मनोबोधः २
मनोबोधः श्रीसमर्थरामदासस्वामिविरचितः
संस्कृत अनुवादक विश्वनाथ केशव छत्रे
रामाप्तिमार्गः
गणाधीशमीशं गुणानामनन्तं जगज्जातमेतद्यतो निर्गुणं तम् ।
चतुर्वाक्खनिं शारदाम्बां च वन्दे सुदृग्गोचरो मेऽस्तु रामाप्तिमार्गः ॥ १॥
मनो! भद्र! भक्तेः पथैव प्रयायात् स्वभावात्ततः श्रीहरिः स्यात् प्रसन्नः ।
जनैर्निन्दितं तत् त्यजेत् सर्वथैव जनैर्वन्दितं सर्वभावेन कुर्यात् ॥ २॥
प्रभाते प्रभुर्ध्यायतां रामचन्द्रो गिरा प्रोच्यतां पावनं रामनाम ।
सदाचारमत्याज्यमेवाचरन्ना सुधन्यो भवेद्भूतलेऽस्मिन्नवश्यम् ॥ ३॥
मनो! माऽस्तु दुर्वासनाया लवोऽपि मनो! मा स्पृशेत्पापबुद्धिस्तथा त्वाम् ।
मनो! मा त्यजेत् सर्वथा धर्मनीती मनो! रेऽस्तु सारोद्धृतौ ते विवेकः ॥ ४॥
मनः! पापसङ्कल्पमाशु त्यज त्वं समाश्रीयतां सत्यसङ्कल्प एव ।
मनो! वासना माऽस्तु शब्दादिकेषु विकाराभिभूतं विनिन्दन्ति लोकाः ॥ ५॥
मनो! माऽस्तु दुःखावहः क्रोध एषो विकारी च कामः प्रकारैरनेकैः ।
मनो! न श्रयेत्पापमूलं च लोभं वसेन्मत्सराद्दम्भदैत्याच्च दूरम् ॥ ६॥
मनो! रेऽवलम्बस्व धैर्यं प्रसङ्गे गिरं मर्मभेत्रीमपि त्वं सहस्व ।
स्वयं ब्रूहि रे! नम्रवाचैव नित्यं मनस्तोषय त्वं ततः सर्वलोकान् ॥ ७॥
स्वदेहावसानेऽपि जीवेत् स्वकीर्तिः तथैव क्रियां सन्मनो रे! कुरुष्व ।
त्वया चन्दनेनेव रे! स्वक्षयेण प्रतोषोऽर्जितव्यस्सतामन्तराणाम् ॥ ८॥
मनः पुष्यतां मा परार्थेऽभिलाषो ह्यतिस्वार्थबुद्धिर्महापातकाय ।
फलं पापकृत्यस्य भोक्ताव्यमेवा चिरेष्टं न चेल्लभ्यते, दुःखमुग्रम् ॥ ९॥
अखण्डं मनो! रक्ष्यतां प्रेम रामे, विषादं विना प्राप्तदुःखं सहेत ।
सुखं मन्यतां तत्, तनोर्यत्तु दुःखं विवेकेन च स्थीयतामात्मरूपे ॥ १०॥
क आप्नोति सर्वाणि लोके सुखानि? विचिन्त्येति रेऽन्वेषितव्यं त्वयैव ।
कृतं कर्म यादृक् पुरा हि त्वयैव तथैवोपभोक्तव्यमस्मिन् शरीरे ॥ ११॥
मनः! सन्ततं चिन्तयेन्न स्वदुःखं मनः! शोकचिन्ते त्यजेद् रे! सुदूरम् ।
विवेकेन सन्त्यज्यतां देहबुद्धि- र्विदेहेन रे! भुज्यतां मुक्तिसौख्यम् ॥ १२॥
गतिः काऽभवद् भो मनो! रावणस्य? सराज्यं त्वकस्माद्विनाशं गतोऽसौ ।
त्यजातो दुरिच्छां मनः! शीघ्रमेव ग्रसिष्णुर्हि कालोऽनुधावत्यखण्डम् ॥ १३॥
तनुं कर्मभिर्लब्धवाञ् जीव एषः, परं सापनीता तु कालेन काले ।
महान्तोऽपि मृत्योः पथैव प्रयाता असङ्ख्याश्च जाता मृताश्चापि मह्याम् ॥ १४॥
इयं मर्त्यभूमिर्मनः ! सत्यदृष्ट्या, समस्ताश्च जीवा अहन्तावदृप्ताः ।
चिरञ्जीव्यशेषं च ते मन्यमाना, अकस्मात् परित्यज्य सर्वं प्रयान्ति ॥ १५॥
अथैकं मृतं शोचतीह द्वितीयस् तमन्वेत्यकस्मादहो ! सोऽपि शोचन् ।
सुदुष्पूरलोभो मनःक्षुब्धतायै, स आप्नोति तस्मात् पुनर्जन्म जीवः ॥ १६॥
वृथैवोह्यते मानवेनेह चिन्ता, भवत्येव भावि ह्यकस्मात् समस्तम् ।
नरो भोगमाप्नोति कर्मानुरूपं, विषादं श्रयत्यल्पधीस्तद्वियोगात् ॥ १७॥
विना राममन्येन नाशा निधेया, न गेया च कीर्तिर्मनो ! मानवस्य ।
स्तुतो यः पुराणैस्तथा वेदशास्त्रैः, स्तवात्तस्य सर्वे स्तुता गौरवार्हाः ॥ १८॥
मनः ! सर्वथा मा सखे ! प्रोज्झ सत्यम्, असत्यं मनो ! मा प्रतिष्ठापयस्व ।
मनो ! रे वदेत् सत्यवाचैव सत्यम्, असत्यं त्वसत्यं, मनः ! सन्त्यजेत्तत् ॥ १९॥
क्रियान् रे ! ऽहह ! क्लेशदो गर्भवासः, प्ररुद्धो मनः ! पच्यते तत्र जीवः ।
अधोवक्त्रजीवस्य दुःखं महत्तद्- मनो ! मास्तु तादृक्षकृच्छ्रं पुनस्ते ॥ २०॥
मनो ! मास्तु जन्मप्रसूर्वासना ते, न वा कामना द्रव्यदारादिकानाम् ।
मनो ! यातना दुःसहा गर्भवासे, मनो ! भद्र ! सम्मेलय द्राक् सरामम् ॥ २१॥
मनः ! सज्जन ! त्वं हितं मे कुरुष्व, दृढं राघवं धारयान्तः सदैव ।
त्रिलोकाधिपोऽसौ हनूमत्प्रभूश्च महाराज उद्धारकर्ता जनानाम् ॥ २२॥
मनो ! ब्रूहि माऽन्यद् विना रामकीर्तिं, वृथा भाषणान्नास्ति रे ! सौख्यलाभः ।
हरत्येष तेऽनुक्षणं काल आयुस्- ततस्त्वां नु को मोचयेद् देहपाते ?॥ २३॥
विना राघवं किं वृथा क्लेशितव्यं ? पृथग्लोकवत् किं वृथा जल्पितव्यम् ? ।
मनो ! वाचि ते रामानामास्त्वखण्डं, न सम्बाधतां त्वामहन्ताघरूपा ॥ २४॥
मनो ! भद्र ! नोद्विज्यतां बोधनान्मे, कुतो रामलाभो भवेदन्यथा ते! ।
अवश्यं समायाति दुःखं सुखान्ते, विनङ्क्ष्यत्यशेषं च काले समस्तम् ॥ २५॥
कृता भूरियत्ना वपूरक्षणार्थं, तदन्ते तु कालेन कालेऽपनीतम् ।
भजानन्यभक्त्या रघुश्रेष्ठमेनं, त्यजाशेषचिन्तां च संसारजन्याम् ॥ २६॥
भवात् किं वृथा भीरुवद् रे! बिभेषि ? त्यजाशेषभीतिं च धैर्यं श्रयस्व ।
समर्थोऽन्तिके रक्षिता राम एष, उपेक्षेत न क्रोधतप्ते कृतान्ते ॥ २७॥
जहात्येष दासप्रियो नैव रामः
धनुर्धारिरामः स रे! दीननाथः पुरो वीक्ष्य तं कम्पते त्वन्तकोऽपि ।
मनः सत्यमेतन्न भोः शङ्कनीयं जहात्येष दासप्रियो नैव रामः ॥ २८॥
त्रिलोक्या तु यन्नूपुरं गर्जतीव यद् 'अन्ते जयी रामदासः सदैव' ।
अयोध्यामशेषां दिवं यो निनाय जहात्येष दासप्रियो नैव रामः ॥ २९॥
समर्थस्य दासे क्षणं वक्रदृष्टिं क उत्क्षेस्तुमस्यां क्षितौ स्यात् सुधृष्टः ।
मुदा वर्ण्यते यस्य लीला त्रिलोके जहात्येष दासप्रियो नैव रामः ॥ ३०॥
महासङ्कटेभ्यः सुरा येन मुक्ता गुणी सर्वतो यो बलिष्ठः प्रतापी ।
सदा स्मर्यते यः शिवाशङ्कराभ्यां जहात्येष दासप्रियो नैव रामः ॥ ३१॥
अहल्या शिलारूपतो येन मुक्ता पदस्पर्शमात्रेण दिव्या कृता च ।
ययुर्विक्लमं वर्णने यस्य वेदा जहात्येष दासप्रियो नैव रामः ॥ ३२॥
शशी भास्करस्तारका मेघमाला वसन्तीह यावच्च मन्दारमेरू ।
चिरञ्जीविन्तां येन नीतौ स्वदासौ जहात्येष दासप्रियो नैव रामः ॥ ३३॥
उपेक्षा तु सम्भाव्यते नैव रामात् परं चञ्चलं तन्मनो मानवस्य ।
पुरोवाच यो 'भक्तचिन्ता वहामि' जहात्येष दासप्रियो नैव राम ॥ ३४॥
नरो यादृशं भावमन्तर्बिभर्ति वसत्यन्तरे तादृशस्तस्य देवः ।
अनन्यस्य यो रक्षिता चापपाणिः जहात्येष दासप्रियो नैव रामः ॥ ३५॥
समीपस्थ एवास्ति देवः सदैव कृपालुः परीक्षेच्छुकस्तु क्षणैकम् ।
सुस्वानन्दरूपश्च मोक्षप्रदो यो जहात्येष दासप्रियो नैव रामः ॥ ३६॥
यथा प्रत्यहं चक्रवाकार्थमर्कः तथा धावति द्राक् प्रभुः सङ्कटे यः ।
नदत्यम्बरे डिण्डिमो यस्य भक्तेः जहात्येष दासप्रियो नैव रामः ॥ ३७॥
मनः! सज्जन! स्थीयतां रामरूपे!
मनः! प्रार्थना मामिकेयं त्वदग्रे, सदा राममीक्षस्व साश्चर्यमेनम् ।
अवज्ञायतां मा क्षणं बोध एषो, मनः! सज्जन! स्थीयतां रामरूपे! ॥ ३८॥
पुराणैश्च यो वर्ण्यते वेदशास्त्रैः, स्थिरं यस्य भक्त्या समाधानसौख्यम् ।
त्यजाशेषचाञ्चल्यदोषं तमाप्तुं, मनः! सज्जन! स्थीयतां रामरूपे! ॥ ३९॥
मनः! प्राप्यते यत्र सौख्यं समस्तं, वसात्यादरात्तत्र रे! सावधानम् ।
विवेकेन दुष्कल्पना रे! निरस्य, मनः! सज्जन! स्थीयतां रामरूपे! ॥ ४०॥
भ्रमित्वा भृशं लप्स्यसे रे! न सौख्यं, श्रमा निष्फलास्ते, हितं नाल्पमात्रम् ।
विवेकेन रे! स्वान्तरं बोधयित्वा, मनः! सज्जन! स्थीयतां रामरूपे! ॥ ४१॥
अनेकैः श्रितं मार्गमेवावलम्ब्य, मनो! रामचन्द्रं वशं स्वं कुरुष्व ।
प्रसिद्धः स नाथो हि दैन्यार्दितानां, मनः! सज्जन! स्थीयतां रामरूपे! ॥ ४२॥
मनः! सज्जन! स्मर्यतामेकमात्रं, हितं प्राप्यतामात्मनीनं जनेषु ।
विना रामनाम्नो न रे! भाषितव्यं, निदिध्यासितव्यं सदा रामरूपम् ॥ ४३॥
मनः! पालयेत् सर्वथान्यत्र मौनं, कथा वर्णयेद्राघवस्यादरेण ।
त्यजेद्धाम तद्, यद्भवेद् रामहीनं, सुखावाप्तये संश्रयेदप्यरण्यम् ॥ ४४॥
समाधानभङ्गाय योऽनिष्टसङ्गो, यतोऽहन्तयाक्रम्यसे त्वं त्वकस्मात् ।
मतिः प्रेरिता येन रामं जहाति, रुचिर् हा! तदर्थं महत्येव लोके ॥ ४५॥
क्षणो निर्गतो यो विना रामगानं, मनो व्यर्थमायुस्त्वया तेन नीतम् ।
वृथा स श्रमो, यो विना राघवं स्याद्, हितं शश्वदालक्षते नित्यदक्षः ॥ ४६॥
सुधन्यः स दासोऽस्ति सर्वोत्तमस्य
बहिः श्रीहरिं वीक्षतेऽन्तस्तथा च हरेर्ज्ञान्यपि स्नेहयुक्तः सुभक्तः ।
रतः कीर्तने साधनं चानुतिष्ठन् सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ४७॥
सदा क्षीयते यत्तनुर्देवकार्ये सदा वर्तते यन्मुखे रामनाम ।
स्वधर्मस्य यः पालने नित्यदक्षः सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ४८॥
सदैव क्रिया यस्य भाषानुरूपा अपश्यत्यनेकेषु देवं य एकम् ।
भजत्यप्यशङ्को गुणोपेतरूपं सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ४९॥
विकारीति चित्तेऽल्पमात्रोऽपि कामो यतिर्ब्रह्मचारी तथोदासवृत्तिः ।
लवं नावशिष्टस्तमो नित्यशान्तः सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५०॥
मदो मत्सरो नाथवा स्वार्थबुद्धिः न वा बाधते यं भवस्योपसर्गः ।
सदा भाषणं स्वादु नम्रञ्च यस्य सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५१॥
नयंस्तत्त्वचिन्तानुवादेन कालं विवादेन वादेन दम्भेन शून्यः ।
सुखं ब्रह्म सम्भाष्यते येन मूलं सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५२॥
