्षणैः ' तत्त्वमसि ' ' यतो वा इमानि भूतानि ' ' यः सर्वज्ञः सर्ववित् ' इत्यादिभिः जीवे परेण परमात्मना तादात्म्यम् ऐक्यं बोधिते सति, तदनन्तरं स्वयमेव सर्वगं सर्वव्यापिनमीश्वरं सर्वनियन्तारं ज्योतिः स्वयंप्रकाशात्मा इति विज्ञेयं ज्ञातुं योग्यमित्यर्थः ॥ एवं गुरूपदेशानन्तरभविज्ञानेनैवोपपत्तौ किं कर्मयोगेनेति पृच्छति--- अर्जुन उवाच--- ज्ञानादेव भवेज्ज्ञेयं विदित्वा तत्क्षणेन तु । ज्ञानमात्रेण मुच्येत किं पुनर्योगधारणा ॥ ४॥ हे भगवन् ज्ञेयं विचार्यं ब्रह्मैक्यं ज्ञानादेव गुरूपदिष्टादेव भवेत्; तथा च विदित्वा गुरूपदेशानन्तरं तत्त्वं ज्ञात्वा तत्क्षणेन तु वेदान्तवाक्यजन्यचरमवृत्त्युत्तर- क्षणमेव मुच्येत मुक्तो भवेत्; एवं ज्ञानमात्रेण मुक्त्युपपत्तौ योगधारणाकर्मयोगाभ्यासः किं पुनः किं प्रयोजनम् व्यर्थ- त्वादित्यभिप्रायः ॥ एवं कर्मयोगवैयर्थ्ये शङ्किते यावत्तत्त्वज्ञानं न सम्भवति, तावदन्तःकरणशुद्ध्यर्थमनुष्ठेयं कर्म; सिद्धे च तस्मिन् ज्ञाने, पुनः कर्मानुष्ठानं मा भूत् इत्याह--- श्रीभगवानुवाच--- ज्ञानेन दीपिते देहे बुद्धिर्ब्रह्मसमन्विता । ब्रह्मज्ञानाग्निना विद्वान्निर्दहेत्कर्मबन्धनम् ॥ ५॥ हे अर्जुन विद्वान् विवेकी ज्ञानेन देहे लिङ्गशरीरे दीपिते शुद्धे, ततः बुद्धिः निश्चयात्मिका ब्रह्मसमन्विता चेत् ब्रह्मणि स्थिता असम्भावनारहिता चेत्, तदनन्तरं ब्रह्मज्ञानाग्निना ब्रह्मज्ञानानलेन कर्मबन्धनं कर्मपाशं निर्दहेत् त्यजेदित्यर्थः । तदुक्तम्---' ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन ' इति ॥ एवं प्राप्ततत्त्वैकस्य ततः परं किमपि न कार्यमित्याह--- ततः पवित्रं परमेश्वराख्य- मद्वैतरूपं विमलाम्बराभम् । यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थः ॥ ६॥ ततः तत्त्वज्ञानानन्तरम् उदके महोदके अनुप्रविष्टं ऐक्यं गतं तोयं परिच्छिन्नोदकम्, तद्वत् पवित्रं शुद्धं परमेश्वराख्यं परमेश्वरसज्ञं तथापि विमलाम्बराभं निर्मलाकाशवदसङ्गम् अद्वैतरूपं सजातीयविजातीयस्वगत- भेदरहितं ब्रह्म परं ब्रह्म अनुप्रविष्टः तदैक्यं गतः अत एव परमात्मरूपः सन् निरुपाधिसंस्थो भवेत् औपाधिक- कर्तृत्वादिभेदरहितो भवेत्, स्वयं निष्क्रिय आसीतेत्यर्थः; गुणा गुणेषु वर्तन्ते इति न्यायादिति भावः ॥ एवं यथोक्तकर्मानुष्ठानद्वारा तत्त्वज्ञाने जात एव परमात्मतत्त्वं ज्ञातुं शक्यम्, न ततः पूर्वैत्याह--- आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा । स बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कया पश्यति चान्तरात्मा ॥ ७॥ आकाशवत् सूक्ष्मशरीरः आकाशं यथातीन्द्रियं, तद्वत् परमात्मा सूक्ष्मशरीरः, सूक्ष्मत्वमत्र अतीन्द्रियत्व- मभिप्रेतम्, तादृशः परमात्मा वायुवत् वायुर्यथा चक्षुरादिविषयो न, तद्वत् अन्तरात्मा जीवोऽपि न दृश्यते, तत्स्वरूपमपीन्द्रियविषयं न भवतीत्यर्थः, मनसोऽप्रमाणत्वसाधनादिति भावः । तर्हि तयोः अपरोक्षतत्त्वज्ञानं केनेत्यत आह---स बाह्यमभ्यन्तरनिश्चलात्म विषयविक्षिप्तचित्तो न भवति, सः ज्ञानोल्कया वेदान्तजन्यतत्त्वापरोक्षवृत्तिरूपज्ञानदीपेन अन्तरात्मा अन्तर्मुखचित्तः पश्यति तदुभयैक्यं जानातीत्यर्थः ॥ इह केषांचिद्दर्शनं अर्चिरादिमार्गेण लोकान्तरप्राप्तिः मुक्तिः इति, तन्निराकर्तुम् ' अत्र ब्रह्म समश्नुते ' इत्यादि श्रुत्या पूर्वोक्तज्ञानिनो मुक्तिस्वरूपमाह--- यत्र यत्र मृतो ज्ञानी येन केनापि मृत्युना । यथा सर्वगतं व्योम तत्र तत्र लयं गतः ॥ ८॥ सर्वगतं सर्ववस्त्ववच्छिन्नं व्योम आकाशं यथा अवच्छेदकवस्तुनाशे तत्रैव महाव्योम्नि लयम् ऐक्यं प्राप्नोति, तथा सर्वगतः ज्ञानी सर्वत्र परिपूर्णब्रह्माभिन्नः शरीराद्युपाधिना भिन्नत्वेन व्यवह्रियमाणः ब्रह्मापरोक्ष- ज्ञानी येन केन मृत्युना यत्र कुत्रापि वा मृतः अज्ञानोपादानक- देहं ज्ञानेन नाशयति, तत्र तत्रैव ब्रह्मणि लयम् ऐक्यं गतः प्राप्त एवेत्यर्थः । अनेन तत्त्वज्ञानिनो देशकालाद्यपेक्षा मरणे मा भूदिति सूचितम् । भृग्वग्न्याद्यपमृत्युनिमित्तक- प्रायश्चित्तान्यपि आरुरुक्ष्वधिकृतानि इति वेदितव्यम् ॥ एकस्यापि जीवस्य देहाद्यवच्छेदकभेदेन नानात्वं जीव- स्याणुत्वपक्षे न सम्भवतीत्याशङ्क्य जीवस्य व्यापित्वं साधयति --- शरीरव्यापितं व्योम भुवनानि चतुर्दश । निश्चलो निर्मलो देही सर्वव्यापी निरञ्जनः ॥ ९॥ शरीरव्यापितं शरीरादिसर्वद्रव्यव्यापितं व्योमं आकाशं यथा भुवनानि चतुर्दश भूर्भुवरादीनि व्यापितं सत् वर्तते, एवं निश्चलः क्रियारहितः निर्मलः परिशुद्धः निरञ्जनः स्वयं- प्रकाशो देही जीवः सर्वव्यापी जगद्व्यापीत्यर्थः । जगन्मात्रस्य अविद्यापरिणामत्वेन जगदुपादानाविद्याप्रतिबिम्बस्यैव जीवत्वेन तस्य व्यापित्वमेव नाणुत्वमिति भावः ॥ एवं तत्त्वज्ञानिनो मुक्तिस्वरूपमभिधाय ततः परं तत्त्व- ज्ञानसाधनानुष्ठातुः तदेव सर्वपापप्रायश्चित्तमित्याह--- मुहूर्तमपि यो गच्छेन्नासाग्रे मनसा सह । सर्वं तरति पाप्मानं तस्य जन्म शतार्जितम् ॥ १०॥ यः ज्ञानसाधनानुष्ठाता मनसा सह साधनेन सह मुहूर्तमात्रमपि नासाग्रे गच्छेत् नासाग्रे तत्त्वज्ञानार्थं निश्चलं चक्षुः कुर्यात्, तस्य तादृशहंसमुद्रानिष्ठस्य जन्मशतार्जितं अनेकजन्मसंचितं सर्वं यत्पापमस्ति तत्सर्वं पाप्मानं पापं योगी तरति नाशयतीत्यर्थः । तदुक्तं ' यस्य ब्रह्मविचारणं क्षणमपि प्राप्नोति धैर्यं मनः ' ' कुलं पवित्रं जननी कृतार्था विश्वम्भरा पुण्यवती च तेन ' इत्यादि--- मुक्तिः द्विविधा---सद्यो मुक्तिः क्रममुक्तिरिति, तत्र सद्यो मुक्तिः ' यत्र यत्र मृतो योगी ' इत्यादिना, ' अत्र ब्रह्म समश्नुते ' इत्यादि श्रुत्या च, प्रतिपादिता । ' ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं परम् ' इत्यादिभिः प्रतिपादितां क्रममुक्तिं निरूपयितुम्, अर्चिरादिमार्गं गन्तुः पुनरावृत्तिराहित्यम्, धूमादिमार्गं गन्तुः पुनरावृत्तिं च, निरूपयितुं योगधारणया तदुभयमार्गस्वरूपमाह--- दक्षिणे पिङ्गला नाडी वह्निमण्डलगोचरा । देवयानमिति ज्ञेया पुण्यकर्मानुसारिणी ॥ ११॥ दक्षिणे देहस्य दक्षिणे भागे वह्निमण्डलगोचरा वह्नि- मण्डलं सम्प्राप्ता पुण्यकर्मानुसारिणी पुण्यकर्मभिः प्राप्तुं योग्या पिङ्गला नाम नाडी मूलाधारादारभ्य दक्षिणभागतः सहस्रारपर्यन्तं व्यामा या नाडी सा देवयानमिति ज्ञेया पुनरा- वृत्तिरहितार्चिरादिमार्ग इति ज्ञेयत्यर्थः ॥ धूमादिमार्गप्रापकेलानाडीस्वरूपमाह--- इला च वामनिश्वाससोममण्डलगोचरा । पितृयानमिति ज्ञेयं वाममाश्रित्य तिष्ठति ॥ १२॥ इलानाडी वामनिश्वाससोममण्डलगोचरा वामनासापुट- मार्गेण चन्द्रमण्डलं प्राप्ता वाममाश्रित्य तिष्ठति, मूला- धारादारभ्य वामभागतः सहस्रारपर्यन्तं गता या नाडी सा पितृयानमिति ज्ञेया पुनरावृत्त्यनुकूलधूममार्ग इति ज्ञेयेत्यर्थः ॥ एवमिलापिङ्गलानाड्योः स्थानं स्वरूपं च अभिधाय सुषुम्नानाडीस्वरूपं निरूपयितुं तत्सम्बन्धिन्याः ब्रह्म- दण्ड्याः स्वरूपमाह--- गुदस्य पृष्ठभागेऽस्मिन्वीणादण्डस्य देहभृत् । दीर्घास्ति मूर्ध्निपर्यन्तं ब्रह्मदण्डीति कथ्यते ॥ १३॥ अस्मिन् देहे गुदस्य मूलाधारस्य पृष्ठभागे पश्चिम- भागे वीणादण्डस्य देहभृत् वीणायास्तन्त्र्याधारभूतो यो दण्डः तदाकारभृत् तद्वत्स्थितं मूर्ध्निपर्यन्तं सहस्रारपर्यन्तव्याप्तं यद्दीर्घास्ति दीर्घं पृष्ठभाग- स्थितम्, तत् ब्रह्मनाडीति कथ्यते ब्रह्मैक्यप्रतिपादकसुषुम्ना- धारत्वादिति भावः ॥ इतः परं सुषुम्नानाडीस्वरूपमाह--- तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः । तस्य ब्रह्मदण्ड्याख्यास्थ्नः अन्ते अग्रे सूक्ष्मं सुषिरं रन्ध्रं वर्तत इति शेषः, तद्गता नाडी सूरिभिः विवेकिभिः ब्रह्मनाडीति ब्रह्मैक्यप्रतिपादिका नाडीति कथ्यत इति शेषः ॥ तामेव नाडीं निरूपयति--- इलापिङ्गलयोर्मध्ये सुषुम्ना सूक्ष्मरूपिणी । सर्वं प्रतिष्ठितं यस्मिन्सर्वगं सर्वतोमुखम् ॥ १४॥ इलापिङ्गलनाड्योर्मध्ये सूक्ष्मरूपिणी अतिसूक्ष्मबिस- तन्तुरूपिणी मूलाधारादारभ्य स्वाधिष्ठानादिचक्रद्वारा सहस्रारपर्यन्तं गता कुण्डलिनी शक्तिरिति प्रसिद्धा या सुषुम्ना नाडी, तस्याः अग्रे उपरि सर्वं सर्वात्मकं विश्वतोमुखं सर्व- द्रष्टृ सर्वगं सर्वव्याप्तं यत्तेजः ब्रह्मज्योतिः, तत् प्रतिष्ठितं विद्यत इत्यर्थः, ' तस्याः शिखाया मध्ये ' इति श्रुतेः । ' शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति--- ' इत्यादिश्रुतेः । सुषुम्नामार्गगतस्य ब्रह्मप्राप्तिं निरूपयितुं तस्याः कुण्डलिन्याः सकलजगदात्मकत्वं सकलजगदाधारत्वं सर्व- देवात्मत्वं सर्ववेदाधारकत्वं च आह--- तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः । भूतलोका दिशः क्षेत्रसमुद्राः पर्वताः शिलाः ॥ १५॥ द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः । स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः ॥ १६॥ बीजं बीजात्मकास्तेषां क्षेत्रज्ञाः प्राणवायवः । सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् ॥ १७॥ सूर्यसोमाग्निपरमेश्वराः सूर्यमण्डलसोममण्डल- वह्निमण्डलानि तन्मध्यस्थितेश्वरश्च, भूतलोकाः पञ्च- महाभूतानि व्योमादीनि, चतुर्दश भुवनानि भूर्भुवः- सुवरादीनि, दिशः पूर्वादयः, क्षेत्राणि वाराणस्यादीनि, समुद्राः लवणेक्ष्वादयः, पर्वताश्च मेर्वादयः, शिलाः यज्ञशिलाः चित्तशिलादयः, द्वीपाः जम्ब्वादयः, निम्नगाः जाह्नव्यादयः, वेदाः ऋग्वेदादयः, शास्त्राणि मीमांसादीनि, कलाः चतुःषष्टिकलाः, अक्षराः ककारादीनि, स्वराः अकारादयः, मन्त्राः गायत्र्यादयः, पुराणानि ब्रह्माण्डादीनि, गुणाः सत्त्वादयः, बीजं प्रधानम्, बीजात्मकाः महदादयः, क्षेत्रं जानन्तीति क्षेत्रज्ञाः जीवाः, प्राणवायवः--- प्राणादयः पञ्चनागादयः पञ्च आहत्य दशवायवः, सर्व एते तस्य सुषुम्नानाडीविशेषस्य मध्यगताः यस्मात्, तस्मात्कारणात् सर्वं जगज्जातं सुषुम्नान्तर्गतं कुण्डलिनीशक्त्यन्तर्भूत- मित्यर्थः । अत एव तस्मिन् सर्वं प्रतिष्ठितम् इति, ' तस्यान्ते सुषिरꣳ सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम् ' इति श्रुतेः ॥ तस्मात्सर्वजगदुत्पत्तिकारणमाह--- नानानाडीप्रसवकं सर्वभूतान्तरात्मनि । ऊर्ध्वमूलमधः शाखं वायुमार्गेण सर्वगम् ॥ १८॥ सर्वभूतानां सर्वप्राणिनां अन्तरात्मनि देहे नाना- नाडीप्रसवकं नानानाड्युत्पत्तिस्थानभूतम्, ऊर्ध्वमूलं ऊर्ध्वं ब्रह्म तदेव मूलं उत्पत्तिस्थानं यस्य तत्, अधः- शाखं हिरण्यगर्भादिसृष्टिपरम्पराख्यादधः प्रसृत- तिर्यगादिशाखम्, वायुमार्गेण प्राणापानादिवायुमार्गेण, सर्वगं सर्वव्याप्तं सत् जगदुपादानतया तिष्ठतीत्यर्थः ॥ ब्रह्मोपासनस्थानतया इतरनाड्याधिक्यमाह--- द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः । कर्ममार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मकाः ॥ १९॥ अधश्चोर्ध्वगतास्तासु नवद्वाराणि शोधयन् । वायुना सह जीवोर्ध्वज्ञानी मोक्षमवाप्नुयात् ॥ २०॥ वायुगोचराः वायुसंचारानुकूलाः नाड्यः सिराः द्विसप्ततिसहस्राणि द्वयाधिकसप्ततिसहस्राणि कर्ममार्गेण सुषिराः पुनरावृत्तिप्रापकसुषिरवत्यः; अत एव तिर्यञ्चः तिर्यग्भूताः सुषिरात्मकाः रन्ध्रप्रधानाः अधश्चोर्ध्व- गताः अधोभागमूर्ध्वभागं च गताः सर्वत्र व्याप्ताः; तासु नाडीषु मध्ये सुषुम्नानाड्या नव द्वाराणि शिधयन् प्राणायामेन मुखादिसर्वद्वाराणि शोधयन्; जीवः वायुना सह ऊर्ध्वज्ञानी ब्रह्मापरोक्षज्ञानी सन् मोक्षमवाप्नुयात् ब्रह्मैक्यं प्राप्नुयादित्यर्थः । ' तयोर्ध्वमायन्नमृतत्व- मेति ' इत्यादिश्रुतेरिति भावः ॥ तस्याः कुण्डलिन्याः सकलजगदाधारकत्वेन च उपासनां कर्तुमस्यामेव सर्वाणीन्द्रादिपुराणि कल्पयति--- अमरावतीन्द्रलोकोऽस्मिन्नासाग्रे पूर्वतो दिशि । अग्निलोको हृदि ज्ञेयश्चक्षुस्तेजोवती पुरी ॥ २१॥ अस्मिन्नाडीविशेषे पूर्वतो दिशि पूर्वस्यां दिशि नासाग्रे नासिकाग्रभागे अमरावती अमरावत्याख्यः इन्द्रलोकः इन्द्रादि- देवावासभूतो लोकः वर्तत इति शेषः । तथा अनन्तरं चक्षुः दक्षिणं नेत्रं तेजोवती तेजोवती नाम पुरीति प्रसिद्ध, हृदि हृदये अग्निलोकः अग्न्यादिदेवावासभूतो लोकः ज्ञेयः वर्तत इति शेषः ॥ याम्या संयमनी श्रोत्रे यमलोकः प्रतिष्ठितः । नैरृतो ह्यथ तत्पार्श्वे नैरृतो लोक आश्रितः ॥ २२॥ श्रोत्रे दक्षिणे कर्णे याम्या यमसम्बन्धिनी संयमिन्याख्यो यमलोकः यमादिदेववासभूतो लोकः प्रतिष्ठितः अस्तीत्यर्थः । अथ तत्पार्श्वे दक्षिणकर्णभागे नैरृतः निरृतिसम्बन्धो नैरृत्याख्यो लोकः आश्रितः अस्तीत्यर्थः ॥ किंच--- विभावरी प्रतीच्यां तु पृष्ठे वारुणिका पुरी । वायोर्गन्धवती कर्णपार्श्वे लोकः प्रतिष्ठितः ॥ २३॥ प्रतीच्यां पश्चिमदिशि पृष्ठे पश्चिमभागे विबावरी- संज्ञका वारुणिका पुरी वरुणसम्बन्धिनी पुरी वर्तत इति शेषः; कर्णपार्श्वे वामकर्णसमीपे गन्धवती गन्ध्वतीपुर्याख्या वायोर्लोकः प्रतिष्ठितः अस्तीत्यर्थः ॥ किंच--- सौम्या पुष्पवती सौम्ये सोमलोकस्तु कण्ठतः । वामकर्णे तु विज्ञेयो देहमाश्रित्य तिष्ठति ॥ २४॥ सौम्ये उत्तरदिशि कण्ठतः कण्ठदेशादारभ्य वामकर्णे वामश्रोत्रे सौम्या कुबेरसम्बन्धिनी पुष्पवती पुष्पवत्याख्या सोमलोकः एवं देहमाश्रित्य तिष्ठतीति विज्ञेयः ॥ किंच--- वामे चक्षुषि चैशानी शिवलोको मनोन्मनी । मूर्ध्नि ब्रह्मपुरी ज्ञेया ब्रह्माण्डं देहमाश्रितम् ॥ २५॥ वामे चक्षुषि वामनेत्रे ऐशानी ईशानसम्बन्धिनी मनोन्मनी मनोन्मनीपुर्याख्यः शिवलोकः शिवावासभूतो लोकः ज्ञेयः; मूर्ध्नि शिरसि ब्रह्मपुरी ब्रह्मलोकः ज्ञेयः; एवं ब्रह्माण्डं सर्वजगज्जातं देहमाश्रितं देह एव वर्तत इत्यर्थः ॥ देहे एव लोकादिकल्पनामाह--- पादादधः शिवोऽनन्तः कालाग्निप्रलयात्मकः । अनामयमधश्चोर्ध्वं मध्यमं तु बहिः शिवम् ॥ २६॥ पादादधः पादाधःप्रदेशे अनन्तः महाशेषः वर्तते, स तु कीदृशः ? शिवः रुद्रात्मकः; पुनः कीदृशः ? कालाग्निप्रलयात्मकः प्रलयकालाग्न्यात्मक इत्यर्थः; ' त्रिलोक्यां दह्यमानायां संकर्षणमुखाग्निना ' इति स्मृतेरिति भावः । तदधः किमित्याशङ्क्याह---अधश्चोर्ध्वमिति अधोदेशे ऊर्ध्व- देशे मध्यदेशे बहिर्देशे च सर्वत्र अनामयं निरञ्जनं शिवं मङ्गलात्मकं ब्रह्मैव वर्तत इत्यर्थः ॥ शेषोपरि अतलादिलोककल्पनामाह--- अधः पदोऽतलं विद्यात्पादं च वितलं विदुः । नितलं पादसन्धिश्च सुतलं जङ्घमुच्यते ॥ २७॥ महातलं तु जानु स्यादूरुदेशो रसातलम् । कटिस्तालतलं प्रोक्तं सप्त पातालसंज्ञया ॥ २८॥ पदः पादस्याधोदेशे अतललोकं विद्यात्; पादं तु वितलं लोकमिति विदुः योगिन इति शेषः; पादसन्धिं तु गुल्फस्थानं नितलं विद्यात्; जङ्घं सुतलमित्युच्यते; जानुदेशः महातलं स्यात्; ऊरुदेशः रसातलं विद्यात्; कटिदेशः तलातलं प्रोक्तम्; एवं देहावयवाः सप्त पातालादिलोकसंज्ञया कल्पनीया इत्यर्थः ॥ किंच--- कालाग्निनरकं घोरं महापातालसंज्ञया । पातालं नाभ्यधोभागो भोगीन्द्रफणिमण्डलम् ॥ २९॥ वेष्टितः सर्वतोऽनन्तः स बिभ्रज्जीवसंज्ञकः । घोरं भयंकरं कालाग्निनरकं कालाग्निदेशवत् कालाग्न्या- कारसह्यनरकदेशवत् भोगीन्द्रफणिमण्डलं भोगीन्द्राः सर्पराजानः फणयः इतरे सर्पाः तेषां मण्डलं समूहवत् यत् पातालम्, तत् नाभ्यधोभागे नाभ्यधःप्रदेशे महापातालसंज्ञया अभिहितमिति विद्यात्; स जीवसंज्ञकः जीवसंज्ञावान् शेषः सर्वतः सर्वं वेष्टितः सन् बिभ्रन्सन् स्थितः कुण्डलाकारेणावृत्य वर्तत इत्यर्थः ॥ भूलोकं नाभिदेशं तु भुवर्लोकं तु कुक्षितः ॥ ३०॥ हृदयं स्वर्गलोकं विद्यात्, तत्र सूर्यादिग्रहाः नक्षत्राणि च तिष्ठन्तीत्यर्थः । शेषं स्पष्टम् ॥ किंच--- हृदयं स्वर्गलोकं तु सूर्यादिग्रहतारकाः । सूर्यसोमसुनक्षत्रं बुधशुक्रकुजाङ्गिराः ॥ ३१॥ मन्दश्च सप्तमो ह्येष ध्रुवोऽन्तः स्वर्गलोकतः । सूर्यसोमेत्यादि सूर्यादिग्रहनक्षत्रमित्यस्य व्याख्यानम् । ध्रुवोऽन्तः स्वर्गलोकतः स्वर्गलोकस्यान्ते ध्रुवो वर्तत इत्यर्थः ॥ एवं कल्पनाफलमाह हृदये कल्पयन्योगी तस्मिन्सर्वसुखं लभेत् ॥ ३२॥ योगी हृदये एव सूर्यादिग्रहनक्षत्रादीनि कल्पयन् तस्मिन् हृदि कल्पनाविशेषेण सर्वसुखं लभेत्; तत्तल्लोकगतसुखानि प्राप्नोतीत्यर्थः ॥ किंच--- हृदयस्य महर्लोकं जनोलोकं तु कण्ठतः । तपोलोकं भ्रुवोर्मध्ये मूर्ध्नि सत्यं प्रतिष्ठितम् ॥ ३३॥ हृदयस्योपरीति शेषः । स्पष्टमन्यत् ॥ एवं देहे एव सर्वलोककल्पनामुक्त्वा तल्लयप्रकारमाह--- ब्रह्माण्डरूपिणी पृथ्वी तोयमध्ये विलीयते । अग्निना पच्यते तोयं वायुना ग्रस्यतेऽनलः ॥ ३४॥ आकाशं तु पिबेद्वायुं मनश्चाकाशमेव च । बुद्ध्यहङ्कारचित्तं च क्षेत्रज्ञः परमात्मनि ॥ ३५॥ अत्र तामसाहङ्कारकार्याणां पृथिव्यादीनां सात्त्विक- अहङ्कारकार्ये मनसि क्रमेण लयकथनं मनोवृत्तिविषय- त्वादुपचारात् इति मन्तव्यम् । तच्च मनो बुद्धौ बुद्धि- रहङ्कारे अह्ङ्कारं चित्ते चित्तं क्षेत्रज्ञे क्षेत्रज्ञः परमात्मनि एवं सर्वात्मनि प्रविलापयेदित्यर्थः ॥ एवं योगाभ्यासेन ब्रह्मैक्यानुसन्धानवतः सकल- दुरितनिवृत्तिरित्याह--- अहं ब्रह्मेति मां ध्यायेदेकाग्रमनसा सकृत् । सर्वं तरति पाप्मानं कल्पकोटिशतैः कृतम् ॥ ३६॥ स्पष्टोऽर्थः ॥ जीवस्य मुक्तिस्वरूपमाह--- घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नश्यति नाकाशं तद्वज्जीव इहात्मनि ॥ ३७॥ घटे नीयमाने पूर्वदेशादन्यदेशं प्राप्यमाने घटे नष्टे च यथा घटाकाशं महाकाशे ऐक्यं प्राप्नोति, तद्वज्जीवः परमात्मनीत्यर्थः ॥ किंच--- घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्छति निरालम्बं ज्ञानालोक्यं न संशयः ॥ ३८॥ यः आत्मानं जीवं घटाकाशमिव परमात्मनि लयं गतं तत्त्वतः यथार्थतया वेत्ति, सः ज्ञानी निरालम्बं निःसङ्गं ज्ञानालोक्यं ब्रह्मप्रकाशात्मतत्त्वं गच्छति प्राप्नोति, न संशयः सन्देहो नास्तित्यर्थः ॥ एतस्य ज्ञानयोगस्य किमपि तुल्यमित्याह--- तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥ ३९॥ आलोड्य चतुरो वेदान्धर्मशास्त्राणि सर्वदा । यो वै ब्रह्म न जानाति दर्वी पाकरसं यथा ॥ ४०॥ यथा खरश्चन्दनभारवाही सारस्य वाही न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य सारं त्वजानन्खरवद्वहेत्सः ॥ ४१॥ चन्दनभारवाही श्रीचन्दनकाष्ठभारवाही खरः चन्दनसारवाही न भवति तद्गन्धानुभववान्न भवति, एवं बहूनि शास्त्राण्यधीत्यपि सारं तु अजानन् ब्रह्म न जानन् खरवत् शोच्यः आक्रोश्य इत्यर्थः ॥ ब्रह्मज्ञानपर्यन्तं सर्वमनुष्ठेयम्, ज्ञाते तु सर्वं व्यर्थमित्याह--- अनन्तकर्म शौचं च जपो यज्ञस्तथैव च । तीर्थयात्रादिगमनं यावत्तत्त्वं न विन्दति ॥ ४२॥ देहे भिन्नेऽप्यात्मैक्यं दृष्टान्तेनाह --- गवामनेकवर्णानां क्षीरं स्यादेकवर्णकम् । क्षीरवद्दृश्यते ज्ञानं देहिनां च गवां यथा ॥ ४३॥ अनेकवर्णानां शुक्लादिभिन्नभिन्नवर्णानां गवां क्षीरं यथा एकवर्णम्, मीमांसकमते गुणव्यक्तेरेकत्वादिति भावः; तथा भिन्नभिन्नानां देहिनां ज्ञानं ब्रह्म एकं दृश्यत इत्यर्थः ॥ अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे बन्धमोक्षाय न ममेति ममेति च ॥ ४४॥ ममेति बध्यते जन्तुर्न ममेति विमुच्यते ॥ ममेति ममताविषयत्वेन स्वीकृतं सर्वं बन्धाय भवति; न ममेति ममत्वं विहाय त्यक्तं मोक्षायैवेत्यर्थः । स्पष्टमन्यत् ॥ अहङ्कारत्यागकार्यमाह--- मनसो ह्युन्मनीभावाद्द्वैतं नैवोपलभ्यते । यदा यात्युन्मनीभावं तदा तत्परमं पदम् ॥ ४५॥ मनसः चित्तस्य उन्मनीभावात् अहङ्कारत्यागात् द्वैतं नैवोपलभ्यते, अहङ्कारोपाधिकत्वाद्भेदस्येति भावः । तथा उन्मनीभावं मनो यदा याति निष्कृष्टाहङ्कार चैतन्यं भवति तदा तदेव परमं पदं मोक्ष इत्यभिधीयते ॥ ब्रह्मविचारमकुर्वतः सर्वं व्यर्थमित्याह--- हन्यान्मुष्टिभिराकाशं क्षुधार्तः कण्डयेत्तुषम् । नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते ॥ ४६॥ यो वेदशास्त्राण्यधीत्य श्रुत्वापि नाहं ब्रह्मेति जानाति तस्य सर्वाणि शास्त्रणि प्रयासकराण्येव । यथा क्षुधार्तः मुष्टिभिराकाशं हन्याच्चेति करभङ्ग एव जायते न किमपि फलं यथा वा तुषं कण्डयेदवहन्यात् । अवहननश्रम एव फलं न तु तण्डुलभावः । तद्वन्मुक्तिर्न जायते इति भावः । तदुक्तं भागवते ' तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषा- वधातिनाम् ' इति ॥ इति श्रीगौडपादाचार्यविरचितायां उत्तरगीताव्याख्यायां द्वितीयोऽध्यायः ॥ ॥ तृतीयोऽध्यायः ॥ योगी व्यर्थक्रियालापपरित्यागेन शान्तधीः । तृतीये शरणं यायाद्धरिमेवेति कीर्त्यते ॥ श्रीभगवानुवाच--- अनन्तशास्त्रं बहुवेदितव्य- मल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥ १॥ विवेकिना योगिना सारभूतमध्यात्मशास्त्रमेवोपासितव्यं न त्वन्यत् अशक्यत्वात् अनन्तशास्त्रं पर्यवसानरहितानि शास्त्राणीत्यर्थः । यथाकथंचित्पर्यवसानेऽपि बहु वेदितव्यं तत्तात्पर्याणि बहूनि वेदितव्यानीत्यर्थः । ज्ञातुं शक्यत्वेऽपि कालः स्वल्प एव 'पुंसो वर्षशतं ह्यायुः' इति न्यायात् । तस्माद्यत्सारभूतं सर्वशास्त्राणालोड्य यन्निश्चितमखण्डैकरसं ब्रह्म तदेवोपासितव्यम् । तदुक्तम् ' आलोड्य सर्वशास्त्राणि ' इत्यादि । उक्तं च हरिवंशे---' असत्कीर्तनकान्तारपरिवर्तनपांसुभिः । वाचं हरिकथालापगङ्गयैव पुनीमहे ' इति । तत्र दृष्टान्तमाह---हंसो यथा अम्बुमिश्रत्वेऽपि अम्ब्वंशं विहाय क्षीरमेवोपादत्ते तद्वदिति भावः ॥ तस्मात्पाण्डित्यं निर्विद्येत्यादिश्रुत्या पाण्डित्यप्रकटनस्य ब्रह्मोपासनाप्रतिबन्धकत्वेन सर्वमपि पाण्डित्यं हेयमित्याह--- पुराणं भारतं वेदशास्त्राणि विविधानि च । पुत्रदारादिसंसारो योगाभ्यासस्य विघ्नकृत् ॥ २॥ योगाभ्यासस्य आत्मैक्ययोगाभ्यासस्य । शेषं स्पष्टम् ॥ किं च आत्मविचारमन्तरेण इतरशास्त्राणि न विचारयितव्या- नीत्याह--- इदं ज्ञानमिदं ज्ञेयं यः सर्वं ज्ञातुमिच्छति । अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥ ३॥ सहस्रवर्षपरिमितायुष्मानपि एकैकस्य शास्त्रस्य अन्तं पारं भावनिश्चयं वा नाधिगच्छति; किमुत वक्तव्यं सर्वाणि शास्त्राणि नाधिगच्छतीति भावः ॥ तर्हि सर्वमपि विहाय अधिगन्तव्यं वा किमित्याशङ्क्याह--- विज्ञेयोऽक्षरतन्मात्रं जीवितं चापि चञ्चलम् । विहाय शास्त्रजालानि यत्सत्यं तदुपास्यताम् ॥ ४॥ अक्षरतन्मात्रं नाशरहितसत्तामात्रात्मक आत्मा विज्ञेयः । तत्र च वैराग्यार्थं जीवितमपि चञ्चलमिति विज्ञेयम्, ' चरमश्वासवेलायां यत्कृत्यं तत्सदा कुरु ' इति न्यायात् । तस्माच्छास्त्रजालानि विहाय यत्सत्यं तदेवोपास्यतामिति ॥ इन्द्रियजये वैराग्यं स्वत एव जायत इत्याह--- पृथिव्यां यानि भूतानि जिह्वोपस्थनिमित्तिकम् । जिह्वोपस्थपरित्यागे पृथिव्यां किं प्रयोजनम् ॥ ५॥ जिह्वोपस्थनिमित्तिकम् आहारव्यवायनिमित्तं सत् पृथिव्यां यानि भूतानि सन्ति, प्रायशः तत्परित्यागी चेत्, पृथिव्यां किं प्रयोजनम्, किमपि प्रयोजनं नास्तीत्यर्थः, ' जितं सर्वं जिते रसे ' इति न्यायात् ॥ एवमात्मसमाधिनिष्ठस्य सर्वत्र ब्रह्मदर्शनमेव, नान्यद्दर्शनमित्याह--- तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् । योगिनो न प्रपद्यन्ते आत्मध्यानपरायणाः ॥ ६॥ तीर्थस्नानादिना देवतापूजादिना च अध्यात्मसमाधौ सिद्धे पुनस्तेन किं प्रयोजनमिति भावः । स्पष्टमन्यत् ॥ योगिनः सर्वत्र ब्रह्मदर्शनमेवेत्येतत् अधिकारिभेदे- नोपपादयति--- अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनाम् ॥ ७॥ द्विजातीनां कर्मकाण्डरतानाम् अग्निर्दैवतम्, मुनीनां मननशीलानां योगिनां हृदि हृत्कमलमध्यस्थिता परि- च्छिन्नमूर्तिर्दैवतम्, स्वल्पबुद्धीनां प्राकृतानां तु मृत्पाषाणादिप्रतिमैव दैवतम्, समदर्शिनां तु आरूढानां सर्वत्र ' सर्वं खल्विदं ब्रह्म ' इति श्रुत्या सर्वमपि दैवतमेवेत्यर्थः ॥ तस्मात् ज्ञानेनैव ज्ञातव्यम्, ज्ञानाभावे ब्रह्म न पश्यतीत्याह--- सर्वत्रावस्थितं शान्तं न प्रपश्येज्जनार्दनम् । ज्ञानचक्षुर्विहीनत्वादन्धः सूर्यमिवोदितम् ॥ ८॥ सर्वत्रावस्थितं सर्वत्र परिपूर्णमपि अज्ञः न पश्यति; तत्र हेतुः ज्ञानचक्षुर्विहीनत्वात् ज्ञानाख्यचक्षूरहितत्वात्, तत्र दृष्टान्तमाह---अन्ध इति । स्पष्टमन्यत् ॥ सर्वं ब्रह्मेत्येत्तदुपपादयति--- यत्र यत्र मनो याति तत्र तत्र परं पदम् । तत्र तत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥ ९॥ यत्र यत्र मनो याति मनो यद्यद्विषयीकरोति तत्र तत्र परं सर्वोत्कृष्टं पदं प्राप्य स्थानं परं ब्रह्मैव समवस्थितम् । घटः स्फुरतीत्यादिस्फुरणानुभवादिति भावः ॥ एतादृशस्य योगिनः सर्वमपि प्रत्यक्षतया भासत इत्याह--- दृश्यन्ते दृशि रूपाणि गगनं भाति निर्मलम् । अहमित्यक्षरं ब्रह्म परमं विष्णुमव्ययम् ॥ १०॥ परमं सर्वोत्कृष्टमक्षरमपक्षयरहितमव्ययं नाशरहितं विष्णुं परमात्मानमहमित्यभेदेनैव यो भावयति तस्य भावयितुः दृशि ज्ञाने रूपाणि दृश्यन्ते नामरूपा- त्मकानि जगन्ति भासन्त इत्यर्थः । गगनमपि निर्मलं भासते; तथा च सर्वमपि प्रत्यक्षेणानुभवतीत्यर्थः । इयं चारुरु- क्षावस्थायामन्तरापतिता योगसिद्धिरिति तत्त्वज्ञा वर्णयन्ति । आरूढस्य ब्रह्मनिष्ठत्वेनैतद्दर्शनायोगात् । ' या निशा सर्वभूतानाम् ' इति स्मृतेः । दृश्यते चेत्खगाकारं खगाकारं विचिन्तयेत् । सकलं निष्कलं सूक्ष्मं मोक्षद्वारेण निर्गतम् ॥ ११॥ अपवर्गस्य निर्वाणं परमं विष्णुमव्ययम् । सर्वज्योतिर्निराकारं सर्वभूतगुणान्वितम् ॥ १२॥ सर्वत्र परमात्मानं अहमात्मा परमव्ययम् । खगाकारं हंसात्मकं परं ब्रह्म ' हंसो विधिः शङ्कर एव हंसः हंसश्च विष्णुर्गुरुरेव हंसः ' इत्यादि स्मृतेः दृश्यते चेद्यदि प्रकाशेत तर्हि स्वयं ब्रह्मात्मा परब्रह्मात्मकः सन् सकलं तेजोमयं निष्कलं कलातीतं सूक्ष्मं प्रमाणागम्यं मोक्षद्वारेण निर्गतं मोक्षमार्गैकगम्यम् ॥ अपवर्गस्य निर्वाणं मोक्षसुखात्मकं परमं उत्कृष्टं विष्णुं व्यापकम् अव्ययं नाशरहितं सर्वतोज्योतिराकाशं सर्वतः स्वयंप्रकाशं सर्वभूताधिवासिनं सर्वान्तर्नियामकं परमात्मानं खगाकारं हंसात्मकं विचिन्तयेत् ध्यायेदित्यर्थः ॥ एवं चिन्तयतः पापलेशोऽपि नास्तीत्याह--- अहं ब्रह्मेति यः सर्वं विजानाति नरः सदा । हन्यात्स्वयमिमान्कामान्सर्वाशी सर्वविक्रयी ॥ १३॥ सर्वं निषिद्धं कृत्वापि कर्मभिर्न स बध्यते इति, यः सदा सर्वं ब्रह्मेति विजानाति, सर्वाश्यपि सर्वनिषिद्धभक्ष्यपि सर्वविक्रयी सर्वनिषिद्धविक्रय्यपि इमान् कामान् अरिषड्वर्गान् हन्यात् जयेत्, सर्वनिषिद्धकर्म कृत्वापि तैर्निषिद्धकर्मभिर्न बध्यते ॥ क्षणमात्रं वा ब्रह्मध्यानरतस्य नान्यसुखचिन्तेत्याह--- निमिषं निमिषार्धं वा शीताशीतनिवारणम् । अचला केशवे भक्तिर्विभवैः किं प्रयोजनम् ॥ १४॥ शीताशीतनिवारणं यथा तथा शीतोष्णसुखदुःखादि- द्वन्द्वसहिष्णुतया निमिषं निमिषार्धं वा केशवे भक्ति- रचला चेत्, विभवैः भक्त्यतिरिक्तविषयसुखैः किं प्रयोजनमिति ॥ एतादृशो योगी यदि मोक्षमापेक्षेत, तर्हि नान्यविषय- चिन्तां कुर्यादित्याह--- भिक्षान्नं देहरक्षार्थं वस्त्रं शीतनिवारणम् । अश्मानं च हिरण्यं च शाकं शाल्योदनं तथा ॥ १५॥ समानं चिन्तयेद्योगी यदि चिन्त्यमपेक्षते । योगी चिन्त्यं मोक्षं यदि अपेक्षेत, तर्हि देहरक्षणार्थमेव भिक्षान्न चिन्तयेत्, न त्विन्द्रियप्रीत्यर्थमित्यर्थः; वस्त्रं च शीतनिवारणार्थं चिन्तयेत्, न अलंकाराय; अश्मानं पाषाणं हिरण्यं सुवर्णं च शाकं शाल्योदनं च हेयोपादेयवैषम्य- राहित्येन चिन्तयेदित्यर्थः ॥ किं च--- भूतवस्तुन्यशोचित्वं पुनर्जन्म न विद्यते ॥ १६॥ भूतवस्तुनि गतवस्तुनि अशोचित्वे गतमिति दुःखराहित्ये सिद्धे, उपलक्षणमेतत्, आगामिवस्तुनिरपेक्षत्वे सिद्धे, वर्तमानवस्तुनि लब्धे हर्षराहित्ये सिद्धे च पुनर्जन्म न विद्यते ॥ आत्मयोगमवोचद्यो भक्तियोगशिरोमणिम् । तं वन्दे परमानन्दं नन्दनन्दनमीश्वरम् ॥ इति श्रीगौडपादाचार्यविरचितायां उत्तरगीताव्याख्यायां तृतीयोऽध्यायः ॥ Encoded by Sunder Hattangadi sunderh at hotmail.com Proofread by Sunder Hattangadi, Domenico Salvati salvati-domenico@alice.it

% Text title            : Uttara-Gita
% File name             : uttaragiitaa-bhaashya.itx
% itxtitle              : uttaragItAbhAShya
% engtitle              : Uttara Gita Bhashya
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Texttype              : svara
% Author                : Vyasa (?)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi, Domenico Salvati salvati-domenico at alice.it
% Description-comments  : Mahabharata (?)
% Latest update         : May  21, 2008, February 22, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP