श्रीमद्रामायणपठनोपक्रमोपसंहारक्रमः स्मार्त

श्रीमद्रामायणपठनोपक्रमोपसंहारक्रमः स्मार्त

॥ श्रीः॥

ध्यानमङ्गलश्लोकाः ।

(Dhyana Shloka to be recited before the commencement of Parayanam) ॥ स्मार्तसम्प्रदायः ॥ श्रीविघ्नेश्वरध्यानम् - शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥ वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ २॥ (अनन्तरम् श्रीमच्छङ्करभगवत्पादगुरुपरम्परा अनुसन्धेया) ॐ नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रं पराशरं च व्यासं शुकं गौडपादं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् । श्री शङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यं तं तोटकं वार्त्तिककारमन्यानस्मद् गुरून् सन्ततमानतोऽस्मि ॥ सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ -- अद्वैत गुरुपरम्परा स्तोत्रम् । श्रीसरस्वतीप्रार्थना - दोर्भियुक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मम् सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानासमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ ३॥ श्रीवाल्मीकिनमस्क्रिया - कूजन्तं राम रामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ ४॥ वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः । श‍ृण्वन् रामकथानादं को न याति परां गतिम् ॥ ५॥ यः पिबन् सततं रामचरितामृतसागरम् । अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ॥ ६॥ श्रीहनुमन्नमस्क्रिया - गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ ७॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ ८॥ उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निम् जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ९॥ आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ १०॥ यत्र यत्र रघुनाथ कीर्तनम् तत्र तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ ११॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजम् वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ १२॥ श्रीरामायणप्रार्थना - यः कर्णाञ्जलिसम्पुटैरहरहः सम्यक् पिबत्यादराद् - वाल्मीकेर्वदनारविन्दगलितं रामायणाख्यं मधु । जन्मव्याधिजराविपत्तिमरणैरत्यन्तसोपद्रवं संसारं स विहाय गच्छति पुमान् विष्णोः पदं शाश्वतम् ॥ १३॥ तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्घम् । रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥ १४॥ वाल्मीकिगिरिसम्भूता रामसागरगामिनी । पुनातु भुवनं पुण्या रामायणमहानदी ॥ १५॥ श्लोकसारसमाकीर्णं सर्गकल्लोलसङ्कुलम् । काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ॥ १६॥ वेदवेद्ये परे पुंसि जाते दशरथात्मजे । वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना ॥ १७॥ श्रीरामध्यानम् - वैदेही सहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ १८॥ वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च । सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ १९॥ नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै । नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ २०॥

श्रीमद्रामायणपारायणसमापनक्रमः ।

(Mangala shloka to be recited at the end) स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः । गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥ १॥ काले वर्षतु पर्जन्यः पृथ्वी सस्यशालिनी । देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ॥ २॥ अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः । अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥ ३॥ चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं प्रोक्तं महापातकनाशनम् ॥ ४॥ श‍ृण्वन् रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥ ५॥ रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ६॥ यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते । वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥ ७॥ यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा । अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥ ८॥ अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् । अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् ॥ ९॥ त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः । यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥ १०॥ ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते । मङ्गलानि महाबाहो दिशन्तु तव सर्वदा ॥ ११॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ १२॥ इति श्रीमद्रामायणपठनोपक्रमोपसंहारक्रमः समाप्तः । Encoded and proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Shlokas to be Recited during Study of Shrimad Ramayanam
% File name             : rAmAyaNapaThanopakramopasaMhArakramaH.itx
% itxtitle              : rAmAyaNapaThanopakrame 1 smArtasampradAyasya anusandheyAH dhyAnamaNgalashlokAH 
% engtitle              : rAmAyaNapaThanopakramopasaMhArakramaH
% Category              : raama, dhyAnam, mangala
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan narayanan.aruna at gmail.com
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Latest update         : February 9, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org