ऋजुः सर्वदा सर्वलोकप्रियश्च विवेकी तथा सत्यवाग्यः सदैव ।
असत्या न बह्वर्थदा वा यदुक्तिः सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५३॥
सदाऽरण्यवासी च तारुण्यकाले न जालेन यो बध्यते कल्पनायाः ।
दृढो निश्चयो नाविचाल्यश्च यस्य सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५४॥
न दुष्टा दुराशा लवाप्यस्ति चित्ते हरिप्रेमतृष्णार्तमास्तेऽन्तरं च ।
ऋणी श्रीहरिर्येन भक्त्या कृतश्च सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५५॥
मनः कोमलो योदयालुश्च दीने कृपालुस्तथा वत्सलो दासपाता ।
कुतः कोपसन्तापलेशोऽन्तरे स्यात्? सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ ५६॥
निष्कामभक्तिः वादविरोधिता च
मनः! प्राप्यतां धन्यता रामनाम्ना, व्रतोपासनादीननुष्ठाय सम्यक् ।
उदासीनता तेऽस्तु साध्यं सदैव, ततो वृत्तिनिर्लेपतां भोक्ष्यसे त्वम् ॥ ५७॥
मनो! वासना मास्तु भोगेषु ते, सा; ह्युदेत्यन्तरे पूर्वकर्मानुसारम् ।
सदा ध्यायतां काममुत्सार्य रामो! मनो मास्तु ते कल्पनालेशमात्रम् ॥ ५८॥
मनः! कल्पना क्लृप्यते कोटिशस्तु, ततः सर्वथा लप्स्यसे रे! न रामम् ।
मनो! धारयन् काममत्यादरेण, नरो नाप्नुयात् प्रेम रामे कदापि ॥ ५९॥
मनः! कामधुक्, कल्पवृक्षः स रामः, स चिन्तामणिः सर्वसारो निधिश्च ।
कथं तं स्तुवीयाम्? हि यस्य प्रभुत्वं, जगच्छास्ति, किं तत्समानं यथार्थम् ?॥ ६०॥
स्थितः कल्पवृक्षस्य मूलेऽपि शोकं, वहन्नन्तरे प्राप्नुयाच्छोकमेव ।
सतां सङ्गतौ यो वसंस्तत्त्ववादं, वृथा वर्धयेत्तस्य दैवे तु शोकः ॥ ६१॥
निदिध्यासने खण्डिते त्वन्तरङ्गे, समुत्तिष्ठतः शोकसन्तापदुष्टौ ।
सुखानन्द एत्यत्ययं भेदबुद्ध्या, विषादेन सन्निश्चयो नाशमेति ॥ ६२॥
यथा कामधुक् -स्वामिना तक्रयाञ्चा विवादस्तथात्मावबोधालसेन ।
करस्थं तु विस्मृत्य चिन्तामणिं यश्- चिनोति श्रमैः काचख्नण्डान् स मूढः ॥ ६३॥
दृढो निश्चयः सम्भवेन्नातिमूढे, न कामातिसक्तस्य चित्ते च रामः ।
भवेच्चातिलुब्धोऽन्तरे क्षोभतप्तः, प्रसक्तश्च भोगे सदा दैन्ययुक्तः ॥ ६४॥
मनो! मास्तु ते जीवनं भक्तिहीनं, सदैन्यं; स दुःखी महान् योऽतिमूढः ।
मनः! सादरं धारय प्रेम रामे न धामेच्छहेम्नोऽपि रे! रामशून्यम् ॥ ६५॥
असारः स संसार उग्राधिपूर्णो, मनो! ऽन्विष्यतां हे सखे! सत्यमेतत् ।
कुतः सौख्यलाभो विषप्राशनेन! मनो! राघवध्यानसौख्ये रमस्व ॥ ६६॥
प्रभाते प्रभुर्ध्यायतां रामचन्द्रः
घनश्याम-रामः स लावण्यमूर्तिः प्रतापी महान् धैर्यमेरुर्गभीरः ।
विपत्तौ स्वदासान् स रक्षत्यवश्यं प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ६७॥
बलिष्ठं धनुर्धारि-रामं विलोक्य करालः कृतान्तोऽपि कम्पं प्रयाति ।
तदग्रे नरो दुर्बलः किं नु कुर्यात्? प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ६८॥
सुखानन्ददं सर्वभीनाशनं च भजेद् भक्तिभावेन रामं सदैव ।
विवेकेन जह्याच्च दुर्वर्तनेच्छां प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ६९॥
जपेद्यः सदा कामदं रामनाम न बाधेत तं भक्तमापत् कदापि ।
मदं सर्वमालस्यमप्याशु जह्यात् प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ७०॥
दहेद् घोरदोषान् क्षणे यस्य नाम नयेत् सद्गतिं मानवं यस्य नाम ।
भवेत्पुण्यराशिस्तथा यस्य नाम्ना स रामः प्रभुर्ध्यायतां सुप्रभाते ॥ ७१॥
न तु क्षीयते सञ्चितार्थोऽशतोऽपि मनो! न श्रमो नामघोषे लवोऽपि ।
'महाघोरसंसारशत्रुं' विजेतुं प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ७२॥
महद्दुःखदो देहदण्डस्य मार्गः परं रामनाम्नो जपो दुःखहारी ।
स्वयं शङ्करो ध्यायते देवदेवं प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ७३॥
अनेकानि विघ्नानि योगादिकेषु व्रतोद्यापनाद्यर्थमर्थस्त्ववश्यः ।
दयालुः स दीनेष्वतो ध्यायतां रे! प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ७४॥
जपो रामनान्तोऽग्रणीः साधनानां न चेद् ज्ञायते, मृग्यतां चिन्तनेन ।
वृथा संशयस्त्याज्य एवास्ति सद्यः प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ७५॥
क्रिया दुष्करा नैव धर्मो न योगो न भोगोऽखिलस्त्याग उक्तस्त्ववश्यः ।
दृढं विश्वसेनान्नि वक्तीति 'दासः' प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ ७६॥
रामविश्वासः
प्रजायेत निष्कामता रामकामात्, ततो जीवमात्रे प्रतीयेत रामः ।
गुणान् रामचन्द्रस्य सप्रेम गायन्, भवेद् द्वन्द्वमुक्तो नरः श्रद्दधानः ॥ ७७॥
न यो विश्वसित्यादराद्रामचन्द्रे, वराको नरः सर्वशः पीड्यतेऽसौ ।
अनाश्रित्य ना मोक्षदं स्वामिनं तं, वृथा देहसंसारचिन्तां करोति ॥ ७८॥
मनो! ऽन्तः परित्यज्य संसारचिन्तां, दृढं ध्यायतां पावनो रामचन्द्रः ।
भवः सत्य आभाति मिथ्याभ्रमेण, ततश्चात्मरूपस्मृतिर्लोपमेति ॥ ७९॥
दृढं धार्यतां स्वान्तरे श्रीहरिश्च, सुखं तीर्यतां दुस्तरोऽसौ भवाब्धिः ।
न सञ्चिन्त्यतां स्वोदरं दुर्भरं तद्, मनो! हन्यतां निर्दयं मत्सरोऽसौ ॥ ८०॥
नामस्मरणम्
मनो! नाम मा मत्सरेण त्यज त्वं, परं तज्जपाखण्डमत्यादरेण ।
समस्तेषु नामोत्तमं साधनेषु, तुलार्हं न किञ्चित् सखे! तेन लोके ॥ ८१॥
तुलार्हं न नामापरं रामनाम्ना, परं नेत्यभिज्ञायते दुर्भगेण ।
स्वदाहोपशान्त्यै शिवस्तत् सिषेवे, कथं पामरेण त्वसेव्यं नरेण? ॥ ८२॥
शिवश्चिन्तयन् दग्धकामोऽपि रामं, शिवायाः पुरस्तं स्तवीत्यादरेण ।
बहुज्ञानवैराग्यसामर्थ्ययुक्ते, त्वियानादरो, मर्त्यजीवे पुनः किम्? ॥ ८३॥
महेशः स मूर्ध्नोह्यते विठ्ठलेन, स यं ध्यायति ज्ञायतेऽसौ न लोकैः ।
स्वयं शङ्करः शान्तिमाप्नोत्यदाहात्, प्रमोक्तान्तकाले तु जीवस्य रामः ॥ ८४॥
उपास्यः स योगेश्वरारामरामो, रमेते जपे तस्य गौरी हरश्च ।
स्वयं चन्द्रमौलिस्तपस्वी प्रशान्तः, स रामः प्रभुर्वोऽन्तकाले विमोक्ता ॥ ८५॥
मुखे यस्य रामः, स आप्नोति नित्यं, सदाऽऽनन्दविश्रामपूर्णप्रसादम् ।
सशङ्कश्रमास्ते विना नाम वन्ध्या, निजं धाम तत्प्रापयत्यार्तिहीनम् ॥ ८६॥
जपन् राममान्पोति नो कामबाधां, सधैर्यं तरत्यापदः कीर्तयंस्तम् ।
जयत्युग्रकामं बली रामभक्तः, स धन्योऽवनौ मारुतिर्ब्रह्यचारी ॥ ८७॥
प्रशस्यं भृशं राघवस्यास्य नाम, सुवाच्यं मधु स्वल्पमास्ते त्वमूल्यम् ।
ध्रुवं जन्ममृत्युद्रुमोन्मूलनाय, स एव प्रमोक्षो मनो! मानवानाम् ॥ ८८॥
प्रतिग्रासमीदृग्वदेद्रामनाम, तदुद्घोषयेदादरेणासकृच्च ।
हरेश्चिन्तनेऽन्नं सदा भक्षयेच्च, स्वभावात्ततः श्रीहरिं प्राप्यतेऽसौ ॥ ८९॥
स खल्वात्महा, वाचि रामो न यस्य, न तं मानयन् ना वृथा जीवतीह ।
स्तुतं नाम वेदैश्च शास्त्रैः पुराणैः, स्तुतं व्यासवाचापि भूयो नितान्तम् ॥ ९०॥
समुद्विज्यतां मा मनो! रामचन्द्राद्, मनः! प्रोच्यतां तस्य नामादरेण ।
विना मूल्यमेवोपलभ्यं मुखे तत्, समुद्धोष्यतां जानकीवल्लभोऽसौ ॥ ९१॥
समुद्धोषणात् सादरं रामनाम्नो, गिरेर्गह्नरं प्रद्रवन्त्याशु दोषाः ।
स्वनामोपतिष्ठत्यनन्तः सुतुष्टो, विशेषेण नामातिलुब्धः शिवश्च ॥ ९२॥
जगत्यन्नदाता य एकोऽस्ति देवो, वहत्येष नः सर्वसंसारचिन्ताम् ।
अमूल्यं तु तन्नाम सेविष्यसे चेद्, मनस्! ते भविष्यत्यरे! का नु हानिः? ॥ ९३॥
त्रिलोकीं प्रदग्धुं क्षमः कोपितो यः, स नाम्नाप शान्तिं शिवः क्ष्वेडदाहात् ।
जपत्यादरात् पार्वती विश्वमाता, तदेवोच्यतां नाम तस्मात् समस्तैः ॥ ९४॥
वदन् पुत्रकामेन नारायणेति, पुराऽजामिलः पापकर्मा विमुक्तः ।
शुकं शिक्षयन्तीशनामापि वेश्या, विमुक्ता पुराणे गता च प्रसिद्धिम् ॥ ९५॥
कुले दानवानां कयाधोः सुपुत्रो, जपन्नीशनाम स्थितोऽसौ सदैव ।
स दैत्याधिराजः पिता पापकर्मा, प्रविद्वेष्टि नामेत्यमृष्यन्न पुत्रः ॥ ९६॥
कुतो नामहीनस्य रे! मुक्तिवार्ता? ह्यहङ्कारदृप्तः सदा यातनाभाक् ।
स दैन्यान्वितो मृत्युरेष्यत्यवश्यं, ततः प्रोच्यतां प्रोच्यतां देवनाम ॥ ९७॥
शिलास्तारिता निश्चितं रामनाम्ना, मनस्! तारिता नाल्पसङ्ख्या मनुष्याः ।
नरः सर्वथा तत्र चाश्रद्दधानः, कदापि प्रवर्तेत नो पापरूपः ॥ ९८॥
सुधन्येह वाराणसी पुण्यराशिर्, द्रुतं मोक्षदा यात्रिकाणां पितॄणाम् ।
सुलभ्यं तु तद् रामनाम्ना सुपुण्यम्, इतीशः सदा बोधयन् नृभ्य आस्ते ॥ ९९॥
न सम्पद्यते कर्म शास्त्रोक्तरीत्या, कृतं चाऽयथोक्तं न पुण्यं तनोति ।
मनाग् नानुकम्पाऽन्तरे प्राणिनोऽर्थं, मुखे नास्ति तन्नाम मूल्यं विनापि ॥ १००॥
सशङ्कश्च यो नाम्नि विश्वासशून्यो, यमादुग्रदण्डं स आप्नोति, धिक्! तम् ।
ततः सेव्यतां नाम रे। ऽत्यादरेण। तदुच्चारमात्रात् क्षयं पापमेति ॥ १०१॥
सदात्यन्तनम्रत्वमाश्रित्य तोषो, मनः! सज्जनानां त्वयोपार्जितव्यः ।
सदा क्षीयतां स्वीयदेहः परार्थं, गुणाढ्यः सदा सेव्यतामादरेण ॥ १०२॥
मनोबोधः-उत्तरार्धः
क्रियाहीनवाचालता निष्फलैव
सदा कीर्त्यतां राघवः सानुरागं मनः! कीर्तने लुप्यतां देहबुद्धिः ।
परस्त्रीपरार्थाभिलाषश्च हेयः, त्वया भद्र! जीवार्पणेनापि काले ॥ १०३॥
क्रियाहीनवाचालतां नैकरूपां सदाऽतीव निर्भर्त्सयत्यन्तरङ्गम् ।
सदा स्वैरसङ्कल्पसंसक्तचेताः कथं प्राप्नुयाद् मानवो विश्वनाथम् ॥ १०४॥
विवेकेन हित्वा क्रियां गर्हणीयां विशुद्धां सदैवानुतिष्ठादरेण ।
सदा तात! वर्तस्व भाषानुसारं, भवार्तिप्रदां कल्पनां रे! जहीहि ॥ १०५॥
विवादान्तकारी हि संवाद इष्टः
कुरु स्नानसन्ध्यादिकर्मैकनिष्ठं विवेकेन च भ्रंशनात् स्वं नियच्छ ।
नरो भूतमात्रे दयास्नेहयुक्तो हरेर्भक्तितः शान्तिमन्तः प्रयुङ्क्ते ॥ १०६॥
मनो रुध्यतां क्रोध उद्भूतमात्रो मनो! धार्यतामादरः साधुसङ्गे ।
मनस्! त्यज्यतां दुष्टपापिष्ठसङ्गो मनो !ऽवाप्यतां तात! मोक्षाधिकारः ॥ १०७॥
मनो! नित्यसङ्गाद् अरे! सज्जनानां क्रिया ते विशुध्येत जायेत भक्तिः ।
निवर्तस्व रे! निष्क्रियोक्तेः सुशीघ्रं विवादान्तकारी हि संवाद इष्टः ॥ १०८॥
विवादो वृथा सर्वथा प्रोज्झितव्यः सुखान्तश्च संवाद एवावलम्ब्यः ।
मनः! सर्वदा शोकसन्तापहारी विवादान्तकारी हि संवाद इष्टः ॥ १०९॥
नयेद्वादमन्तं स संवाद उक्तो जयेत् स्वामहन्तां विवेकप्रभावात् ।
अहन्ताढ्यवादो विकारोद्भवाय विवादान्तकारी हि संवाद इष्टः ॥ ११०॥
मया ते हितायैव वक्तव्यमेवं मनः! सत्यमन्विष्यतां स्वं हितं च ।
हितायोद्धतं प्रोज्झ पाखण्डमेनं विवादान्तकारी हि संवाद इष्टः ॥ १११॥
गतं भाषणैरायुराकर्णनैश्च विवादस्तु तस्थौ यथापूर्वमेव ।
मनो! दाम्भिकः संशयोत्पादि-वादो विवादान्तकारी हि संवाद इष्टः ॥ ११२॥
अहन्ताबलाद् हन्त! विद्वद्वरेण्याः क्रियन्तो गता ब्रह्मरक्षःशरीरम् ।
परेशान्मनः ! कोऽधिको नाम विद्वां- स्त्वया द्रागहन्ताविहीनेन भाव्यम् ॥ ११३॥
मनो! मौखिको ब्रह्ममायाप्रपञ्चः किमर्थम्? स तु प्रत्यहं गर्ववृद्ध्यै ।
क्रियाहीनवाचालता निष्फलैव विचार्येति सत्यं स्वयं मृग्यतां तत् ॥ ११४॥
विवादान्तकारिस्थले ब्रूहि नित्यं विवेकादहन्तां सुकार्ये नियुङ्क्ष्व ।
सदावर्तनं तेऽस्तुभाषानुसारं पथा गच्छ भक्तेश्च शुद्धक्रियाभिः ॥ ११५॥
स नोपेक्षते भक्तमीशः कदापि
ऋषेः शापतः पीडितेऽत्यम्बरीषे तदर्थं मुदा योऽग्रहीन्नैकदेहान् ।
ददौ बालक्ताय यः क्षीरसिन्धुं स नोपेक्षते भक्तमीशः कदापि ॥ ११६॥
सुदीनेन बालेन भक्तध्रुवेण य आर्तस्वराहूत आविर्बभूव ।
पदं सुस्थिरं व्योम्नि तस्मै ददौ च स नोपेक्षते भक्तमीशः कदापि ॥ ११७॥
गजेन्द्रेण यः प्रार्थितः प्राणकृच्छ्रे प्रधाव्याशु नक्रग्रहात्तं ररक्ष ।
प्रदीर्घप्रतीक्षार्तभक्तं दयार्द्रः स नोपेक्षते भक्तमीशः कदापि ॥ ११८॥
यदाऽजामिलं प्राप उग्रः कृतान्तो दयार्द्रेन पाप्मापि येनोधृतोऽसौ ।
अनाथाश्रयश्चक्रपाणिर्य एकः स नोपेक्षते भक्तमीशः कदापि ॥ ११९॥
विधातुः कृते यो बभूवाशु मीनः समुद्धर्तुमब्धेर्धरित्रीं च कूर्मः ।
जनार्थं वराहोऽप्यभून्नीचदेहः स नोपेक्षते भक्तमीशः कदापि ॥ १२०॥
पितृक्लेशिते भूरि कायाधवे हा ! नृसिंहाकृतौ स्तम्भतो योऽवतीर्णः ।
शिखा यन्मुखाग्नेस्त्वसह्याः प्रतीताः स नोपेक्षते भक्तमीशः कदापि ॥ १२१॥
कृपायाः प्रसादं यदेन्द्रो ययाचे तदर्थं दधाराकृतिं वामनस्य ।
द्विजान् रक्षितुं योऽभवद् भार्गवश्च स नोपेक्षते भक्तमीशः कदापि ॥ १२२॥
वने यन्नहल्यां मुमोचोग्रशापात् सुरान् यश्च सर्वान् दशास्यस्य बन्धात् ।
त्रिलोकेऽनदद्यद्यशोर्डिण्डिमश्च स नोपेक्षते भक्तमीशः कदापि ॥ १२३॥
य उग्रापदि द्रौपदीह्रीं प्रपातुं विहाय प्रियाराज्यचिन्तामधावत् ।
कलौ योऽश्रयद् बौद्धरूपं समौनं स नोपेक्षते भक्तमीशः कदापि ॥ १२४॥
स भूयोऽवतीर्णः प्रपातुं सुदीनान् अनाथांश्च, कल्किर्भविष्यत्यवश्यम् ।
ययुर्विक्लमं वर्णने यस्य वेदाः स नोपेक्षते भक्तमीशः कदापि ॥ १२५॥
सत्सङ्गे रामभक्तिः, राघवस्य पन्थाः निर्गुणबोधश्च
भुवं सादरं योऽवतीर्णः सलीलं, ह्यनेकेषु वेषेषु भक्तावनार्थम् ।
न तं येऽभिजानन्ति सर्वेश्वरं ते दुरात्मान उग्राः खलाः पापरूपाः ॥ १२६॥
सुधन्यः स यो राघवध्यानयोगात् प्रशान्तोऽन्तरे, तन्मयस्तत्कथायाम् ।
गतो रामबोधेन यद्देहभावो विलीना च यद्वासना रामरूपे ॥ १२७॥
मनो! वासना वासुदेवेऽस्तु सर्वा मनः! कामना माऽस्तु ते कामसङ्गे ।
असत्यां मनः! कल्पनां माऽऽश्रयस्व, मनः! सज्जन! न्युष्यतां साधुसङ्गे ॥ १२८॥
सुगत्यै सतां सङ्गतिर्ह्यत्यवश्या तया दुर्मतिः सन्मतित्वं वृणोति ।
अनङ्गः स कामः खलो वञ्चकश्च ततो रे! त्वया निर्विकारेण भाव्यम् ॥ १२९॥
कुसङ्कल्पलेशोऽपि हेयः सदैव मनः सत्यसङ्कल्प एवावलम्ब्यः ।
जहीह्यञ्जसा जल्पनं निष्फलं च रमाकान्तमेकान्तकाले भजस्व ॥ १३०॥
मनो! भक्तियोग्यस्त्वसौ राम एकः, प्रसिद्धो भुवि ह्येकबाणैकशब्दः ।
जनोद्धारकर्त्री क्रिया दृश्यतेऽस्य विवेकं जना! राघवस्याश्रयध्वम् ॥ १३१॥
विचार्यैव यो भाषते वर्तते च भवोत्तापशान्त्यै सदा तस्य सङ्गः ।
न भाषस्व सम्यग्विमर्शं विना भो! सदा भाषणं वर्तनं तेऽस्तु शुद्धम् ॥ १३२॥
विरक्तश्च विज्ञानवानीशभक्तः कृतो निश्चयो येन च स्वात्मबोधे ।
सुपुण्यं हि तद्दर्शनस्पर्शलभ्यं तदीयः सुबोधश्च शङ्कापहारी ॥ १३३॥
अहङ्कारशून्यश्च नित्यं विरक्तो दयाशान्तियुक्तः क्षमी नित्यदक्षः ।
अलुब्धश्च यः क्षोभदैन्यप्रमुक्तो मनो! ऽसावभिज्ञायतां योगिराजः ॥ १३४॥
मनः! सेव्यतां भद्र! सत्सङ्गतिः सा निवर्त्त्याशु या दुर्मतिं स्वप्रभावात् ।
सुमार्गं प्रति प्रेरयत्यादरेण भियापेति यस्याः करालोऽपि कालः ॥ १३५॥
निधिर्ज्ञायतेऽहन्तया नो पुराणः
भयव्याप्तमेतद्धि विश्वं समस्तं भयातीतमानन्दमास्वादयस्व ।
तदालोकनान्नश्यति द्वैतभावः प्रमुक्तस्ततो निर्भयत्वं प्रभुङ्क्ते ॥ १३६॥
हितं बोधितं साधुभिः स्पष्टशब्दैः स्थितः पूर्ववन्मन्दबुद्धिस्तु लोकः ।
विहातुं न देहात्मबुद्धिं क्षमोऽसौ निधिर्ज्ञायतेऽहन्तया नो पुराणः ॥ १३७॥
अलभ्यं भ्रमाद् भूनिखातं हि वित्तं तथा जन्मदैन्यं गतो जीव एषः ।
न सन्त्यज्यते निश्चयो देहबुद्धे- र्निधिर्ज्ञायतेऽहन्तया नो पुराणः ॥ १३८॥
स्थितो विश्वतो विश्वनाथः स नूनं शिलां मन्यते दुर्भगस्तस्य मूर्तिम् ।
न पुण्यं समाप्नोति ना भावहीनो निधिर्ज्ञायतेऽहन्तया नो पुराणः॥। १३९॥
निधेर्वञ्चितः सन्निधिस्थात् स्वकीया- न्निबद्धो गुणैर्दुःखमग्नः स जीवः ।
क्षमो लङ्घितुं तत्त्रयं न स्ववृत्त्या निधिर्ज्ञायतेऽहन्तया नो पुराणः ॥ १४०॥
अतो ज्ञानिसाधुं जनेऽन्विष्य तस्य दृढं धार्यतां पादयुग्मं कृपार्थम् ।
विना सद्गुरोरञ्जनं सर्वथैव निधिर्ज्ञायतेऽहन्तया नो पुराणः ॥ १४१॥
न तज्ज्ञायते, ज्ञायते नात्मरूपं ह्यहन्ता न विस्रंसते स्रंसते न ।
हृदो हन्त! नापैति नापैति शङ्का विनातिश्रमैर्नाप्यते नाप्यते तत् ॥ १४२॥
नरो नाभिजानाति मायाभ्रमाद्यद् हितात् सर्वथा वञ्च्यतेऽसौ स्वकीयात् ।
परीक्षां विनोद्दीप्तमायाविमुद्रां कटौ सन्निबध्नन्निवैषोऽतिमूढः ॥ १४३॥
मनोऽनन्तसद् मृग्यतां तत् प्रयत्नैः
जगत्यस्ति किं सत्यमित्यादरेण मनोऽन्विष्यतां सर्वशक्यप्रयत्नैः ।
मनो! ऽस्मिन् प्रयासे प्रतीयेत देवो भ्रमाज्ञानशङ्कातमः स्यान्निरस्तम् ॥ १४४॥
सदा चिन्तयन्निन्द्रियार्थानहन्ताऽऽ- वृतो जायते जन्तुरज्ञानयोगात् ।
विवेकेन सम्प्राप्नुयाद् रे! स्वरूपं ततो नैव जीवः पुनर्जन्म याति ॥ १४५॥
इदं दृश्यमानं न जीवेच्चिराय भिनत्ति ह्यकस्मात् स कालः समूर्तम् ।
विनङ्क्ष्यत्यशेषं च काले समस्तं मनो!ऽनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ १४६॥
न तच्छिद्यते भिद्यते निर्विकारि जगद्व्याप्यगम्यं ह्यहम्भावयोगात् ।
क्षमं तन्न सोढं मनाग् द्वैतभावं मनो! ऽनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ १४७॥
निराकार आधारभूतो विधेर्य- स्तथेशान्तराणामगम्यः श्रुतीनाम् ।
सखे! तेन सार्धं त्वयाप्तव्यमैक्यं मनो!ऽनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ १४८॥
न शक्नोति यत् प्रेक्षितुं चर्मचक्षु- र्न यस्य द्युतिं मृष्यति ज्ञानचक्षुः ।
यदीक्षाक्षणे लुप्यतीक्षाक्रियैव मनो!ऽनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ १४९॥
न पीतं, न नीलं, सितं श्यामलं वा, न तद् व्यक्तमव्यक्तरूपं न नूनम् ।
सविश्वासभक्त्या सुलभ्यं पदं यद्, मनौ!ऽनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ १५०॥
समाधानसौख्यं सतां सङ्गतेन
मनो! मार्गणाद् मार्गणात् सत्यबोधो, मनो! बोधनात् बोधनात् सत्यलाभः ।
समस्तं त्विदं सङ्गतेः सज्जनानां, स्थिरान्निश्चयात् सा च लभ्यानुरागात् ॥ १५१॥
वृथा चातुरी शाब्दिकज्ञानबोध- क्रियायां, हि तन्निर्णयोऽन्तस्त्ववश्यः ।
मनस्! तत्त्वसारं स्थितं ह्यन्यदेव, समस्तेष्वनुस्यूतमत्युत्तमं च ॥ १५२॥
नरे! पिण्डतत्त्वाऽऽदिविज्ञानतो वा, न नीतेः पटुत्वात् समाधानसौख्यम् ।
न वा योगयागैर्न वा त्यागभोगै- र्मनस्! तत् परं साधुसङ्गेन लभ्यम् ॥ १५३॥
यथाऽऽलक्षते प्रोज्झ्य निर्दिष्टशाखां, दिदृक्षुर्नभोमण्डले तं नवेन्दुम् ।
विहाय श्रुतं साधुसङ्गे तथैव, महावाक्यतत्त्वादि पश्येत् स्वरूपम् ॥ १५४॥
तदन्विष्यतां दृश्यते यन्न लोके, मनस्! तद्धि साधो! निगूढं नितान्तम् ।
करग्राह्यतां नैति तद्भोः! कदापि, जगद्व्याप्नुवच्चापि नाऽऽकल्यते तत् ॥ १५५॥
मनः! स्थीयतां प्रोज्झ्य सर्वामहन्ताम्
प्रशंसन्निजज्ञानितां मूर्ख एव, ह्यतर्क्यं प्रभुं तर्कयेत् को जगत्याम् ।
सहाहन्तया लक्षितुं तं त्वशक्यं, तमालक्षमाणस्तदैक्यं समेति ॥ १५६॥
गवेषार्हशास्त्राणि नैकानि नूनं, परं धारयन्त्यैकमत्यं न तानि ।
कलिं कुर्वते स्वस्वशास्त्राभिमानात् प्रवीणाः, ततो रुध्यते ह्यात्मबोधः ॥ १५७॥
मनो! न्यायतर्कादिशास्त्राणि वेदाः, श्रुतिश्च स्मृतिर्भिन्नमार्गान् दिशन्ति ।
स्वयं ह्येष मौनं समेत्य स्थितोऽसौ, मनः! स्थीयतां प्रोज्झ्य सर्वामहन्ताम् ॥ १५८॥
अहन्ताकृतिं मक्षिकां भक्षयित्वा, रुचिः स्याद् महाबोधनास्वादने किम् ।
अहन्ता न यन्मानसात् सम्प्रणश्येत्, तदन्तः प्रपच्येत न ज्ञानबोधः ॥ १५९॥
मनो! ऽलं विषादान्तवादेन तावत् विकारप्रसूभेदबुद्ध्या कृतं च ।
मनो! मा सखे! बोधयान्यांस्तु तावद्, न यावत्तव स्यादहन्ता विलुप्ता ॥ १६०॥
अहन्ता सदा दुःखमेव प्रसूते। क्रियाहानिबोधः फलं नातनोति ।
सुखं त्वान्तरं सर्वसौख्यं प्रदत्ते, विमृग्य व्यपोह स्वयं तामहन्ताम् ॥ १६१॥
विवेकी नरोऽहन्तयापैति नीतेः, अनीत्या च स श्लाघ्यतामेति लोके ।
परं सोऽन्तराप्नोति सम्यक् प्रतीतिं यदाचार आलम्बितोऽस्त्यप्रमाणः ॥ १६२॥
सत्सङ्गे देहबुद्धिः आत्मबुद्धौ परिवर्तयितव्या
प्रसक्तो दृढं निश्चये देहबुद्धेः सुखाद् वञ्च्यते ना स्वदेहादतीताम ।
परीवर्त्य बुद्धिं तनोरात्मबुद्धौ, सदाश्रीयतां सङ्गतिः सज्जनानाम् ॥ १६३॥
मनः ।
कल्पितस्त्यज्यतामिद्रियार्थो, ह्यभिज्ञायतां निर्गुणो देव एकः । मनः ।
कल्पना रुध्यतां प्रोत्थितैव सदाश्रीयतां सङ्गतिः सज्जनानाम् ॥ १६४॥
वहन् देहगेहादि चिन्तामखण्डं, नरोऽत्यन्तलुन्धो हितं स्वं हिनस्ति ।
हरिं चिन्तयन् मुक्तिकान्ता वृणीयात्, सदाश्रीयतां सङ्गतिः सज्जनानाम्॥ १६५॥
अहन्ता प्रवृत्ता स्वदेहात् प्रवृद्धा, प्रियापुत्रमित्रादिमोहाद्, भ्रमाय ।
त्यजैनां द्रुतं जन्ममृत्युप्रमुक्त्यै, सदाश्रीयतां सङ्गतिः सज्जनानाम् ॥ १६६॥
सगुणनिर्गुणातीतं शुद्धस्वरूपम्
मनः! शाश्वते स्थातुमाद्यात्मरूपे, सखे! निश्चिनु द्राग् व्यपोह्य स्वशङ्काः ।
हितार्थं क्षणो युज्यतां सर्व एव, सदाश्रीयतां सङ्गतिः सज्जनानाम् ॥ १६७॥
स्ववृत्त्यात्मरूपे स्थिरं विद्धि साधुं, य आशाविहीनत्वयोगाददीनः ।
मनो! बन्धनं वर्धयन् देहबुद्धिं, कथं सज्जनोपद्रवाय क्षमेत? ॥ १६८॥
सतामग्रतोऽनन्तपृच्छां विदध्या- न्निरस्येदहन्तां प्रविस्तारितां च ।
अशेषस्मृतिं देहबुद्धेर्विलोप्य, मनश्! चिन्त्यतां निर्गुणं शुद्धतत्त्वम् ॥ १६९॥
त्यजेदात्मबोधेन रे! देहबुद्धिं, विवेकेन सम्प्राप्यतां वस्तु तच्च ।
न वृत्त्या स्थिरीभूयते ब्रह्मणीति, तदेवानुसन्धीयतां सर्वकालम् ॥ १७०॥
मनश्! चर्मचक्षुष्पथात् सर्वसारं, सुगुप्तं, स आभास ईक्षापथे यद् ।
न चाऽऽकल्यते तद्गुणाभासशून्यं ह्यहन्तागुणात् कल्पनाया अगम्यम् ॥ १७१॥
मनो! द्योतयन्तीन्द्रियार्थांस्त्वविद्या सुविद्या च सा ब्रह्मबोधोपकर्त्री ।
द्विरूपास्ति सा कल्पना; निर्मलान्ते, विवेकेन संलीयते ब्रह्मरूपे ॥ १७२॥
अहङ्कारराहुः स्वरूपोत्थितोऽसौ, स्थितो व्याप्य तद् ब्रह्मरूपान्तरिक्षम् ।
दिशो ध्वान्तमेघावृता दुर्निरीक्ष्या, विचार्याप्यतां ब्रह्म तद् रे! विवेकात्॥ १७३॥
न शक्नोति यं लक्षितुं चर्मचक्षु- रशेषं भवं यश्च पश्यत्यरुद्धम् ।
ददात्येष नूनं क्षयातीतमोक्षं, सदा भक्तपक्षानुकूलश्च दक्षः ॥ १७४॥
देवाधिदेवः - केवलं ब्रह्म
विधात्रा विधिर्लिख्यते सर्वभाले, विधिस्तद्विधातुर्ललाटे तु केन ।
जगद् दह्यतेऽन्ते समस्तं हरेण, हरोऽसौ परं दह्यतेऽन्ते तु केन ॥ १७५॥
अथ द्वादशार्काश्च रुद्रा दशैकाः, अगण्या असङ्ख्याकशक्ताश्च नूनम् ।
स सर्वेश्वरः कीदृशः कस्तथेति, विना सश्रमान्वेषणाज्ज्ञायते न ॥ १७६॥
न विच्छिद्यते भिद्यते देवराजः, स्थिरो निश्चलो दैन्यहीनो बलिष्ठः ।
अहन्ताप्रभावात् क्षमं नेक्षितुं तं, सखे! चर्मचक्षुः; स तिष्ठत्यगम्यः ॥ १७७॥
प्रियो यस्य यः सोऽर्च्यते तेन देवः, परं कोऽपि नान्विष्यतीशं तमेकम् ।
अहो! कोटिशो दृक्पथं यान्ति देवाः, प्रिया यस्य या ह्युत्तमा सैव भक्तिः ॥ १७८॥
त्रिलोकी यतो निर्मिता तं यथार्थं, न कोऽपि स्तवीतीश्वरं ह्येकमानम् ।
मनुष्याक्षिमार्गादतीतः स गुप्तो, विना सद्गुरोः सुप्रसादं न दृश्यः ॥ १७९॥
दाम्भिकाः गुरवः त्याज्याः; सद्गुरुः आश्रयितव्यः
गुरुः कोटिशो लभ्यते मार्गणान्ते, ह्यनेकाश्च मन्त्रा, महांस्तत्प्रभावः ।
सकामेषु रे! साभिचारेषु, तेषु, गुरुष्वस्ति नैकोऽपि ते मुक्तिदाता ॥ १८०॥
अभक्तोऽभिचारी परार्थापहारी, मनो! दुर्गुणोन्मत्ततापप्रदश्च ।
तथा दाम्भिको निन्दको मत्सरी च, न साधुः, स तु ज्ञानिनामप्यगम्यः ॥ १८१॥
न रे! सद्गुरुः कामनासक्त इष्टः क्रियाहीनवाचालतायां पटुश्च ।
सदा वर्तते यस्तु वाचोऽनुसारं, तमेवादरात् सद्गुरुं मार्गयस्व ॥ १८२॥
मनो! ज्ञानवैराग्यभक्त्यन्वितश्च, विवेकी च योगी क्षमावान् कृपालुः ।
समर्थश्च चातुर्ययुक्तश्च विद्वान्, समाधानदः सद्गुरुर्मार्गितव्यः ॥ १८३॥
निःसङ्गवृत्त्या देवाधिदेवः भजनीयः
असन् माययाप्नोत् सतस्तात! भावम्, इति ज्ञानबोधः सदुक्तेरुदेति ।
अनिर्वाच्यमत्युच्यतां बोधनार्थं, मनो! ऽनन्त सन् ,-मृग्यतां सन्ततं तत्॥ १८४॥
मनो! भीतिचिन्ताविहीनात्मरूपे, सदाऽऽच्छादयात्मानमत्यादरेण ।
मनो! दृक्पथं नैति रामः सलोके, सदैक्यात् कदाप्यात्मनो नैष भिन्नः ॥ १८५॥
समीपस्थ एवास्ति रामः सदैव, मनो!' मृग्यतां हे सखे! सत्यमेतत् ।
तवाखण्डयोगस्तु रामेण सार्धं, वियोगप्रसूं तां त्यज द्रागहन्ताम् ॥ १८६॥
मनो! ब्रह्मपिण्डाण्डयोरैक्यभाव- स्ततो वस्तु तद् भिन्नमेवास्ति नूनम् ।
मनो! भासमानं समस्तं प्रपश्येत्, सुखेनेह तिष्ठेत्तु निःसङ्गवृत्त्या ॥ १८७॥
जहि ज्ञानशस्त्रेण रे! देहभावं, विदेहस्थितौ याहि भक्तेः पथैव ।
विरक्त्याश्रयात् सर्वनिन्द्यं जहीहि, मनस्! तिष्ठ निःसङ्गवृत्त्या सुखेन ॥ १८८॥
अभिज्ञायतां भूविनिर्मातृदेवो, विलोक्यैव तं मुच्यते मर्त्यजीवः ।
गुणातीतमेनं गुणाढ्यं भजस्व, परं तिष्ठ निःसङ्गवृत्त्या सुखेन ॥ १८९॥
न कर्ता न भर्तापि सृष्टेः स देवः, परावागतीतः स मायाविहीनः ।
मनो! निर्विकल्पं सदा चिन्तयैनं, परं तिष्ठ निःसङ्गवृत्त्या सुखेन ॥ १९०॥
न शक्नोति यो देहबुद्धिं विहातुं, स न ज्ञानबोधक्षमः सर्वथैव ।
परव्रह्म नाऽऽकल्यतेऽहन्तया च, कदाप्येति नाज्ञानपुञ्जो विनाशम् ॥ १९१॥
मनो निश्चलं यस्य रूपं ह्यबोध्यं, स सर्वोत्तमो ध्येय ऐक्यस्य योगात् ।
तदर्थं तु सर्वोपमा नूनमूना, स निःसङ्गताःसङ्गतातीत एव ॥ १९२॥
सुबोध्यो न देवो, ह्यबोध्योऽपि नैव, न शक्यः स्तवो वेदशास्त्रैश्च तस्य ।
अदृश्यो न, दृश्यो न, सद्युग्मसाक्षी, तदन्तो न गम्यो न गम्यः श्रुतीनाम् ॥ १९३॥
'वसन्नन्तरे कीदृशो देव ?' इत्या- नतः पृष्टवान् साधकोऽत्यादरेण ।
'तनुं प्रोज्झ्य देवो वसत्येष कुत्र? विशत्येष देहान्तरं किं पुनश्च' ॥ १९४॥
'हृदिस्थं विजानीहि तं देवमेवं स्थितो व्याप्य विश्वं नभोवत् स सर्वम् ।
स सर्वत्र, नायाति वा याति नूनं, न रिक्तं स्थलं तं विना किञ्चिदस्ति ॥ १९५॥
'असौ सञ्चरत्यन्तरालेऽणुमात्रे, ह्यनुस्यूत आस्ते न किञ्चिद्विना तम् ।
स्वयं याति तादात्म्यतां द्रष्टुकामो, लयं च त्रयं दर्शन-द्रष्टृ-दृश्यम् ॥ १९६॥
'नभःसन्निभं राघवस्यास्य रूपं, सदा ध्यायतो जन्मनिर्मूलनाय ।
न तद्दर्शनाद् देहभावावशेष- श्चिरायोपभुक्त्वापि तन्नैव तृप्तिः ॥ १९७॥
'नभोव्याप्य सृष्टिं समस्तां स्थितं तु, यथार्थोपमा नैव तद् राघवार्थम् ।
स्वभावादसौ सर्वमेवाद्वितीयः, कथं व्यापकाख्या तदीयोचिता स्यात् ॥ १९८॥।
'पुराणा'तिविस्तीर्णरूपं विबोद्धुं, न ते तर्कसम्पर्कलेशोऽपि शक्तः ।
तदत्यन्तगूढाद्वितीयं; प्रभावात्, परं सद्गुरोर्द्राक् सुबोध्यानुभव्यम् ॥ १९९॥
'तदाकल्यते ज्ञानबोधात् स्वरूपं तदा सर्वसाक्षित्वमस्तं प्रयाति ।
उदेत्युन्मनस्त्वं च वाचो निरोधः, प्रतीतिश्च यत्, सर्वतो राम एव ॥ २००॥
'अभिज्ञात आद्यात्मरूपे द्वितीयं, न सन्दृश्यते तदृते चिन्त्यते न ।
चिराद् मीलनं सात्मरूपं च लब्ध्वा, विदेहस्थितेर्देहतापः प्रशान्तः ॥ २०१॥
साध्यं भूत्वा साधनं कुर्यात्
मनो! यद्यपीदं त्वयाप्तं सुगुह्यं, स्थिरीकर्तुमन्तःप्रयत्नोऽत्यवश्यः ।
सदा तत्त्वमाकर्ण्य ते निश्चयः स्यात्, सतां सङ्ग आश्रीयतां धन्यतायै ॥ २०२॥
मनो! भद्र! सङ्गं समस्तं विजह्यात् सतामाश्रयेताञ्जसात्यादरेण ।
विमुच्येत जन्मोग्रदुःखाद्, यतोऽन्यद्, विना साधनं, प्रेरितः सत्पथे ना ॥ २०३॥
मनः! सर्वसङ्गांश्छिनत्त्येष सङ्गो मनः! प्रापयत्येष मोक्षं च सद्यः ।
मनः! साधकं तारयत्येष शीघ्रं, मनो! द्वैतमेष ह्यशेषं भिनत्ति ॥ २०४॥
फलश्रुतिः
मनोबोधमाकर्ण्य दोषघ्नमेनं, नरः साधनार्हो भवेद् मन्दबुद्धिः ।
शनैर्ज्ञानवैराग्यसामर्थ्यवांश्च, दृढं चात्र विश्वस्य भुञ्जीत मोक्षम् ॥ २०५॥
Encoded and proofread by Sunder Hattangadi